शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 198, कुल 699 में से
संदर्भ में पढ़ें१८० शतपथ ब्राह्मण ता वाऽआ॒ज्यह॑विषो भवन्ति । रेतो वाऽआ॒ज्य॑ꣳ रेत॑ ए॒वैतत्सि॑ञ्चति॒ तस्मा॑दा॒ज्य- ह॑विषो भवन्ति ॥ ७॥ तेनो॒पाꣳशु चरन्ति । तिर॒ऽइव॒ वै मिथु॒नेन॒ चर्य॑ते तिर॒ऽइ- वैतद्य॒दुपा॒ꣳशु तस्मा॑दुपा॒ꣳशु चरन्ति ॥ ८॥ अथ सोमं॒ यज॑ति । रेतो॒ वै सोमो॒ रेत॑ ए॒वैतत्सि॑ञ्चति॒ तस्मा॒त्सोमं॒ यज॑ति ॥ ९॥ अथ त्वष्टा॑रं॒ यज॑ति । त्वष्टा॒ वै सि॒क्तꣳ रेतो॒ विक॑रोति॒ तस्मा॒त्त्वष्टा॑रं॒ यज॑ति ॥ १०॥ अथ दे॒वानां॒ पत्नी॒र्यज॑ति । पत्नी॑षु॒ वै योनौ॑ रेतः प्रति॑ष्ठितं॒ तत्ततः प्र॒जाय॑ते॒ तत्प॒त्नीष्वे॒वैतद्योनौ॑ रेतः॑ सि॒क्तं प्र॑ति॒ष्ठाप॑य- ति॒ तत्ततः प्र॒जाय॑ते॒ तस्मा॑द्देवा॒नां पत्नी॒र्यज॑ति ॥ ११॥ स यत्र॑ दे॒वानां॒ पत्नी॒र्यज॑ति । तत्पुरस्ता॑त्ति॒रः करोत्यप ह वै तावद्देवता आसते यावन्न समिष्टयजुर्जुह्व॑ती॒दं नु नो जुह्व॒त्विति॒ ताभ्य॑ ए॒वैतत्त्ति॒रः करो॑ति॒ तस्मा॑दि॒मा मानु॑ष्य॒ स्त्रिय॑स्ति॒र॒ऽइवै॒व पुꣳ- सो नि॒धत्सं॑सि॒ याऽइव तु ताऽइवेति॑ ह स्माह॒ याज्ञ॑वल्क्यः ॥ १२॥ अथा॒ग्निं गृ॒ह- प॑तिं॒ यज॑ति । अ॒यं वाऽअ॒ग्निर्गृहप॑ति॒रिम॑मे॒वैतल्लो॒कम॒भिमाः प्र॒जा अ॒भिप्र॑जनयति॒ ता इमं लो॒कम॒भिप्र॑जायन्ते॒ तस्मा॑द॒ग्निं गृ॒हप॑तिं॒ यज॑ति ॥ १३॥ तदिडा॒न्तं भव॑ति । न ह्यत्र॑ परि॒धयो॒ भव॑न्ति॒ न प्र॑स्त॒रो यत्र॒ वाऽअ॒दः प्र॑स्त॒रेण यज॑मानꣳ स्व॒गाक॒रोति॒ पतिं॑ वाऽअनु॑ जा॒या तद्दे॒वास्या॑पि॒ पत्नी॑ स्व॒गाकृ॑ता भवतीत्यसि॒ तत्त॒- द्ध कुर्याद्यत्प्र॑स्तरस्य रू॒पं कु॒र्यात्तस्मा॑दिडा॒न्तमे॒व स्याद॑तो प्रस्तर॒स्येव॑ रू॒पं क्रि॑यते ॥ १४॥ स यदि॒ प्रस्त॑रस्य रू॒पं कु॒र्यात् । यथै॒वा॒दः प्र॑स्त॒रेण॒ यज॑मानꣳ स्व॒गाक॒रो- त्ये॒वमे॒वैतत्पत्नीꣳ स्व॒गाक॒रोति॑ ॥ १५॥ स यदि॒ प्रस्त॑रस्य रू॒पं कु॒र्यात् । वे॒दस्यै॒कं तृण॒माच्छि॒द्यैवं जु॒ह्वामन॑क्ति॒ मध्य॑ꣳ स्रुवे बु॒ध्नꣳ स्थाल्याम् ॥ १६॥ अथादा॑हा॒नुप्र॒- हर॑ति । तूष्णीमे॒वानु॒प्रहृत्य॒ चक्षु॑ष्या॒ अग्ने॒ऽसि॒ चक्षु॑र्मे पाहीत्या॒त्मान॑मुप॒स्पृश॑ते ततो॒ऽव्य॑त्या॒त्मानं॑ मानुष्वृणक्ति ॥ १७॥ अथा॒ह संवदस्वेति॑ । अगानग्नीदंग्नीद्रावय श्रौषट् स्वगा दे॒व्या होतृ॑भ्यः स्व॒स्तिर्मानु॑षेभ्यः शम्योर्ब्रूहीति॑ ॥ १८॥ अथ जु॒हूं च स्रुवं॑ च॒ संप्र॑गृह्णाति । अ॒दो वैवा॒ङ्गतिं॑ करोति॒ यदन॑तया॒ङ्गतिर्भूत्वा॑ दे॒वलो॒कं गहा-