शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 244, कुल 699 में से
संदर्भ में पढ़ें२२६ शतपथ ब्राह्मण
पर्या॑ववर्त ॥ ६॥ स हु॒त्वा प्र॒जाप॑तिः । प्र चा॒जायत॒ाऽऽत्म॒नश्चा॒ग्नेर्मृ॒त्योरा॒त्मान॑मत्रायत स यो है॒वं वि॒द्वान॒ग्निहो॒त्रं जु॒होत्ये॒ताꣳ हे॑व प्र॒जातिं॑ प्र॒जाय॑ते॒ यां प्र॒जाप॑तिः प्रा- जा॑य॒तैवं ह्ये॒वाऽत्मन॑स्तो॒ऽग्नेर्मृ॒त्योरा॒त्मानं॑ त्रायते ॥७॥ स यत्र॒ म्रिय॑ते । यत्रै॑नम॒ग्ना- व॒भ्याद॑धति॒ तदे॒षो॑ऽग्ने॒रधि॒जाय॑ते॒ऽथास्य शरी॑रमे॒वा॒ग्निर्दह॑ति॒ तद्यथा॑ पि॒तुर्वा मा॒तुर्वा जा॒य॑तैवमे॒षो॑ऽग्ने॒रधि॒जाय॑ते॒ शश्व॑द्ध वा॒ऽए॒ष न सम्भ॑वति॒ यो॑ऽग्निहो॒त्रं न जु॒होति॑ । तस्मा॒द्वाऽग्निहो॒त्रꣳ हो॑त॒व्यम् ॥८॥ तद्वाऽए॒तत् । ए॒व वि॑चिकित्सि॒त्ये॒ जन्म॒ य- त्प्र॒जाप॑तिर्व्यचि॑कित्स॒त्स वि॑चिकित्सञ्छ्रेय॒स्य॑ध्रियत॒ यः प्र चा॒जायत॒ाऽऽत्म॒नश्चा॒ग्नेर्मृ- त्योरा॒त्मान॑मत्रायत स यो॒ है॒वमे॒तद्वि॑चिकित्सि॒त्ये॒ जन्म॑ वे॒द ग्रह॒ किं च विचि॑कि- त्सति॒ श्रेय॑सि॒ हैव॑ ध्रियते ॥ ९॥ स हु॒त्वा न्य॑मृष्ट । ततो विकङ्क॒तः सम॑भव॒त्तस्मा- दे॒ष य॒ज्ञियो॑ य॒ज्ञपा॑त्रीयो वृ॒क्षस्तत॒ ए॒ते दे॒वानां॑ वी॒रा अ॑जायन्ता॒ग्निर्वा॒ऽयं पव॑ते सूर्य्यः॑ स यो॒ है॒वैतान्वे॒वानां॑ वी॒रान्वे॒दाहा॑स्य वी॒रो जा॑यते ॥ १०॥ तऽउ॒ हैत॒ ऽऊचुः । व॒यं वै प्र॒जाप॑तिं पि॒तर॒मनु॑ स्मो ह॒न्त व॒यं तत्सृ॑जामहै॒ यद॒स्मानन्वस॒दि- ति ते परि॑श्रित्य गाय॒त्रेणा॒पहिं॑कारिण तुष्टुविरे तद्य॒त्पर्य॑श्रयꣳस्तत्समु॒द्रोऽभ॑वदियमे॒व पृ॑थि॒व्यास्ता॒वः ॥११॥ ते स्तु॒त्वा प्राञ्च॒ उच्च॑क्रमुः । पुन॑रे॒म इति॑ दे॒वा ए॒डाꣳ सम्भू- ताꣳ सा हैना॒नुदी॑क्ष्य हिं॑चकार ते दे॒वा वि॒दां च॑क्रुरेष साम्नो हिंकार इत्युपहिं- कारꣳ हैव पुरा ततः॒ सामा॑स॒ स ए॒ष गवि साम्नो हिंकार॒स्तस्मा॑दे॒षोप॑जी॒वनीयो- पजी॒वनी॑यो ह॒ वै भ॑वति॒ य ए॒वमे॒तं गवि साम्नो हिंकारं वेद॑ ॥ १२॥ ते हो॑चुः । भ॒द्रं वा॒ऽइ॒दमजी॑जनामहि॒ ये गा॒मजी॑जनामहि य॒ज्ञो ह्ये॒वेयं नो॑ कॢप्तिर्गोर्य्यज्ञास्ता- यते॒ऽन्नꣳ ह्ये॒वेयं यदि॒ किं चात्नं॑ गौरे॒व तदिति॑ ॥ १३॥ तद्वाऽए॒तद्दे॒वता॑सां॒ नाम॑ । ए॒तद्य॒ज्ञस्य॒ तस्मा॑देतत्परिह॒रेत्साधु पु॒ण्यमिति॑ ब्रू॒याद्यो ह वाऽअ॒स्यैता॑ भव॒त्युपना- मुक॑ एनं य॒ज्ञो भ॑वति॒ य ए॒वं वि॒द्वानेतत्परि॑हरति साधु पु॒ण्यमिति॑ ॥ १४॥ ता॒मु हा॒ग्निर॑भिद॒ध्यौ । मिथु॒न्यन॑या स्या॒मिति॑ ताꣳ सम्ब॑भूव॒ तस्याꣳ रेतः॒ प्रासि॑ञ्चत्तत्प-