सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 591, कुल 837 में से
संदर्भ में पढ़ें५३२ सात्वतसंहिता अब हे सङ्कर्षण! पद मन्त्रों के लक्षण सुनिये । जिसके बिना सत्ता (अधिकार) प्राप्त होने पर भी अर्चन संभव नहीं होता ॥ ४६-४७ ॥ १. ॐ विश्वातीताय विमलविद्याविधायिने पद्मनाभाय विश्वव्यापिने नमः ॥ ४७-४८ ॥ ज्योतीरूपाय पञ्चार्णं पदं गगनमूर्तये । ध्रुवाय दद्यात् तदनु परमं त्र्यक्षरं ततः ॥ ४९ ॥ पदप्राप्तिचतुर्वर्णं हेतवे त्र्यक्षरं त्विति । अनन्ताय पदं दद्यात् ततोऽपरिमिताय च ॥ ५० ॥ २. ॐ ज्योतीरूपाय गगनमूर्त्तये ध्रुवाय परमपदप्राप्तिहेतवे नमः ॥ ४९-५० ॥ सर्वाश्रयाय तदनु तदन्ते धृतशक्तये । एतद्विंशतिसंख्यं च द्वाविंशार्णमतः शृणु ॥ ५१ ॥ ३. ॐ अनन्तायाऽपरिमिताय सर्वाश्रयाय धृतशक्तये नमः ॥ ५१ ॥ नमो भगवते कृत्वा वासुदेवाय वै ततः । सर्वशक्त्यात्मनेऽनन्तमूर्तये तु पदं त्विति ॥ ५२ ॥ ४. ॐ नमो भगवते वासुदेवाय सर्वशक्त्यात्मनेऽनन्तमूर्तये नमः ॥ ५२ ॥ वीर्यात्मने महाशब्दं पुरुषाय पदं ततः । मोहमायापदं चैव ततो विध्वंसिने तु वै ॥ ५३ ॥ सदोदिताय शब्दं तु सर्वशक्तिपदं ततः । नियोक्तव्यं चतुर्वर्णं सप्तविंशाक्षरं स्मृतम् ॥ ५४ ॥ ५. ॐ वीर्यात्मने महापुरुषाय मोहमायाविध्वंसिने सदोदिताय सर्वशक्तये नमः ॥ ५३-५४ ॥ पदं वेदविदे विश्वरञ्जकाय ततो भवेत् । तदन्ते विश्वपतये ततो वै परमात्मने ॥ ५५ ॥ ६. ॐ वेदविदे विश्वरञ्जकाय विश्वपतये परमात्मने नमः ॥ ५५ ॥ एष विंशतिभिर्वर्णैः शृणु सप्तदशाक्षरम् । ज्ञानात्मने पदं कुर्यात् संविच्छब्दमतः परम् ॥ ५६ ॥ पदं प्रकाशाशयाय शान्तरूपाय वै ततः । अनन्तशक्तये सर्वव्यापिने तदनन्तरम् ॥ ५७ ॥ जगन्मयाय तदनु विश्वरूपाय वै पदम् । एकविंशतिभिर्वर्णैरयमुक्तोऽपरं शृणु ॥ ५८ ॥