भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 643, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 643

५८४ सात्वतसंहिता होकर स्थापित करने से अर्थ सिद्धि होती है । इससे विलोम दिशा में होकर स्थापन करने से आराधक को विपरीत फल होता है ॥ २७९-२८१ ॥ प्रासादनिर्माणविधानम् पीठवच्च परिज्ञेयं प्रासादस्य च उच्यते । शुभे दिनेऽनुकूले तु नक्षत्रे पूजिते ग्रहे ॥ २८२ ॥ लग्ने स्थिरे स्थिरांशे च दृक्शुद्धे चोत्तरायणे । दिव्याद्युत्पातसंशुद्धे सितपक्षेऽमलेऽम्बरे ॥ २८३ ॥ आ जलान्तं कृते खाते पूर्ववत् सम्प्रपूरिते । विमुक्तदोषे भूभागे सर्वलक्षणलक्षिते ॥ २८४ ॥ पूरणादंशशेषे तु सूपलिप्ते धरातले । चतुष्षष्टिपदीभूते प्राग्वत् सूत्रेण सर्वदिक् ॥ २८५ ॥ स्नातः शुक्लाम्बरः स्रग्वी कृतन्यासः सुशान्तधीः । सर्वसाधनसंयुक्तश्चार्घ्यपात्रसमन्वितः ॥ २८६ ॥ मङ्गल्यकुम्भमादाय ध्यायमानोऽच्युतं हृदि । सह चैकायनैर्विप्रैः सदागमपरायणैः ॥ २८७ ॥ तथा ऋङ्मयपूर्वस्तु आ मूलाद् भगवन्मयैः । विशेत् प्रासादभूभागं मध्ये कुम्भं निधाय तम् ॥ २८८ ॥ कुर्यान्निरीक्षणं भूमेस्ताडनं प्रोक्षणं ततः । सेचनं पञ्चगव्येन सह चास्त्रोदकेन तु ॥ २८९ ॥ अथ प्रासादनिर्माणविधिं दर्शयन् तत्र वास्तुपुरुषार्चनपूर्वकं तन्मध्ये महाकुम्भ- स्थापनविधिमाह—पीठवच्च परिज्ञेयमित्यारभ्य वर्णाध्वा च तदूर्ध्वत इत्यन्तम् । 'आ जलान्तं कृते खाते पूर्ववत्सम्प्रपूरित' इत्यत्र पूर्ववदित्यनेनाष्टादशपरिच्छेदोक्तः क्ष्मा- परिग्रहो गृह्यते । एवं क्ष्मापरिग्रहादिकं पौष्करे विस्तरेणोक्तमत्रापेक्षितम् । अत एवेश्वरतन्त्रे तत्संगृहीतं द्रष्टव्यम् । एवं क्ष्मापरिग्रहप्रयोगः कुम्भस्थापनादिप्रयोगश्च श्रीसात्वतामृते सुस्पष्टं प्रति- पादितः । एवं प्रासादभूमध्ये स्थापितकुम्भाधिदेवता बिम्बप्रतिष्ठान्तं प्रत्यहं पूजनीयाः । तदनन्तरमपि प्रतिदिनं विमानार्चनप्रकरणे तदर्चनविधानमीश्वरपारमेश्वरयोरेव सुस्पष्टं प्रतिपादितम् । किन्तु पारमेश्वरे विमानार्चनप्रकरणे पौष्करोक्तरीत्या "तेषां विदिक्- स्थितानां च" (१०।२३) इत्यादिभिर्विदिकूस्थितकुम्भचतुष्के स्वमन्त्रेण लक्ष्मीम्, पूर्वादिदिक्स्थितकुम्भचतुष्के स्वमन्त्रेण कौस्तुभम्, मध्यकुम्भे षडक्षरेण निष्कलं शब्दविग्रहं शक्त्यात्मानं भगवन्तं न्यसेदित्युक्तम् । "तत्र मध्यमकुम्भस्य" (१०।२६) इत्यादिभिर्मध्यमकुम्भपिधाने पराशक्तिः प्रभाशक्तिश्च, दिक्षु स्थितकुम्भपिधानचतुष्के ज्ञानशक्तिः, विदिकूकुम्भपिधानचतुष्टये क्रियाशक्तिर्न्यस्तव्येति चोक्तम् । पुनः