भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

५३२ सात्वतसंहिता अब हे सङ्कर्षण! पद मन्त्रों के लक्षण सुनिये । जिसके बिना सत्ता (अधिकार) प्राप्त होने पर भी अर्चन संभव नहीं होता ॥ ४६-४७ ॥ १. ॐ विश्वातीताय विमलविद्याविधायिने पद्मनाभाय विश्वव्यापिने नमः ॥ ४७-४८ ॥ ज्योतीरूपाय पञ्चार्णं पदं गगनमूर्तये । ध्रुवाय दद्यात् तदनु परमं त्र्यक्षरं ततः ॥ ४९ ॥ पदप्राप्तिचतुर्वर्णं हेतवे त्र्यक्षरं त्विति । अनन्ताय पदं दद्यात् ततोऽपरिमिताय च ॥ ५० ॥ २. ॐ ज्योतीरूपाय गगनमूर्त्तये ध्रुवाय परमपदप्राप्तिहेतवे नमः ॥ ४९-५० ॥ सर्वाश्रयाय तदनु तदन्ते धृतशक्तये । एतद्विंशतिसंख्यं च द्वाविंशार्णमतः शृणु ॥ ५१ ॥ ३. ॐ अनन्तायाऽपरिमिताय सर्वाश्रयाय धृतशक्तये नमः ॥ ५१ ॥ नमो भगवते कृत्वा वासुदेवाय वै ततः । सर्वशक्त्यात्मनेऽनन्तमूर्तये तु पदं त्विति ॥ ५२ ॥ ४. ॐ नमो भगवते वासुदेवाय सर्वशक्त्यात्मनेऽनन्तमूर्तये नमः ॥ ५२ ॥ वीर्यात्मने महाशब्दं पुरुषाय पदं ततः । मोहमायापदं चैव ततो विध्वंसिने तु वै ॥ ५३ ॥ सदोदिताय शब्दं तु सर्वशक्तिपदं ततः । नियोक्तव्यं चतुर्वर्णं सप्तविंशाक्षरं स्मृतम् ॥ ५४ ॥ ५. ॐ वीर्यात्मने महापुरुषाय मोहमायाविध्वंसिने सदोदिताय सर्वशक्तये नमः ॥ ५३-५४ ॥ पदं वेदविदे विश्वरञ्जकाय ततो भवेत् । तदन्ते विश्वपतये ततो वै परमात्मने ॥ ५५ ॥ ६. ॐ वेदविदे विश्वरञ्जकाय विश्वपतये परमात्मने नमः ॥ ५५ ॥ एष विंशतिभिर्वर्णैः शृणु सप्तदशाक्षरम् । ज्ञानात्मने पदं कुर्यात् संविच्छब्दमतः परम् ॥ ५६ ॥ पदं प्रकाशाशयाय शान्तरूपाय वै ततः । अनन्तशक्तये सर्वव्यापिने तदनन्तरम् ॥ ५७ ॥ जगन्मयाय तदनु विश्वरूपाय वै पदम् । एकविंशतिभिर्वर्णैरयमुक्तोऽपरं शृणु ॥ ५८ ॥

त्रयोविंशः परिच्छेदः ५३३ ७. ॐ ज्ञानात्मने संवित्प्रकाशाशयाय शान्तरूपाय नमः । ८. ॐ अनन्तशक्तये सर्वव्यापिने जगन्मयाय विश्वरूपाय नमः ।। ५७-५८ ।। सत्सत्त्वपदमादाय गुहाशयपदं ततः । ततः परमहंसाय ततो मानसचारिणे ।। ५९ ।। ९. ॐ सत्सत्त्वगुहाशयाय परमहंसाय मानसचारिणे नमः ।। ५९ ।। न्यूनविंशत्यक्षरश्चैवाथातो यज्ञमूर्तये । पदमादाय तदनु विश्वान्तर्वर्तिने तु वै ।। ६० ।। ततो भुवनशब्दं तु वराहाय पदं त्वथ । विभूतिस्वामिने चेति चतुर्विंशाक्षरस्त्वयम् ।। ६१ ।। १०. ॐ यज्ञमूर्तये विश्वान्तर्वर्तिने भुवनवराहाय विभूतिस्वामिने नमः ।। ६०-६१ ।। नमो भगवते दद्यात् ततो वै वाडवाग्नये । जगज्जलेन्धनपदं प्रदीप्तपदमेव तु ।। ६२ ।। वीर्याय फट् तदन्ते तु एतत्संख्यस्त्वयंस्मृतः । ११. ॐ नमो भगवते वडवाग्नये जगज्जलेन्धनप्रदीप्तवीर्याय फट् नमः ।।६२।। सर्वान्तश्चारिणे दद्यात् प्रसन्नपदमेव च ।। ६३ ।। मूर्तयेऽथ तदन्ते वै दद्याद् धर्मात्मने पदम् । षोडशाक्षरमेतद् वै अतो गुह्यतमं शृणु ।। ६४ ।। १२. ॐ सर्वान्तश्चारिणे प्रसन्नमूर्तये धर्मात्मने नमः ।। ६३ ।। सर्वविद्येश्वरायाथ दद्यात् वाक्पतये ततः । पदं वद वदादाय ततो वाग्विभवं त्विति ।। ६५ ।। न्यूनविंशाक्षरो ह्येष त्वपरं कथयामि ते । १३. ॐ सर्वविद्येश्वराय वाक्पतये वद वद वाग्विभवं नमः ।। ६४-६५ ।। योगैश्वर्यप्रदायाथ योगनिद्रारसाय वै ।। ६६ ।। निरताय पदं दद्याद् भगवज्जलशायिने । त्रिराष्टवर्णसंख्यश्च अयमेकाधिकस्तु वै ।। ६७ ।। १४. ॐ योगैश्वर्यप्रदाय योगनिद्रारसाय नीरदाय भगवज्जलशायिने नमः ।। ६७ ।। भगवत्पदमादाय अनन्तबलशक्तये । तेजोमयाय भुवनभृतेऽथ द्व्यक्षरं पदम् ।। ६८ ।।

५३४ सात्वतसंहिता तदन्ते विनियोक्तव्यं पदं वै कच्छपात्मने । षड्विंशार्णमिमं विद्धि मन्त्रं मन्त्रविदांवर ॥ ६९ ॥ १५. ॐ भगवदनन्तबलशक्तये तेजोमयाय भुवनधृते कच्छपात्मने नमः ॥ ६८-६९ ॥ यज्ञाङ्गदेहायाद्याय महापदमत्ः परम् । वराहाय ततो दद्यात् पुराणपुरुषाय वै ॥ ७० ॥ दद्यात् ततः प्रजाशब्दं तदन्ते पतये पदम् । चतुर्विंशाक्षरं मन्त्रमेतन्मन्त्रविदांवर ॥ ७१ ॥ १६. ॐ यज्ञाङ्गदेहाय महावराहाय पुराणपुरुषाय प्रजापतये नमः ॥ ७०-७१॥ नमो भगवते कृत्वा नारसिंहाय वै ततः । तेजोनिधे पदं दद्यात् पदं हन हनेति च ॥ ७२ ॥ ततो विकर्मजाद्यं वै शब्दं पञ्चाक्षरं भवेत् । दुष्कृतं हि तदन्ते वै सप्तविंशाक्षरस्त्वयम् ॥ ७३ ॥ आदायामृतमूर्ते वै ततो ज्ञानबलात्मने । सर्वेश्वराय भगवन्न्यूनविंशाक्षरस्त्वयम् ॥ ७४ ॥ १७. ॐ नमो भगवते नारसिंहाय तेजोनिधये हन हन विकर्मजात्यं दुष्कृतं नमः ॥ ७२-७३ ॥ १८. ॐ अमृतमूर्ते ज्ञानबलात्मने सर्वेश्वराय भगवन्नमः ॥ ७३-७४ ॥ आदाय पुण्डरीकाक्षपदं वै परमेश्वर । ततः सकलशब्दं तु सुखसौभाग्य वै पदम् ॥ ७५ ॥ निधे वाञ्छितशब्दं तु ततः सिद्धिप्रदेति वै । पदं चाखिलदुःखेति ततस्तु शमनाग्नये ॥ ७६ ॥ आनन्दसुन्दरपदं ततो लक्ष्मीपदं न्यसेत् । पतये शब्दमुच्चार्य पञ्चाशार्णस्त्रिरुज्झितः ॥ ७७ ॥ १९. ॐ पुण्डरीकाक्ष परमेश्वर सकलसुख सौभाग्यनिधे वाञ्छित सिद्धि- प्रदाखिलदुःखशमनाग्नये आनन्दसुन्दरलक्ष्मीपतये नमः ॥ ७५-७७ ॥ सदसत्पदमादाय मूर्तये तदनन्तरम् । विश्वोत्तमाय तदनु ततोऽमृतनिधे तु वै ॥ ७८ ॥ षोडशार्णस्त्वयं मन्त्र उक्तः कान्तात्मनोविभोः । २०. ॐ सदसन्मूर्तये विश्वोत्तमायामृतनिधये नमः ॥ ७८-७९ ॥

त्रयोविंशः परिच्छेदः ५३५ पुरुषोत्तमाय शब्दं तु ततोऽप्रतिहतेति च ॥ ७९ ॥ शक्तयेऽथ पदं दद्यात् सर्वेश्वरपदं ततः । समग्रोग्रभयेत्यत्र निवारणपदं ततः ॥ ८० ॥ सप्तविंशाक्षरो मन्त्र उक्तश्चातः परं शृणु । नियन्त्रे पदमुद्धृत्य तदन्ते विश्वहेतवे ॥ ८१ ॥ परब्रह्मसमेतं च सेतवे ओमनन्तरम् । मन्त्रो द्विरष्टवर्णश्च कथितो वक्ष्यतः परम् ॥ ८२ ॥ २१. ॐ पुरुषोत्तमायाप्रतिहतशक्तये सर्वेश्वराय समग्रोग्रभयनिवारणाय नमः ॥ ७९-८१ ॥ २२. ॐ नियन्त्रे विश्वहेतवे परब्रह्मसेतवे ॐ नमः ॥ ८१-८२ ॥ पदमप्रतिमेत्यादौ प्रभावं तदनन्तरम् । महाविभूते तदनु महामायापदं ततः ॥ ८३ ॥ अथ दर्शकिशब्दं तु तदन्ते तालकेतवे । चतुर्विंशाक्षरो मन्त्रस्त्वयमुक्तः समासतः ॥ ८४ ॥ २३. ॐ अप्रतिमप्रभाव महाविभूते महामायादर्शकितालकेतवे नमः ॥८३-८४॥ शान्तात्मने पदं दद्यात् तदन्ते यम विन्यसेत् । नियमाश्रयाय दद्यात् परमर्धिप्रदाय च ॥ ८५ ॥ नारायणाय शब्दं तु पूर्वसंख्यासमं स्मृतम् । भवभङ्गपदं चैव कारिणे तदनन्तरम् ॥ ८६ ॥ २४. ॐ शान्तात्मने यमनियमाश्रयाय परमर्धिप्रदाय नारायणाय नमः ॥ ८५-८६ ॥ ततो भगवते शब्दं दत्तात्रेयाय वै ततः । वर्णाश्रमपदं चाथ धर्मशब्दमतः परम् ॥ ८७ ॥ परिग्रहाय प्रणवमष्टाविंशाक्षरः स्मृतः । सर्वलोकमयायेति सर्वज्ञाय पदं ततः ॥ ८८ ॥ सर्वेश्वराय न्यग्रोधशयनाय पदं त्वथ । त्रयोविंशत्यक्षरश्च त्वयमन्यं निबोधतु ॥ ८९ ॥ २५. ॐ भवभङ्गकारिणे भगवते दत्तात्रेयाय वर्णाश्रमधर्म परिग्रहाय ॐ नमः ॥ ८७-८८ ॥

५३६ सात्वतसंहिता २६. ॐ सर्वज्ञाय विश्वात्मने विमलसर्वेश्वराय न्यग्रोधशयनाय नमः ॥८८-८९॥ भूतशब्दमथादाय भावनाय पदं ततः । शब्दं विश्वात्मने चाथ विमलेतिपदं ततः ॥ ९० ॥ निकेतनाय तदनु कन्थराय पदं ततः । अयं विंशतिभिर्वर्णैर्द्वयधिकैर्मन्त्रराट् स्मृतः ॥ ९१ ॥ विष्णवे पदमादाय निरस्तास्त्राय वै ततः । पदं ब्रह्ममयायाऽथ जटिने दण्डिने ततः ॥ ९२ ॥ २७. ॐ भूतभावनाय विश्वात्मने विमलनिकेतनाय कन्थराय नमः ॥९०-९२॥ दद्याद् विदितशब्दं वै तदन्ते विभवाय च । षड्विंशार्णस्त्वयं मन्त्रः परमस्मान्निबोधतु ॥ ९३ ॥ २८. ॐ विष्णवे निरस्तास्त्राय ब्रह्ममयाय जटिने दण्डिने विदितविभवाय नमः ॥ ९३ ॥ सर्वशब्दमथादाय व्यापिने तदनन्तरम् । पदं सहस्रार्चिषे तु दद्यात् पञ्चाक्षरं शुभम् ॥ ९४ ॥ त्रिविक्रमायाथ पदं ततोऽपरिमितेति च । प्रभावाय पदं दद्यात् त्रयोविंशाक्षरः स्मृतः ॥ ९५ ॥ २९. ॐ सर्वव्यापिने सहस्रार्चिषे त्रिविक्रमाया परिमितप्रभावाय नमः ॥९४-९५॥ नरनाथाय शब्दं तु पुरुषप्रवराय वै । आत्मध्यानपरायेति णाय वै द्व्यक्षरं ततः ॥ ९६ ॥ ३०. ॐ नरनाथाय पुरुषप्रवराय आत्मध्यानपरायणाय नमः ॥ ९६ ॥ एकविंशाक्षरो मन्त्रस्त्वतोऽन्यमवधारय । नारायणाय शब्दं तु दद्यान्निरति वै पदम् ॥ ९७ ॥ शयानन्दमयायेति पदं निरभिमान वै । पदासक्ताय तदनु पञ्चविंशाक्षरस्त्वयम् ॥ ९८ ॥ ३१. ॐ नारायणाय निरतिशयानन्दमयाय निरभिमानपदासक्ताय नमः ॥९७-९८॥ पराय पदमादाय ततो वै परमात्मने । योगेश्वराय हरये मन्त्रोऽयं षोडशाक्षरः ॥ ९९ ॥ ३२. ॐ पराय परमात्मने योगेश्वराय हरये नमः ॥ ९९ ॥

त्रयोविंशः परिच्छेदः ५३७ सप्ताणं पदमादाय प्राङ्नमः परमात्मने । कृष्णाय शब्दं तदनु कमलं त्र्यक्षरं ततः ॥ १०० ॥ दलशब्दं तु विततनेत्राय तदनन्तरम् । ब्रह्मिष्ठाय ब्रह्मणे वै अष्टाविंशाक्षरस्ततः ॥ १०१ ॥ ३३. ॐ नमः परमात्मने कृष्णाय कमलदलविततनेत्राय ब्रह्मिष्ठाय ब्रह्मणे नमः ॥ १००-१०१ ॥ भगवन् पदमादाय युगान्तदहनेति च । दीप्तयेऽथ पदं दद्यात् संसारपदमेव हि ॥ १०२ ॥ बन्धविच्छेदकर्त्रे वै द्वाविंशार्णस्त्वयं स्मृतः । ३४. ॐ भगवन् युगान्तदहनदीप्तये संसारबन्धविच्छेदकर्त्रे नमः ॥ १०२ ॥ पदं चतुर्मूर्तये वै चतुर्गतिमयाय च ॥ १०३ ॥ शरशार्ङ्गभृते दद्याच्छरदिन्दीवरत्विषे । ततो भगवते दद्यादभिरामपदं ततः ॥ १०४ ॥ शरीराय पदं चैव त्वष्टत्रिंशाक्षरः स्मृतः । ३५. ॐ चतुर्मूर्तये चतुर्गतिमयाय शरशार्ङ्गभृते शरदिन्दीवरत्विषे भगवतेऽ- भिरामशरीराय नमः ॥ १०३-१०४ ॥ दद्याद् विशदशब्दं वै परमार्थपदं ततः ॥ १०५ ॥ ततो वेदविदे शब्दं विदुषे व्यापकाय च । स्वामिंस्तदनु वै दद्याद् द्व्यक्षरं चापरं पदम् ॥ १०६ ॥ अयं विंशतिभिर्वर्णैरुक्तस्त्वन्यमतः शृणु । ३६. ॐ विशदपरमार्थवेदविदे विदुषे व्यापकाय स्वामिन् नमः ॥ १०६ ॥ दद्याद् गरुडशब्दं तु तदन्ते वाहनेति च ॥ १०७ ॥ सर्वशस्त्रास्त्रोद्यतेति शमयाऽशुभमेव च । ततो धुन धुनादाय कर्मबन्धांस्ततो वदेत् ॥ १०८ ॥ धर्मं पाहि ततो दद्याद् जह्यधर्मं ततो वदेत् । चतुस्त्रिंशाक्षरो मन्त्र एष वक्ष्याम्यतः परम् ॥ १०९ ॥ ३७. ॐ गरुडवाहन सर्वशस्त्रास्त्रोद्यत शमयाऽशुभं धुन धुन कर्मबन्धान् धर्मं पाहि जह्यधर्मं नमः ॥ १०७-१०९ ॥ संहारमूर्तये शब्दं कालवैश्वानरार्चिषे । सा० सं० - ३८

५३८ सात्वतसंहिता पातालशयनायेति त्वज्ञाननिगडेति वै ॥ ११० ॥ निचयं हन वीप्सातः प्रणवं तदनन्तरम् । पञ्चत्रिंशाक्षरो ह्येष सर्वसिद्धिकरः स्मृतः ॥ १११ ॥ ३८. ॐ संहारमूर्तये कालवैश्वानरार्चिषे पातालशयनाय अज्ञान निगड निचयं हन हन ॐ नमः ॥ ११०-१११ ॥ प्रणवालङ्कृताः सर्वे नमस्कारविभूषिताः । संस्मृताः पूजिताश्चैव ध्याता जप्ता विशेषतः ॥ ११२ ॥ तन्नास्ति यन्न यच्छन्ति भक्त्या सत्कर्मणां भुवि । ये सभी मन्त्र प्रणव (ॐ) से अलङ्कृत हैं । सभी अन्त में नमस्कार से विभूषित हैं । इन मन्त्रों का स्मरण करने से, पूजा करने से, ध्यान करने से तथा जप करने से इस भूलोक में ऐसी कोई वस्तु नहीं है जो सत्कर्म परायण भक्तों को ये मन्त्र न दे सकें ॥ ११२-११३ ॥ किरीटादिलाञ्छनमन्त्रोद्धारः अथ लाञ्छनमन्त्राणां सास्त्राणां लक्षणं शृणु ॥ ११३ ॥ सहस्त्रदीधितिपदं दद्याच्छुरित वै ततः । विग्रहाय दशार्णं च त्र्यधिकं मकुटस्य च ॥ ११४ ॥ आदाय वाञ्छितपदं ततः सिद्धिप्रदाय वै । महाचिन्तापदं दद्यान्मणये तदनन्तरम् ॥ ११५ ॥ विद्धि पञ्चदशार्णं च दशार्णमपरं शृणु । सर्वलक्षणशब्दं तु ततः सम्पत्प्रदाय वै ॥ ११६ ॥ अथ तेषां किरीटादिलाञ्छनमन्त्रान् (वराहमन्त्रं ?) चक्राद्यायुधमन्त्रांश्चाह—अथ लाञ्छनमन्त्राणामित्यारभ्य यावत् परिच्छेदपरिसमाप्ति । तथा चैषां प्रयोगः—ॐ- सहस्त्रदीधितिच्छुरितविग्रहाय किरीटाय नमः । ॐ वाञ्छितसिद्धिप्रदाय महाचिन्तामणये कौस्तुभाय नमः । ॐ सर्वलक्षणसम्पत्प्रदाय श्रीवत्साय नमः । ॐ सौभाग्यजननि सर्व- प्रदे वनमालायै नमः । ॐ प्राणात्मने सत्याय नमः । ॐ कालकत्रे चक्राय फट् । ॐ विश्वात्मने विश्वप्रदाय पद्माय फट् । ॐ विद्ये विद्येश्वरार्चिते गदायै फट् । ॐ शब्दमूर्तये शङ्खाय फट् । ॐ रसनिधे भीमभीषणाय लाङ्गलाय फट् । ॐ भुवना- धिपतये स्तम्भभूताय मुसलाय फट् । ॐ इन्द्रियकोशाय इष्वस्त्राय फट् । ॐ कल्पान्तानिलघोषाय विद्युल्लसितप्रभाय शार्ङ्गाय फट् । ॐ महामायाबन्धध्वंसिने खड्गाय फट् । ॐ सर्वस्त्रिग्रसनपराय खेटकाय फट् । ॐ सन्तापकाय दर्पविध्वंसिने दण्डाय फट् । ॐ अज्ञानखण्डनपराय परशवे फट् । ॐ त्रैलोक्यमोहनमूर्तये पाशाय फट् । ॐ सर्वाकर्षकपरमहामायामयाय अङ्कुशाय फट् । ॐ अखण्डितपराक्रमाय मुद्ग-

त्रयोविंशः परिच्छेदः ५३९ राय फट् । ॐदर्पप्रशमकर्त्रे वज्राय फट् । ॐतेजोमालिनि शक्त्यै फट् । इति च द्वाविंशतिमन्त्राः ॥ ११३-१३२ ॥ ॥ इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये त्रयोविंशः परिच्छेदः ॥ २३ ॥ — ❧ ❁ ❧ — अब उनके किरीटादि चिह्न वाले मन्त्रों को तथा चक्रायुधादि मन्त्रों को कहते हैं—१. ॐ सहस्रदीधितिच्छुरितविग्रहाय(१३) किरीटाय नमः ॥ ११४ ॥ २. ॐ वाञ्छितसिद्धिप्रदाय महाचिन्तामणये(१५) कौस्तुभाय नमः ॥११५॥ ३. ॐ सर्वलक्षणसम्पत्प्रदाय(१०) श्रीवत्साय नमः ॥ ११६ ॥ सौभाग्यशब्दमादाय जननि त्र्यक्षरं ततः । सर्वप्रदे तु तदनु अयमेव दशाक्षरः ॥ ११७ ॥ प्राणात्मनेऽथ सत्याय विद्धि सप्ताक्षरं त्विदम् । कालकर्त्रेऽथ चक्राय फडष्टाणर्ः प्रकीर्तितः ॥ ११८ ॥ ४. ॐ सौभाग्यजननि सर्वप्रदे वनमालायै नमः ॥ ११७ ॥ ५. ॐ प्राणात्मने सत्याय नमः ॥ ११८ ॥ यहाँ तक लाञ्छन (भूषण) मन्त्र कहे गये, अब अस्त्र मन्त्रों को कहते हैं— १. ॐ कालकर्त्रे चक्राय फट् ॥ ११८ ॥ विश्वात्मने पदं दद्यात् ततो विश्वप्रदाय च । नवाक्षरमिदं विद्धि परमष्टाक्षरं शृणु ॥ ११९ ॥ २. ॐ विश्वात्मने विश्वप्रदाय पद्माय फट् ॥ ११९ ॥ समादायपदं विद्ये ततो विद्येश्वरार्चिते । प्राक् शब्दमूर्तये कुर्याच्छङ्खायाष्टाक्षरः स्मृतः ॥ १२० ॥ ३. ॐ विद्ये विद्येश्वरार्चिते गदायै फट् ॥ १२० ॥ ४. ॐ शब्दमूर्तये शङ्खाय फट् ॥ १२० ॥ पदं रसनिधे कुर्यात् भीमशब्दमतः परम् । भीषणाय तदन्ते वै दशाक्षरमिदं स्मृतम् ॥ १२१ ॥

५४० सात्वतसंहिता ५. ॐ रसनिधे भीमभीषणाय लाङ्गलाय फट् ॥ १२१ ॥ प्राग् भुवनाधिपतये स्तम्भभूताय वै पदम् । त्रयोदशाक्षरं विद्धि ततोऽन्यमवधारय ॥ १२२ ॥ ६. ॐ भुवनाधिपतये स्तम्भभूताय मुसलाय फट् ॥ १२२ ॥ पदमिन्द्रियकोशाय इष्वस्त्राय दशाक्षरम् । कल्पान्तानिलघोषाय विद्युल्लसित वै पदम् ॥ १२३ ॥ प्रभाय षोडशार्णं तु नवाक्षरमतः शृणु । ७. ॐ इन्द्रियकोशाय इष्वस्त्राय फट् ॥ १२३ ॥ ८. ॐ कल्पान्तानिलघोषाय विद्युल्लसितप्रभाय शार्ङ्गाय फट् ॥ १२३ ॥ महामायापदं दद्याद् बन्धवर्णद्वयं ततः ॥ १२४ ॥ ध्वंसिने पदमादाय एतत्संख्यं पदं शृणु । ९. ॐ महामायाबन्धध्वंसिने खड्गाय फट् ॥ १२४ ॥ सर्वास्त्रिग्रसनादाय पराय तदनन्तरम् ॥ १२५ ॥ १०. ॐ सर्वास्त्रिग्रसनपराय खेटकाय फट् ॥ १२५ ॥ सन्तापकाय शब्दं तु दर्पविध्वंसिने ततः । एकादशाक्षरं विद्धि नवाक्षरमथोच्यते ॥ १२६ ॥ ११. ॐ सन्तापकाय दर्पविध्वंसिने दण्डाय फट् ॥ १२६ ॥ अज्ञानखण्डनपदं पराय तदनन्तरम् । त्रैलोक्यमोहनपदं मूर्तये तु नवाक्षरम् ॥ १२७ ॥ १२. ॐ अज्ञानखण्डनपराय परशवे फट् ॥ १२७ ॥ १३. ॐ त्रैलोक्यमोहनमूर्तये पाशाय फट् ॥ १२७ ॥ सर्वाकर्षकपदं महामायामयेति वै । द्वादशाक्षरसंख्यस्तु नवाक्षरमथोद्धरेत् ॥ १२८ ॥ १४. ॐ सर्वाकर्षकपरमहामायामयाय अङ्कुशाय फट् ॥ १२८ ॥ प्रागखण्डितशब्दं तु तदन्ते विनियोज्य च । पराक्रमाय शब्दं तु सप्ताक्षरमतः शृणु ॥ १२९ ॥ १५. ॐ अखण्डितपराक्रमाय मुद्गराय फट् ॥ १२९ ॥

त्रयोविंशः परिच्छेदः ५४१ दर्पप्रशमकर्त्रे तु पञ्चार्णं विनिबोध वै । तेजोमालिनि चेत्येतद् द्वाविंशत्यनुकीर्तिताः ॥ १३० ॥ १६. ॐ दर्पप्रशमकर्त्रे वज्राय फट् ॥ १३० ॥ १७. ॐ तेजोमालिनि शक्त्यै फट् ॥ १३० ॥ प्राग्वदाद्यन्तसंरुद्धाः स्वनामपदभूषिताः । संख्यानिष्ठाक्षरस्यान्ते दद्यात् संज्ञापदं सदा ॥ १३१ ॥ चक्रवच्चास्त्रमन्त्राणां कुर्यान्नामावसानकम् । क्रमाच्चतुर्दशानां तु शक्त्यन्तानां च फट्पदम् ॥ १३२ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां अधिवासदीक्षाविधिर्नाम त्रयोविंशः परिच्छेदः ॥ २३ ॥ — 𑁍 — यहाँ तक कुल २२ मन्त्र कहे गये । इन मन्त्रों में पूर्व की भाँति पहले 'ॐ', अन्त में नमः पद, मध्य में चतुर्थ्यन्त नाम लगाकर चक्र से लेकर शक्ति पर्यन्त १७ अस्त्र मन्त्रों के अन्त में फट् लगावे ॥ १३१-१३२ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के अधिवासदीक्षाविधि नामक तेइसवें परिच्छेद की हिन्दी समाप्त हुई ॥ २३ ॥ — 𑁍 —

चतुर्विंशः परिच्छेदः प्रतिमापीठप्रासादलक्षणम् श्रीनारद उवाच विप्रप्रधानाः श्रुत्वैवं मन्त्राणां लक्षणं स्फुटम्। चोदयामास भगवान् पुनः स तालकेतुना ॥ १ ॥ अथ चतुर्विंशतिपरिच्छेदो व्याख्यास्यते । इह पुनः सङ्कर्षणेन वासुदेवश्चोदित इत्याह—विप्रेति । अत्र दिव्यत्वादात्मनेपदस्थाने परस्मैपदं प्रयुक्तम् । यद्वा स ताल- केतुनेति प्रथमैकवचनम् । स तालकेतुर्ना पुरुषः सङ्कर्षण इति यावत् ॥ १ ॥ श्री नारद जी ने कहा—हे ब्राह्मणो ! श्री सङ्कर्षण जी ने मन्त्रों के इस प्रकार के लक्षण को सुनकर पुनः श्री भगवान् से कहा ॥ १ ॥ सङ्कर्षण उवाच ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भगवन्मयः । नित्याराधनकामस्तु यदि मन्त्रमयं वपुः ॥ २ ॥ कर्तुमिच्छति लक्ष्यार्थं तत्र किंलक्षणो विधिः । चोदनाप्रकारमाह—ब्राह्मण इति सार्धेन ॥ २-३ ॥ सङ्कर्षण ने कहा—ब्राह्मण, क्षत्रिय, वैश्य, शूद्र अथवा भगवान् का भक्त यदि नित्य आराधना की कामना से मन्त्रमय शरीर बनाना चाहे, तो उस लक्ष्य की प्राप्ति के लिये उसे किस विधान का पालन करना चाहिये ॥ २-३ ॥ श्रीभगवानुवाच चित्रमृत्काष्ठशैलोत्थं सल्लोहमयमेव वा ॥ ३ ॥ भेदभिन्नं द्विजातीनां हितं बिम्बं फलार्थिनाम् । तदभिन्नमकामानां प्राप्तं चाप्यविरोधकृत् ॥ ४ ॥ अत्र चित्रमयं विद्धि भित्तिकाष्ठाम्बराश्रितम् । पुनः वर्णक्रमेणैव चतुर्धा चाम्बरोत्थितम् ॥ ५ ॥ तच्च कार्पासकौशेयक्षौमशाणमयं तु वै ।

चतुर्विंशः परिच्छेदः ५४३ एवं चोदितो वासुदेवः प्रथमं चित्रमृत्काष्ठशिलालोहमयत्वेन पञ्चविधानां बिम्बानां प्रत्येकं ब्राह्मणादिवर्णक्रमेण चातुर्विध्यम्, एवं तत्तद्वर्णानुसारेण तत्तद्- द्रव्यमयबिम्बग्रहणस्य सकामविषयत्वं बिम्बसामान्यग्रहणस्य निष्कामविषयत्वं चाह— चित्रमृत्काष्ठशैलोत्यमित्यारभ्य लाभालाभवशात् पुनरित्यन्तम् ॥ ३-११ ॥ इस प्रकार पूछे जाने पर श्री भगवान् के कहा—१. चित्र, २. मिट्टी, ३. काष्ठ, ४. शिला और ५. लोहे के भेद से पाँच प्रकार के बिम्ब होते हैं। उसके ब्राह्मणादि वर्ण क्रम से प्रत्येक के चार-चार भेद होते हैं। तत्तद् वर्णानुसार तत्तद् द्रव्य का बना हुआ बिम्ब ग्रहण सकाम विषय कहा गया है। बिम्ब का सामान्य ग्रहण बिम्ब का निष्काम विषय कहा गया है। भीत, काष्ठ और कपड़े पर निर्माण किया गया बिम्ब चित्तमय-बिम्ब कहा जाता है। इसके बाद वर्णक्रम के अनुसार कपड़े का बिम्ब कार्पास, कौशेय, क्षौम और सन के भेद से बनाया गया बिम्ब अम्बरोत्थित बिम्ब कहा जाता है ॥ ३-६ ॥ मृज्जमेवं सिताद्युत्थं वार्क्षं विविधमेव च ॥ ६ ॥ आश्वत्थं ब्रह्मवृक्षोत्थं श्रीपर्णीसुरदारुजम् । सालतालमयं चैव शाशवन्तीन्दुसारजम् ॥ ७ ॥ एवं द्वयं द्वयं विद्धि द्विजादीनां यथाक्रमम् । अतोऽन्ये दृढमूलाश्च सारवन्तो हि याज्ञिकाः ॥ ८ ॥ साधारणाश्चतुर्णां तु प्रतिमाद्ये च कर्मणि । सामान्यं भुक्तिमुक्त्यर्थमश्ममृण्मयवत् स्मृतम् ॥ ९ ॥ तारहाटकताम्रोत्थम् आरकूटमयं तथा । एवं हि भूमयो वस्त्रपाषाणा धातवो द्रुमाः ॥ १० ॥ वज्रादयोऽखिला रत्नाः सितरक्तादिलक्षणाः । असामान्याः फलेप्सूनां लाभालाभवशात् पुनः ॥ ११ ॥ इसी प्रकार श्वेत, नील, पीत और श्याम वर्ण की मिट्टी से निर्मित बिम्ब मृज्ज बिम्ब कहा जाता है। वृक्षों से बना हुआ बिम्ब अनेक प्रकार का होता है— अश्वत्थ बिम्ब, ब्रह्मवृक्ष (पलाश) बिम्ब, श्रीपर्णी बिम्ब, सुरदारुज बिम्ब, सालत्य बिम्ब, ताल बिम्ब, शशवन्ती बिम्ब, इन्द्रसारन बिम्ब। ये ८ बिम्ब वार्क्षज कहते हैं। इन्हें दो-दो के भेद से द्विजातियों का बिम्ब कहा गया है। इसके अतिरिक्त दृढ़मूल वाले मजबूत एवं याज्ञिक वृक्षों से बनी हुई जो प्रतिमायें हैं, वे प्रतिमादि, कर्म के विचार से चारों वर्णों के लिये साधारण हैं। इस प्रकार की सामान्य प्रतिमायें भोग और मोक्ष के लिये पत्थर और मिट्टी के समान कही गई हैं। तार, हाटक (सुवर्ण) और ताँबे की बनी हुई एवं पीतल की बनी हुई इसी प्रकार श्वेत, लाल वर्ण वाले भूमि, वस्त्र, पाषाण, धातु, वृक्ष, वज्रादि एवं समस्त रत्न भी

५४४ सात्वतसंहिता सकाम लोगों के लिये लाभालाभवशात् असामान्य (असाधारण) हैं ॥ ६-११ ॥ सम्यक् स्वमूर्तिमन्त्रैस्तु जपहोमार्चनादिना । नयेत् सामान्यभासित्वं तथा तत्कारणार्चनात् ॥ १२ ॥ यजेत् सेन्द्रां धरां शैलं मृदापादनकर्मणि । एवं पटद्रुमार्थं तु वरुणं सवनस्पतिम् ॥ १३ ॥ सरत्नानां च धातूनां सम्बन्धेऽर्केन्दुपावकान् । अथ तत्तद्बिम्बनिर्माणार्थं तत्तदुपादानद्रव्यग्रहणकाले सामान्यतः करिष्यमाणतत्त- न्मूर्तिमन्त्रैरर्चनजपहोमादिकं विशेषतः सेन्द्रधरादितत्तत्कारणार्चनं च कार्यमित्याह— सम्यगिति सार्धद्वाभ्याम् ॥ १२-१४ ॥ आराधक इन मूर्त्तियों को अपने मूर्ति मन्त्रों से जप, होम तथा अर्चन से सामान्य मांस की तरह बना लेवे । तत्पश्चात् उन-उन बिम्बों के निर्माण के लिये उनके उपादान भूतद्रव्य ग्रहणकाल में उन-उन मूर्त्ति मन्त्रों से जप एवं होमादि तो करे ही साथ ही विशेष रूप से मिट्टी द्वारा बिम्ब निर्माण के लिये श्रेष्ठ पृथिवी का पूजन भी करे । पट या द्रुम के द्वारा बिम्ब निर्माण के लिये सवनस्पति वरुण का पूजन करे । सरत्न धातु के द्वारा बिम्ब निर्माण के लिये सूर्य चन्द्रमा तथा अग्नि की पूजा करे ॥ १२-१४ ॥ रत्नाश्रयेण धात्वर्थेनाचदिशेन वै विना ॥ १४ ॥ तथार्चनासनेनैव चक्रपद्ममयादिना । न रत्नी प्रतिमा शस्ता ध्यायिनां ध्यानसिद्धये ॥ १५ ॥ केवला लघुमाना च प्रमाणावयवोज्झिता । रत्नमयीं सुवर्णरजताख्योत्तमधातुमयीं वा प्रतिमां विनाऽन्यद्रव्यमयी प्रतिमा लघुमाना प्रमाणावयवरहिता चेत्, न प्रशस्ता, तथैव भद्रपीठमपीत्याह—रत्नाश्रयेणेति द्वाभ्याम् । अर्चादिशेन भगवदर्चनास्पदेन, बिम्बेनेति यावत् । अर्चनासनेन केवलभद्र- पीठेनेत्यर्थः । रत्नसुवर्णरजतबिम्बं चेद् वस्तुगौरवाल्लघुमानं प्रमाणरहितमपि ग्राह्या- मिति फलितोऽर्थः ॥ १४-१६ ॥ सुवर्ण, रजतादि, उत्तम धातुओं से बनी हुई प्रतिमा के बिना अन्य द्रव्यों से बनाई गई प्रतिमा लघुमान में बनाई जाने पर उसकी प्रशंसा नहीं होती । इसी प्रकार लघुमान का बनाया गया भद्रपीठ भी प्रशस्त नहीं होता । किन्तु भगवान् की अर्चा के लिये रत्न, सुवर्णादि, उत्तम धातुओं द्वारा निर्मित बिम्ब तथा भगवदर्चा के लिये बनाया गया उन उत्तम धातुओं का भद्रपीठ वस्तु के गौरव से मान में लघु (प्रमाण रहित) होने पर भी ग्राह्य है ॥ १४-१६ ॥ वर्णाश्रमगुरुत्वाच्च स्वामित्वादखिलस्य च ॥१६ ॥

चतुर्विंशः परिच्छेदः ५४५ भूतादिदेवरूपत्वाद् उत्तमाद्येषु वस्तुषु । नृपश्चार्हति वै नित्यं सविशेषपदे स्थितः ॥ १७ ॥ किं पुनर्योऽफलाकाङ्क्षी भक्तिश्रद्धापरः सदा । मुमुक्षुत्वमात्रेण निकृष्टवर्णोद्भव उत्कृष्टवर्णार्हेषु वस्तुषु कथमर्हतीत्याशङ्कां किंपुनर्न्यायेन परिहरति—वर्णाश्रमेति द्वाभ्याम् । अफलाकाङ्क्षी = मुमुक्षुरित्यर्थः ॥ १६-१८ ॥ वर्णाश्रम धर्म में सर्वश्रेष्ठ होने के कारण, सबका स्वामी होने के कारण, सभी उत्तम वस्तुओं में ऐश्वर्यादि से सम्पन्न होने के कारण तथा देवस्वरूप होने से जिस प्रकार सविशेष पद पर राजा को नियुक्त किया जाता है, उसी प्रकार, जिस किसी प्रकार के फल की आकांक्षा जिसे नहीं है, मुमुक्षु है, भक्ति एवं श्रद्धा युक्त है, वह निकृष्ट वर्ण में उत्पन्न होने पर भी उत्कृष्ट वर्ण के योग्य आसन का अधिकारी है ॥ १६-१८ ॥ बुद्ध्वैवं चित्रबिम्बार्थी यत्नेनेदं समाचरेत् ॥ १८ ॥ गुह्यकान् गृहदेवांस्तु हृदाऽर्च्यऽर्घ्यादिना पुरा । प्रथमं चित्रबिम्बनिर्माणार्थं गुह्यकगृहदेवतार्चनपूर्वकं भित्तिकाष्ठफलकपटानां संशोधनप्रकारानाह—बुद्ध्वेति सार्धैः पञ्चभिः ॥ १८-२३ ॥ इसी प्रकार अपने मन में विचार कर चित्र बिम्ब का निर्माणकर्त्ता प्रयत्नपूर्वक चित्र बिम्ब के निर्माण में गुह्यकों एवं गृहदेवों की अर्घ्यादि द्वारा हृदय से अर्चना करे ॥ १८-१९ ॥ मलभस्मतुषाङ्गारकेशकीटनखास्तृणम् ॥ १९ ॥ मूलकण्टकचर्मास्थिसामान्येऽश्माह्निभित्तिकाः । भवत्यनर्थदाऽवश्यमतः प्राक् चतुरङ्गुलम् ॥ २० ॥ मल, भस्म, तुष, अङ्गार केश कीट, नख, तृण, मूल, कण्टक, चर्म और अस्थि सामान्य में पत्थर की भित्ति पर चित्र निर्माण अनर्थकारक हो जाता है । वहाँ चित्र निर्माण न करे ॥ १९-२० ॥ विहाय मृद्दलं भित्तेरीषद् बिम्बात् तु चाधिकम् । उक्तदोषविमुक्ताऽथ पञ्चगव्येन साम्भसा ॥ २१ ॥ मर्दितया मृदा भूयस्तद्भित्त्यंशं प्रपूर्य च । शस्त्रेण काष्ठफलकां मृगचर्मसमां पुरा ॥ २२ ॥ छविं विहाय शुद्ध्यर्थं तुरीमुक्तं तु वै पटम् । प्रक्षाल्य सलिलेनैव त्वस्त्रजप्तेन सप्तधा ॥ २३ ॥

५४६ सात्वतसंहिता अब चित्र के लिये मिट्टी, काष्ठ, फलक और पटों के संशोधन का प्रकार कहते हैं । भित्ति संशोधन का प्रकार कहते हैं—चित्रकर्त्ता भीत के पहले का चार अङ्गुल स्थान छोड़ देवे । तदनन्तर उक्त दोषों की निवृत्ति के लिये बिम्ब के प्रमाण से कुछ अधिक स्थान जल से प्रक्षालित कर पञ्चगव्य से उसे शुद्ध करे । फिर भीत के खाली अंश को सानी हुई मिट्टी से पूर्ण करे । यदि काष्ठफलक पर चित्र बनाना हो तो शस्त्र से छील कर मृगचर्म के समान उसे कोमल बनावे । यदि पट पर चित्र बनाना हो तो उसे तुरी पर से उतार देवे । उसके रङ्ग को सात बार अस्त्र मन्त्र का जप कर जल से धोकर शुद्ध करे ॥ २१-२३ ॥ मृत्संग्रहणादि प्रकारकथनम् हृन्मन्त्रेण तु सास्त्रेण मूर्तिमन्त्राश्रितेन च । तीर्थोद्देशान्नदीतीरात् पुण्यक्षेत्राच्च पर्वतात् ॥ २४ ॥ अपास्य दोषसङ्कीर्णामूर्ध्वदादादाय मृत्तिकाम् । साऽवचूर्ण्याऽथ संशोष्य सूपलिप्ते धरातले ॥ २५ ॥ अथ मृद्विम्बनिर्माणार्थं मृत्संग्रहणादिप्रकारानाह—हृन्मन्त्रेणेत्यारभ्य शुभकाष्ठा- न्तरीकृतमित्यन्तम् ॥ २४-२९ ॥ अब चित्र निर्माण के लिय मृत्तिका संशोधन का प्रकार कहते हैं—चित्र के लिये अस्त्र मन्त्र सहित हृदय मन्त्र से, अथवा मूर्ति मन्त्र से, तीर्थ स्थान से, नदी तट से, पुण्य क्षेत्र से, पर्वत से, ऊपर की दोष संकीर्ण मिट्टी हटाकर उसके बाद की मिट्टी ग्रहण करे । फिर उसे उपलिप्त धरातल पर स्थापित कर शुष्क बनावे फिर चूर-चूर करे ॥ २४-२५ ॥ शाणमौर्णं च कार्पासं सूत्रं चालसिजं तथा । कृत्वा पाषाणभिन्नं प्राग् योज्यं तत्र सवालुकम् ॥ २६ ॥ ईषद्गोमययुक्तेन भूरिक्षीरघृतादिना । भावयेत् पञ्चगव्येन खादिरेण कषेण च ॥ २७ ॥ सिद्धार्थकालसिस्नेहतिलोत्थेन च वै सह । क्लेदयेच्च त्रिसप्ताहं भाण्डे कृत्वाऽऽयसादिके ॥ २८ ॥ मारुतानलसूर्येन्दुदर्शनिन विनैव हि । तया समाप्यं तद्विम्बं शुभकाष्ठान्तरीकृतम् ॥ २९ ॥ सन का, अन का, कपास का, तथा तीसी का सूत लेकर पत्थर से चूर करे, उसमें बालू मिलावे, फिर थोड़ा गोबर से तथा पर्याप्त दूध और घृत मिलावे । पञ्चगव्य से पवित्र करे तथा खैर डाल कर उसे कषाय वर्ण का बनावे । फिर पीली सरसों, तीसी और तिल का तेल मिलाकर उसे आर्द्र बनावे । तदनन्तर लोहादि के

चतुर्विंशः परिच्छेदः ५४७ बर्तन में तीन सप्ताह तक इस प्रकार स्थापित करे जिससे उसमें हवा न लगे । अग्नि, सूर्य तथा चन्द्रमा की किरणें उसे स्पर्श न करें । इस प्रकार की मिट्टी को अच्छे काष्ठ पर स्थापित कर उसका बिम्ब निर्माण करे ॥ २६-२९ ॥ वस्त्रवच्चैव लोहानां कृत्वा प्रक्षालनं ततः । मार्जनं भूतिना भूयस्तथा तन्मन्त्रितेन च ॥ ३० ॥ लोहबिम्बनिर्माणार्थं लोहसंशोधनप्रकारमाह—वस्त्रवदिति । तन्मन्त्रितेन अस्त्रा- भिमन्त्रितेनेत्यर्थः ॥ ३० ॥ भक्त्या प्रवर्तमानस्तु बिम्बसाधनकर्मणि । सर्वत्र चास्त्रमन्त्रस्य कुर्यान्निर्विघ्नशान्तये ॥ ३१ ॥ पूजनं हवनं भूतबलिदानं सदक्षिणम् । सम्यग् ग्रहणकाले तु एतत् सामान्यमेव हि ॥ ३२ ॥ बिम्बनिर्माणप्रारम्भकाले सामान्यतस्तत्तन्मूर्तिमन्त्रार्चनादिकं कार्यमित्याह— भक्त्येति द्वाभ्याम् ॥ ३१-३२ ॥ अब लौह बिम्ब के निर्माण के लिये लौह संशोधन का प्रकार कहते हैं । लौह का वस्त्र के समान ही जल से प्रक्षालन करे फिर भस्म मन्त्र से अभिमन्त्रित भूति से उसका मार्जन करे । बिम्ब साधन के काम में भक्तिपूर्वक लगा हुआ साधक बिम्ब निर्माण की निर्विघ्न शान्ति के लिये सर्वत्र अस्त्र मन्त्र का जप करे । फिर पूजन करे, होम करे, बलिदान करे, दक्षिणा देवे, फिर लौह बिम्ब का निर्माण करे । सम्यग् लौह बिम्ब के निर्माण में यही सामान्य विधि है ॥ ३०-३२ ॥ सच्छैलदारुग्रहणे विशेषस्त्वधुनोच्यते । सर्वत्रारम्भकाले तु निमित्तमुपलक्ष्य च ॥ ३३ ॥ विशेषाद् वनयात्रायां तच्छुभेन शुभोदयः । अशुभेन निमित्तेन यात्रा विघ्नवती भवेत् ॥ ३४ ॥ विशेषेण शिलादारुसंग्रहणविधानमाह—सच्छैलदारुग्रहण इत्यारभ्य सर्वं चूर्णमयं तत इत्यन्तम् । एतत्प्रयोगस्तु श्रीसात्वतामृते सुविशदं प्रतिपादितो द्रष्टव्यः ॥ ३३-९० ॥ अब बिम्ब के लिये शैलदारु ग्रहण के प्रकार में विशेष कहते हैं—सर्वत्र बिम्ब के आरम्भ काल में निमित्त देखे । विशेष कर वन में जाने के लिये शुभ निमित्त दर्शन से शुभ का उदय होता है । साकाम अशुभ निमित्त के दर्शन से यात्रा विघ्नवती होती है ॥ ३३-३४ ॥ विरामेण तु जप्येन शान्तिस्वस्त्ययनादिना ।

५४८ सात्वतसंहिता निवर्त्तनेन तद्धन्याद् दहते शुभकृद् यतः ॥ ३५ ॥ यात्रा में अशुभ निमित्त का दर्शन होने पर यात्रा का विराम करे और जप करे । शान्ति-पाठ एवं स्वस्त्ययन पाठ करे । इस प्रकार करने वाला शुभकृत् अमङ्गल का दहन कर देता है ॥ ३५ ॥ मन्त्रमभ्यर्च्य यात्रायामभ्यर्थ्याज्ञां विनिन्द्य च । नैवेद्यशेषभुग् वामचारस्थः संयतेन्द्रियः ॥ ३६ ॥ यात्रा में मन्त्र की अर्चना करे, भगवान् से आज्ञा माँगे, प्रसन्न रहे, भगवान् के नैवेद्य शेष का भोजन करे, श्रेष्ठ आचरण करे, इन्द्रियों का संयम रखे ॥ ३६॥ प्राङ्मुखः संस्मरेन्मन्त्रं समुत्थायामृतोदये । परिज्ञाय पुरा मूर्त्तिं तन्मूर्त्यन्तरमेव वा ॥ ३७ ॥ अमृत बेला में शय्या से उठकर पूर्वाभिमुख हो मन्त्र का स्मरण करे । मूर्त्ति का अथवा अन्य मूर्त्ति का पता लगा कर उसी दिशा में यात्रा करे । यदि मूर्त्ति का पता न लगे तो अन्य जिस किसी दिशा में यात्रा करे । यात्रा में सावधान (होशियार) सहायकों को तथा शिल्पियों को साथ रखे ॥ ३७ ॥ यायात् तदीयं दिग्भागं तदभावात् तु चान्यदिक् । सहायैरप्रमत्तैस्तु शिल्पिभिः सह संवृतः ॥ ३८ ॥ लाजदध्यक्षतैः कुम्भैर्यायात् पुष्पपुरस्सरैः । सौमनस्यं महोत्साहस्त्वङ्गस्पन्दश्च दक्षिणः ॥ ३९ ॥ यात्रा में आगे लावा, दही, अक्षत, पूर्ण कुम्भ एवं पुष्प का दर्शन करे । मन को प्रसन्न रखे और महान् उत्साह से युक्त रहे । यात्रा में दाहिने अङ्ग का फड़कना शुभावह है ॥ ३८-३९ ॥ शुभा वाणी ध्वनिः शाङ्खस्तन्त्री वाद्यं फलादयः । गोगजाश्वाद्विजाः कन्या नवभाण्डं च मृद् दधि ॥ ४० ॥ आर्द्रमांसान्यलङ्कारो मदिराग्नी घृतं पयः । सिद्धान्नं शालिबीजादि दर्भाः सद्रुममञ्जरी ॥ ४१ ॥ छत्रवस्त्रध्वजा यानं रोचना कुङ्कुमं मधु । दर्पणं चामरश्चैव धातवः शस्त्रवर्जिताः ॥ ४२ ॥ रत्नानि वैबुधं बिम्बं मधुमत्तो ह्यकातरः । जीवन्मत्स्या निमित्तं च मनसो यदखेददम् ॥ ४३ ॥ तत्सर्वं दर्शने श्रेष्ठं यत् खेददमशोभनम् ।

चतुर्विंशः परिच्छेदः ५४९ स्वगृहद्वारदेशाच्च पथि सप्तपदावधि ॥ ४४ ॥ क्रममाणे निमित्तं च फलं यच्छत्यनेन हि । निर्गत्य नगराद् ग्रामात् क्रोशार्धं क्रोशमेव वा ॥ ४५ ॥ गृह्णीयाच्छाकुनं चिह्नं नकुलादिमयं त्वतः । पूर्णात् सार्धाधिकात् क्रोशाद् हितकृन्मृगदर्शनम् ॥ ४६ ॥ शुभ वाणी, शङ्ख की ध्वनि, वीणा का वादन, फलादि, गाय, गज, घोड़ा, कन्या, नवीन भाण्ड (मिट्टी का बर्तन), मिट्टी, दही, आर्द्र, मांस, अलङ्कार, मदिरा, आग, घृत, दूध, सिद्धान्त शाली का बीज, कुशा, वृक्ष पर चढ़ी हुई लता, छत्र, वस्त्र, ध्वज, यान, हरदी, कुङ्कुम, मधु, दर्पण, चामर, शस्त्र रहित धातु, रत्न, देवता का बिम्ब आकार, मद्य में मस्त जीवित मछली तथा मन को प्रसन्न करने वाले समस्त निमित्त ये सभी निमित्त दर्शन मात्र से शुभावह होते हैं । जो मन को खिन्न करने वाले निमित्त हैं, वे अशुभ हैं । अपने घर के द्वार देश से सात पग पर्यन्त चलने पर देखे हुए निमित्त फल प्रदान करते हैं । नगर से अथवा गाँव से एक कोश अथवा आधा कोश चलने पर नकुलादिभय शकुन चिह्न शुभावह होते हैं । एक कोस पूरा होने पर अथवा डेढ़ कोश पूरा होने पर मृग दर्शन हितकारी होता है ॥ ४०-४६ ॥ दिङ्मुखे निर्मले सिद्धिर्व्रजेद् यत्र विशेषतः । सिद्धिकृच्चाम्बरं स्वच्छं सुदीप्ता भास्करादयः ॥ ४७ ॥ मरुत् सुखावहः स्निग्धः प्रदक्षिणगतिः स्थिरः । दिव्याद्युत्पातनिर्मुक्तः स कालः सिद्धिसूचकः ॥ ४८ ॥ जिस दिशा में जाना हो वह दिशा यदि सर्वथा निर्मल हो तो सिद्धि प्राप्त होती है । स्वच्छ आकाश सिद्धिकारक होता है और सुन्दर प्रकाश युक्त सूर्यादि सुखावह है । शीतल, मन्द, सुगन्ध से युक्त एवं दाहिनी ओर से बहने वाली वायु भी सुखावह होती है । इसी प्रकार दिव्य उत्पात रहित काल भी सिद्धि का सूचक कहा गया है ॥ ४७-४८ ॥ हंसः शुको भरद्वाजः कोकिलः खञ्जरीटकः । मयूरो भ्रमरश्चक्रवाकाद्याः खेचराः शुभाः ॥ ४९ ॥ हंस, शुक, भरद्वाज, कोकिल, खञ्जन, मोर, भ्रमर, चक्रवाकादि पक्षी यात्रा में शुभावह हैं ॥ ४९ ॥ भूचरा नकुलाः सौम्याः सिताहिर्गृहगोधिका । गन्धाखुर्जम्बुकश्चैव सर्वेषां दर्शनं शुभम् ॥ ५० ॥

५५० सात्वतसंहिता पृथिवी पर चलने वालों में नकुल, श्वेत सर्प, गृह गोधिका, विस्तूया, छुछुन्दर, जम्बुक इन सभी का दर्शन शुभावह है ॥ ५० ॥ मृगाणां हरिणः सिंहो व्याघ्रः शशकचित्रका । सिद्धिसंसूचकाः सर्वे सर्वेषां विहितं तु वै ॥ ५१ ॥ जङ्गली जन्तुओं में हरिन, सिंह, बाघ, खरगोश, चिता ये सभी सबके लिये सिद्धि प्रदान करने वाले हैं ॥ ५१ ॥ प्रदक्षिणं विशेषेण व्यत्यये जम्बुकः शुभः । द्विजादिकं रुतं स्निग्धं सिद्धिकृत् तच्च सौख्यदम् ॥ ५२ ॥ ये दक्षिण की ओर होने पर विशेष शुभकारक है । किन्तु जम्बुक बायें दिखाई पड़े तो शुभकारक है । दाहिने पक्षी आदि का मधुर शब्द सिद्धि करने वाला तथा सौख्य प्रदान करने वाला है ॥ ५२ ॥ समुत्पन्ने निमित्ते तु धातुसंक्षेपकर्मणि । प्रतीक्षितुं न युज्येत यदा शान्तिं तदाचरेत् ॥ ५३ ॥ धातु संक्षेप कर्म में शुभ निमित्त दिखाई पड़ने पर प्रतीक्षा न करे । जिससे शान्ति हो वैसा करे ॥ ५३ ॥ पूर्वोक्तां चित्तशुद्ध्यर्थं सविशेषां सदक्षिणाम् । प्रविश्य विधिवत् क्षेत्रं निरीक्षेत स्वतेजसा ॥ ५४ ॥ चित्त शुद्धि के लिये विशेषता के साथ तथा दक्षिणा के साथ क्षेत्र में जाकर अपने तेज से स्वयं क्षेत्र का निरीक्षण करे ॥ ५४ ॥ पश्येच्छिलां गुणवतीं तरुं वा कर्मणि क्षमम् । वर्जयेदतिवृद्धां च परिक्षीणत्वचं तथा ॥ ५५ ॥ क्षेत्र में गुणयुक्त शिला देखे, अथवा बिम्ब कर्म में समक्ष वृक्ष देखे । अत्यन्त बड़ी शिला का वर्जन करे एवं जिस वृक्ष पर त्वचा न हो ऐसे वृक्ष को भी वर्जित करे ॥ ५५ ॥ सभङ्गां दावदग्धां च निश्शब्दां रूक्षविग्रहाम् । सवालुकां च सच्छिद्रां बिन्दुयुक्तां पुटोद्वहाम् ॥ ५६ ॥ जो शिला टूटी हो, दावाग्नि से दग्ध हो, शब्द रहित हो, सर्वथा रूक्ष (शुष्क) हो, बालुका युक्त हो, छिद्र वाली हो, बिन्दु से युक्त हो और जो पुट (पात्र) से वहन करने योग्य हो उसे वर्जित करे ॥ ५६ ॥ आखुदर्दुरमीनाहिमार्जारशशकोपमाम् ।

चतुर्विंशः परिच्छेदः ५५१ सुवर्णपरवर्णोत्थशिराजालेन सन्तताम् ॥ ५७ ॥ प्रागुक्तरूपस्याभावादमीषां ग्रहणं हितम् । पारावतशुकाब्जाभा मधुमाञ्जिष्ठमाषभा ॥ ५८ ॥ गुर्वी हृद्या शुभा स्निग्धा अतो वान्याभिशस्यते । सुहृद्ये भूतले मग्ना जलाशयतलस्थिता ॥ ५९ ॥ छन्ना तरुवरेणैव वनराजिष्ववस्थिता । वेष्टिता वल्लिवृन्देन तथैवाैषधिभिर्वृता ॥ ६० ॥ चूहा, मेघा, मछली, सर्प, बिल्ली और खरगोश के तुल्य हो, सुवर्ण जाल अथवा अन्य वर्णोत्थ शिरा जाल से सन्तत हो, ऐसी शिला वर्जित करे । यदि गुणवती शिला अप्राप्त हो तब उसके अभाव में इस प्रकार की भी शिला ग्राह्य की जा सकती है । जिसकी आभा कबूतर एवं शुक की आभा के समान हो, अथवा मजीठी, मधु, माष के समान हो, जो गुर्वी हो, मनोहर हो, शुभा हो, चिकनी हो, इस प्रकार की अन्य शिला भी बिम्ब ग्रहण कार्य में प्रशस्त है । अच्छे भूतल से दबी हो, जलाशय के तल में गड़ी हो, उत्तम मङ्गलकारी वृक्षों से ढकी हो, वनराजी में स्थित हो, लताओं से परिवेष्टित हो और जो औषधियों से घिरी हो उसे ग्रहण करे ॥ ५७-६० ॥ ऊर्ध्वगा जानुदेशाच्च एकपिण्डीकृता भृगोः । मोक्षदा च खवक्त्रा वै भोगदा सुतलानना ॥ ६१ ॥ दिङ्मुखी चोभयकरी प्राङ्‌मूर्धा भूतिरायुषे । अतोऽन्यमस्तका कीर्तिर्यशोवृद्धिकरी मता ॥ ६२ ॥ वंशवृद्धिदमारोग्यशान्तिकृत्कं यदाप्यदिक् । पुष्टिमुन्नतिसन्मेधां यच्छत्युत्तरमस्तका ॥ ६३ ॥ जो जानुदेश से ऊपर स्थित हो, ऊँची शिलाओं से एक पिण्डी के रूप में हो, जिसका मुख ऊपर की ओर हो, ऐसी शिला मोक्षदा होती है । जिसका मुख सुन्दर तला वाला है ऐसी शिला भोग प्रदान करती है । किसी दिशा की ओर जिसका मुख है ऐसी शिला भोग, मोक्ष दोनों देती है । जिसका मुख पूर्व की ओर है ऐसी शिला वैभव और आयुष्य दोनों प्रदान करती है । इसके अतिरिक्त अन्यत्र मस्तक वाली शिला कीर्ति और यश की वृद्धि करने वाली होती है । जिसका शिर पश्चिम दिशा की ओर हो, ऐसी शिला वंश की वृद्धि करती है, आरोग्य एवं शान्ति प्रदान करती है । जिस शिला का मस्तक उत्तर दिशा में हो ऐसी शिला पुष्टि उन्नति तथा सन्मेधा प्रदान करती है ॥ ६१-६३ ॥ एवं पुरा परिज्ञाय पृष्ठोरुचरणं शिरः ।