सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 593, कुल 837 में से
संदर्भ में पढ़ें५३४ सात्वतसंहिता तदन्ते विनियोक्तव्यं पदं वै कच्छपात्मने । षड्विंशार्णमिमं विद्धि मन्त्रं मन्त्रविदांवर ॥ ६९ ॥ १५. ॐ भगवदनन्तबलशक्तये तेजोमयाय भुवनधृते कच्छपात्मने नमः ॥ ६८-६९ ॥ यज्ञाङ्गदेहायाद्याय महापदमत्ः परम् । वराहाय ततो दद्यात् पुराणपुरुषाय वै ॥ ७० ॥ दद्यात् ततः प्रजाशब्दं तदन्ते पतये पदम् । चतुर्विंशाक्षरं मन्त्रमेतन्मन्त्रविदांवर ॥ ७१ ॥ १६. ॐ यज्ञाङ्गदेहाय महावराहाय पुराणपुरुषाय प्रजापतये नमः ॥ ७०-७१॥ नमो भगवते कृत्वा नारसिंहाय वै ततः । तेजोनिधे पदं दद्यात् पदं हन हनेति च ॥ ७२ ॥ ततो विकर्मजाद्यं वै शब्दं पञ्चाक्षरं भवेत् । दुष्कृतं हि तदन्ते वै सप्तविंशाक्षरस्त्वयम् ॥ ७३ ॥ आदायामृतमूर्ते वै ततो ज्ञानबलात्मने । सर्वेश्वराय भगवन्न्यूनविंशाक्षरस्त्वयम् ॥ ७४ ॥ १७. ॐ नमो भगवते नारसिंहाय तेजोनिधये हन हन विकर्मजात्यं दुष्कृतं नमः ॥ ७२-७३ ॥ १८. ॐ अमृतमूर्ते ज्ञानबलात्मने सर्वेश्वराय भगवन्नमः ॥ ७३-७४ ॥ आदाय पुण्डरीकाक्षपदं वै परमेश्वर । ततः सकलशब्दं तु सुखसौभाग्य वै पदम् ॥ ७५ ॥ निधे वाञ्छितशब्दं तु ततः सिद्धिप्रदेति वै । पदं चाखिलदुःखेति ततस्तु शमनाग्नये ॥ ७६ ॥ आनन्दसुन्दरपदं ततो लक्ष्मीपदं न्यसेत् । पतये शब्दमुच्चार्य पञ्चाशार्णस्त्रिरुज्झितः ॥ ७७ ॥ १९. ॐ पुण्डरीकाक्ष परमेश्वर सकलसुख सौभाग्यनिधे वाञ्छित सिद्धि- प्रदाखिलदुःखशमनाग्नये आनन्दसुन्दरलक्ष्मीपतये नमः ॥ ७५-७७ ॥ सदसत्पदमादाय मूर्तये तदनन्तरम् । विश्वोत्तमाय तदनु ततोऽमृतनिधे तु वै ॥ ७८ ॥ षोडशार्णस्त्वयं मन्त्र उक्तः कान्तात्मनोविभोः । २०. ॐ सदसन्मूर्तये विश्वोत्तमायामृतनिधये नमः ॥ ७८-७९ ॥