भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 184, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 184

१६६ शतपथ ब्राह्मण ऽअरातीय॒त्यत्ते॑व जु॒हू॒मन्वा॒द्य उप॒भृत॒मनु॒ प्राञ्च॑मे॒वैतद॒त्तार॑मु॒द्धृत्य॒पाञ्च॑म॒द्याम॒पो- क्षति ॥ ५॥ तद्वाऽए॒तत् । समा॒नऽए॒व कर्म॑न्व्याक्रि॒यते॒ तस्मा॑त् समा॒नादे॒व पुरु॑- षादत्ता चाद्यश्च जायते॒ऽइ॒दं हि॒ चतुर्थे पुरु॑षे तृती॒ये संगृह्णाम॒हऽइति॒ त्रिदे॒वं दी- व्यमाना ज्ञातय आसतऽए॒तस्मा॑द् तत् ॥ ६॥ अथ जुह्वा॑ परि॒धीन्समन॑क्ति । यथा॒ दे॒वेभ्यो॒ऽहौषी॒द्यथा॑ य॒ज्ञः सम॑तिष्ठि॒पत्ये॒वैतत्परि॒धीन्प्रीणाति॒ तस्माज्जुह्वा॑ परि॒धी- न्समन॑क्ति ॥ ७॥ स समन॑क्ति । वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वेति॒ त्रयो॒ वै त्रया॑ दे॒वा यद्वस॑वो रु॒द्रा आदित्या॒ एतेभ्य॑स्त्वेत्ये॒वैतदाह॑ ॥ ८॥ अथ परि॒धिम॑भिप॒द्याश्रा॑वयति । परि॒धिभ्यो॒ ह्येतदाश्रा॑वयति य॒ज्ञो वाऽआश्रा॑वणं य॒ज्ञेनैवैतत्प्रत्यक्षं परि॒धीन्प्रीणा- ति॒ तस्मात्परि॒धिम॑भिप॒द्याश्रा॑वयति ॥ ९॥ स आश्राव्याह॑ । इ॒षिता दैव्या॑ होता॒र इति॒ दैव्या॒ वाऽए॒ते होता॑रो॒ यत्परि॒धयो॒ऽग्नयो ह्येत दैव्या॑ होता॒र इ॒त्येवैतदाह यदा॒हेषि॑ता दैव्या॑ होता॒र इति भद्रवा॒च्या॑येति स्वयं वाऽए॒तस्मै॑ दे॒वा युक्ता भवं- न्ति॒ यत्सा॒धु व॑दे॒युर्यत्सा॒धु कु॒र्युस्तस्मा॑दाह भद्रवा॒च्या॑येति प्रेषि॒तो मानु॒षः सूक्तवा- कायेति॒ तदि॒मं मानु॒षं होता॑रं सूक्तवाकाय॒ प्रसौ॑ति ॥ १०॥ अथ प्रस्तर॒माद॑त्ते । यज॑मानो॒ वै प्र॑स्तरस्तद्य॒त्रास्य य॒ज्ञोऽगं॑स्तद्वैवैतद्यज॑मानं स्वगाक॑रोति देवलो॒कं वाऽअ॒स्य य॒ज्ञोऽग॑न्दे॒वलो॒कमे॒वैतद्यज॑मानम॒पिन॑यति ॥ ११॥ स यदि॑ वृष्टि॒कामः स्यात् । ए॒तेनै॑वा॒ददी॑त संजानाथां द्यावापृथिवी॒ऽइति॒ यदा॑ वै द्यावापृथिवी॒ संजा- नाथे॒ऽथ वर्षति॒ तस्मा॑दाह॒ संजानाथां द्यावापृथिवी॒ऽइति मित्रावरुणौ वा वृ- ष्ट्यावतामिति तद्यो वर्षस्येष्टे स वा वृष्ट्यावत्वित्येवैतदाहायं वै वर्षस्येष्टे योऽयं पव॑ते सोऽयमे॒क-इ॒वैव पव॑ते॒ सोऽयं पुरु॑षे॒ऽन्तः प्रवि॑ष्टः प्राङ् प्रत्यङ् तावि॒मौ प्रा॒णोदा॒नौ प्रा॒णोदा॒नौ वै मित्रावरु॑णौ तयो॒ एव॒ वर्षस्येष्टे स वा वृष्ट्याव॒त्वित्ये- वैत॒दाह॒ त॒मेतेनै॒वाददीत यदा ह्येव कदा च वृष्टिः समिव तन्मन्यन्तेऽग्निमेवैत- त्करोत्याहु॑तिर्भूत्वा॑ दे॒वलो॒कं गच्छादिति॑ ॥ १२॥ स वाऽअ॒यं जुह्वामम॑क्ति । मध्य-