सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 596, कुल 837 में से
संदर्भ में पढ़ेंत्रयोविंशः परिच्छेदः ५३७ सप्ताणं पदमादाय प्राङ्नमः परमात्मने । कृष्णाय शब्दं तदनु कमलं त्र्यक्षरं ततः ॥ १०० ॥ दलशब्दं तु विततनेत्राय तदनन्तरम् । ब्रह्मिष्ठाय ब्रह्मणे वै अष्टाविंशाक्षरस्ततः ॥ १०१ ॥ ३३. ॐ नमः परमात्मने कृष्णाय कमलदलविततनेत्राय ब्रह्मिष्ठाय ब्रह्मणे नमः ॥ १००-१०१ ॥ भगवन् पदमादाय युगान्तदहनेति च । दीप्तयेऽथ पदं दद्यात् संसारपदमेव हि ॥ १०२ ॥ बन्धविच्छेदकर्त्रे वै द्वाविंशार्णस्त्वयं स्मृतः । ३४. ॐ भगवन् युगान्तदहनदीप्तये संसारबन्धविच्छेदकर्त्रे नमः ॥ १०२ ॥ पदं चतुर्मूर्तये वै चतुर्गतिमयाय च ॥ १०३ ॥ शरशार्ङ्गभृते दद्याच्छरदिन्दीवरत्विषे । ततो भगवते दद्यादभिरामपदं ततः ॥ १०४ ॥ शरीराय पदं चैव त्वष्टत्रिंशाक्षरः स्मृतः । ३५. ॐ चतुर्मूर्तये चतुर्गतिमयाय शरशार्ङ्गभृते शरदिन्दीवरत्विषे भगवतेऽ- भिरामशरीराय नमः ॥ १०३-१०४ ॥ दद्याद् विशदशब्दं वै परमार्थपदं ततः ॥ १०५ ॥ ततो वेदविदे शब्दं विदुषे व्यापकाय च । स्वामिंस्तदनु वै दद्याद् द्व्यक्षरं चापरं पदम् ॥ १०६ ॥ अयं विंशतिभिर्वर्णैरुक्तस्त्वन्यमतः शृणु । ३६. ॐ विशदपरमार्थवेदविदे विदुषे व्यापकाय स्वामिन् नमः ॥ १०६ ॥ दद्याद् गरुडशब्दं तु तदन्ते वाहनेति च ॥ १०७ ॥ सर्वशस्त्रास्त्रोद्यतेति शमयाऽशुभमेव च । ततो धुन धुनादाय कर्मबन्धांस्ततो वदेत् ॥ १०८ ॥ धर्मं पाहि ततो दद्याद् जह्यधर्मं ततो वदेत् । चतुस्त्रिंशाक्षरो मन्त्र एष वक्ष्याम्यतः परम् ॥ १०९ ॥ ३७. ॐ गरुडवाहन सर्वशस्त्रास्त्रोद्यत शमयाऽशुभं धुन धुन कर्मबन्धान् धर्मं पाहि जह्यधर्मं नमः ॥ १०७-१०९ ॥ संहारमूर्तये शब्दं कालवैश्वानरार्चिषे । सा० सं० - ३८