भारतकोश
शार्ङ्गधर संहिता (दीपिका टीका व हिन्दी व्याख्या सहित)

शार्ङ्गधर संहिता (दीपिका टीका व हिन्दी व्याख्या सहित)

Sharangadhara Samhita with Dipika Hindi Commentary

शार्ङ्गधराचार्य द्वारा

स्रोत: चौखम्बा सुरभारती प्रकाशन · चौखम्बा सुरभारती प्रकाशन (उद्गम)

DevanagariSanskritpublished356 पृष्ठ

पृष्ठ 327, कुल 356 में से

संदर्भ में पढ़ें
पृष्ठ 327

[अञ्जननिदानम् | 291]


[वाम स्तम्भ]

सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ । सन्दुष्यास्त्ररसावस्त्रं क्रव्यं मेदोऽस्थि मज्ज च ।। २३ ।। तद्भेदा विषमाः स्युस्ते शीतदाहादयो ज्वराः। सन्तत्या सन्ततस्तिष्ठेत् ते सप्तदशरव्यहान् ।। २४ ।। द्वौ कालौ सततोऽन्येद्युरेकं कुर्यादहर्निशम् । मुक्त्वैकाहं तृतीयोऽथ द्वयहं त्यक्त्वा चतुर्थकः ।। २५ ।। घटीः पञ्चाशदन्येद्युः स्वेऽह्यस्तु तृतीयकः। द्वयहं चतुर्थो व्याप्नोति त्रय एते विपर्ययाः ।। २६ ।। हृद्गास्त्रवमिर्दाहो वैगन्ध्यं चाऽस्थिरुक् क्लमः। शुक्लोत्सर्गश्चेति लिङ्गं क्रमाद्धात्तुगते ज्वरे ।। २७ ।। साध्यावाद्यौ कष्टसाध्यास्तत्परोऽन्यो न सिद्ध्यति । मन्दोऽतिगौरवं स्वेदो ज्वरो नित्यं प्रलेपकः ।। २८ ।। चतुर्धाऽऽगन्तुजः शापाभिचारावेशघातजः। पूर्वयोर्भूरिविस्फोटमोहावावेशजे तु रुट् ।। २९ ।। तत्तद् भूतस्य कामोत्थे ह्रीधीस्वप्नहतिर्ज्वरे। दाहातिसारौ श्वेदोत्थे यथास्वं घातजं वदेत् ।। ३० ।। बहुहेतूपद्रवोऽतिक्षीणधात्विन्द्रियो ज्वरः। असाध्यः शीतलः स्वेदी गात्रान्तर्दाहकृच्च यः ।। ३१ ।। लघुर्गुरुर्निरोमश्च सामः प्राकृतवैकृतौ। बहिरन्तर्वेगिनौ च साध्यासाध्यौ क्रमाज्ज्वरौ ।। ३२ ।। लघुरल्पोपद्रवः स्यादनेकोपद्रवो गुरुः। वर्षाशरद्वसन्तेषु प्राकृतोऽन्यस्तु वैकृतः ।। ३३ ।। हल्लासापाकलालारुक्षत्तन्द्रारुच्यङ्गगौरवैः । वैरस्यालस्यातिसूत्रैः सामोऽन्यस्मान्निरामकः ।। ३४ ।। अन्तर्दाहः प्रलापस्तृट् सन्धिरुग् विड्ग्रहो भ्रमः। श्वासास्वेदौ चिह्न मन्तर्वेगिनोऽन्यस्य चान्यथा ।। ३५ ।। विरेको विड्ग्रहो वा तृट् कासः श्वासोऽङ्गरुग्वमिः। हिक्का मूर्च्छाऽरुचिश्चापि ज्वरस्योपद्रवा दश ।। ३६ ।। अस्वप्नारुच्यरतिस्तृट्स्तम्भीर्याङ्कगौरवम् । यन्त्रणान्नाभिहृन्मध्ये रुक् चाङ्गो धातुपाकिनः ।। ३७ ।। भ्रमातिज्वरतृट्श्वासाः पच्यमानज्वराकृतिः। दोषज्वराङ्गलघुता दोषपाकस्य लक्षणम् ।। ३८ ।। दाहः स्वेदो भ्रमस्तृष्णा कम्पो विड्भिदसंज्ञता। कूजनं चातिवैगन्ध्यमाकृतिर्ज्वरमोक्षणे ।। ३९ ।। देहो लघुर्मुखे पाकः स्वेदः करणसौष्ठवम् । कण्डूः क्षवो बुभुक्षा च विगतज्वरलक्षणम् ।। ४० ।। वृद्धः सविङ्गरसः क्षिप्तवह्निर्वातातिसारितः। अतिसारः स षोढा तैः पृथक् सर्वैः शुचोऽमतः ।। ४१ ।।


[दक्षिण स्तम्भ]

फेनरूक्षारुणं वातात् पित्तात् पीतारुणासितम्। कफात् सान्द्रं श्वेताहमं वर्चः सर्वैस्तु सर्वयुक् ।। ४२ ।। शोचतोऽविट् सविङ् वाऽस्रं बाष्पक्षुद्रोष्मणेरितम्। सृजत्यजीर्णात् तच्चित्रं मुहुर्मुहुः सशब्दरुक् ।। ४३ ।। अतीसारी सृजत्यस्रं पित्तलाहारसेवनात् । अजस्रं विड्वातकफात् प्रवेहेच्चेत्प्रवाहिका ।। ४४ ।। वमिः कृच्छ्रं ज्वरः कासः श्वासस्तृण्मोहशोथरुक् । हिक्काऽरुचिश्चेति लिङ्गं मरणायातिसारिणः ।। ४५ ।। गतेऽतिसारेऽप्यामेन दुष्टा चेद् ग्रहणी मुहुः। वर्चो मुञ्चत्याममेवोच्यतेऽसौ ग्रहणीगदः ।। ४६ ।। कुप्यति ग्रहणी नित्यं दिवा भूयो रुजोऽऽमरुक् । साऽन्या सङ्ग्रहणी नाम्ना याऽऽमं सङ्गृह्य मुञ्चति ।। ४७ ।। शोथाग्निमान्द्यवैवर्ण्यज्वरापाकारुचिक्षयाः । तृड्वीर्यरुग्राध्मानोद्गाराः स्युर्ग्रहणीगदे ।। ४८ ।। पृथक् सर्वैश्चतुर्धाऽसौ तल्लिङ्गमतिसारवत्। विडामं पूत्यप्सु मज्जेत् सद्व्रस्निग्धशब्दरुक् ।। ४९ ।। त्वङ्मांसमेदः सन्दूष्य गुदेऽर्शांस्यङ्कुरान्मलाः । कुर्युः षोढा पृथग् दोषाः सर्वैर्द्वे सहजास्त्रजे ।। ५० ।। शोथाग्निमान्द्याविष्टम्भसक्थिपीडाऽल्पविट्कता । पाण्डुताऽस्रक्षयाबल्याध्मानोद्गारा रुजोऽर्शसाम् ।। ५१ ।। प्रागुक्तदोषचिह्नैस्तु दोषानर्शस्सु लक्षयेत् । त्रिदोषचिह्नं सहजमस्रस्रावि तदस्रजम् ।। ५२ ।। बाह्यमध्यान्त्यवलिजान्येकद्वित्रिमलानि च। तानि साध्यानि कष्टानि न साध्यानि वदेत् क्रमात् ।। ५३ ।। अजीर्णं भुक्तिवैषम्याद्रेको वान्तोऽस्य विड्ग्रहः। स्युर्विष्टब्धविदग्धामाख्यान्यजीर्णानि वै क्रमात् ।। ५४ ।। रसशेषश्चतुर्थं तद्विष्टब्धे शूलविड्ग्रहौ। विदग्धेऽम्लः सधूमश्चोद्गारो ह्याम सा भुक्तवान् ।। ५५ ।। रसशेषेऽन्नविद्वेषः पूर्वत्रिभ्यो विसूचिका। वम्यतीसारतृट्शूलभ्रमोद्वेष्टनतोदनी ।। ५६ ।। मूत्राघातास्त्रज्वरकम्पारतिमोहैर्न सिध्यति । वृद्धातिवृद्धक्षीणैस्तैर्भस्मकोऽत्यशनो गदः ।। ५७ ।। ज्वरो विवर्णता शूलो हृद्रोगः श्वसनं भ्रमः। अन्नद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् ।। ५८ ।। अतिव्यवायमद्याम्लदिवास्वप्नमृदादिभिः । पाण्डवः पञ्च तैर्भिन्नैः पञ्चमो मृदः ।। ५९ ।। पाण्डुत्वङ्नेत्रविण्मूत्रनखैः शोथवमिज्वरैः । विण्संज्ञश्वासाग्निमान्द्यैश्च युक्तः स्यात् पाण्डुरोगवान् ।। ६० ।।