सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 594, कुल 837 में से
संदर्भ में पढ़ेंत्रयोविंशः परिच्छेदः ५३५ पुरुषोत्तमाय शब्दं तु ततोऽप्रतिहतेति च ॥ ७९ ॥ शक्तयेऽथ पदं दद्यात् सर्वेश्वरपदं ततः । समग्रोग्रभयेत्यत्र निवारणपदं ततः ॥ ८० ॥ सप्तविंशाक्षरो मन्त्र उक्तश्चातः परं शृणु । नियन्त्रे पदमुद्धृत्य तदन्ते विश्वहेतवे ॥ ८१ ॥ परब्रह्मसमेतं च सेतवे ओमनन्तरम् । मन्त्रो द्विरष्टवर्णश्च कथितो वक्ष्यतः परम् ॥ ८२ ॥ २१. ॐ पुरुषोत्तमायाप्रतिहतशक्तये सर्वेश्वराय समग्रोग्रभयनिवारणाय नमः ॥ ७९-८१ ॥ २२. ॐ नियन्त्रे विश्वहेतवे परब्रह्मसेतवे ॐ नमः ॥ ८१-८२ ॥ पदमप्रतिमेत्यादौ प्रभावं तदनन्तरम् । महाविभूते तदनु महामायापदं ततः ॥ ८३ ॥ अथ दर्शकिशब्दं तु तदन्ते तालकेतवे । चतुर्विंशाक्षरो मन्त्रस्त्वयमुक्तः समासतः ॥ ८४ ॥ २३. ॐ अप्रतिमप्रभाव महाविभूते महामायादर्शकितालकेतवे नमः ॥८३-८४॥ शान्तात्मने पदं दद्यात् तदन्ते यम विन्यसेत् । नियमाश्रयाय दद्यात् परमर्धिप्रदाय च ॥ ८५ ॥ नारायणाय शब्दं तु पूर्वसंख्यासमं स्मृतम् । भवभङ्गपदं चैव कारिणे तदनन्तरम् ॥ ८६ ॥ २४. ॐ शान्तात्मने यमनियमाश्रयाय परमर्धिप्रदाय नारायणाय नमः ॥ ८५-८६ ॥ ततो भगवते शब्दं दत्तात्रेयाय वै ततः । वर्णाश्रमपदं चाथ धर्मशब्दमतः परम् ॥ ८७ ॥ परिग्रहाय प्रणवमष्टाविंशाक्षरः स्मृतः । सर्वलोकमयायेति सर्वज्ञाय पदं ततः ॥ ८८ ॥ सर्वेश्वराय न्यग्रोधशयनाय पदं त्वथ । त्रयोविंशत्यक्षरश्च त्वयमन्यं निबोधतु ॥ ८९ ॥ २५. ॐ भवभङ्गकारिणे भगवते दत्तात्रेयाय वर्णाश्रमधर्म परिग्रहाय ॐ नमः ॥ ८७-८८ ॥