सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 595, कुल 837 में से
संदर्भ में पढ़ें५३६ सात्वतसंहिता २६. ॐ सर्वज्ञाय विश्वात्मने विमलसर्वेश्वराय न्यग्रोधशयनाय नमः ॥८८-८९॥ भूतशब्दमथादाय भावनाय पदं ततः । शब्दं विश्वात्मने चाथ विमलेतिपदं ततः ॥ ९० ॥ निकेतनाय तदनु कन्थराय पदं ततः । अयं विंशतिभिर्वर्णैर्द्वयधिकैर्मन्त्रराट् स्मृतः ॥ ९१ ॥ विष्णवे पदमादाय निरस्तास्त्राय वै ततः । पदं ब्रह्ममयायाऽथ जटिने दण्डिने ततः ॥ ९२ ॥ २७. ॐ भूतभावनाय विश्वात्मने विमलनिकेतनाय कन्थराय नमः ॥९०-९२॥ दद्याद् विदितशब्दं वै तदन्ते विभवाय च । षड्विंशार्णस्त्वयं मन्त्रः परमस्मान्निबोधतु ॥ ९३ ॥ २८. ॐ विष्णवे निरस्तास्त्राय ब्रह्ममयाय जटिने दण्डिने विदितविभवाय नमः ॥ ९३ ॥ सर्वशब्दमथादाय व्यापिने तदनन्तरम् । पदं सहस्रार्चिषे तु दद्यात् पञ्चाक्षरं शुभम् ॥ ९४ ॥ त्रिविक्रमायाथ पदं ततोऽपरिमितेति च । प्रभावाय पदं दद्यात् त्रयोविंशाक्षरः स्मृतः ॥ ९५ ॥ २९. ॐ सर्वव्यापिने सहस्रार्चिषे त्रिविक्रमाया परिमितप्रभावाय नमः ॥९४-९५॥ नरनाथाय शब्दं तु पुरुषप्रवराय वै । आत्मध्यानपरायेति णाय वै द्व्यक्षरं ततः ॥ ९६ ॥ ३०. ॐ नरनाथाय पुरुषप्रवराय आत्मध्यानपरायणाय नमः ॥ ९६ ॥ एकविंशाक्षरो मन्त्रस्त्वतोऽन्यमवधारय । नारायणाय शब्दं तु दद्यान्निरति वै पदम् ॥ ९७ ॥ शयानन्दमयायेति पदं निरभिमान वै । पदासक्ताय तदनु पञ्चविंशाक्षरस्त्वयम् ॥ ९८ ॥ ३१. ॐ नारायणाय निरतिशयानन्दमयाय निरभिमानपदासक्ताय नमः ॥९७-९८॥ पराय पदमादाय ततो वै परमात्मने । योगेश्वराय हरये मन्त्रोऽयं षोडशाक्षरः ॥ ९९ ॥ ३२. ॐ पराय परमात्मने योगेश्वराय हरये नमः ॥ ९९ ॥