भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 246, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 246

यो॒ऽभव॒त्तस्मादे॒तदामायां॑ ग॒वि स॒त्याꣳ शृतम॒ग्नेर्हि रेत॒स्तस्माद्यदि॑ कृ॒ष्णायां॒ यदि॑ रोहि॒ण्याꣳ शु॒क्लमे॒व भव॑त्य॒ग्निसंकाशम॒ग्नेर्हि रेत॒स्तस्मात्प्रथमदुग्धमुष्णं॑ भवत्य॒ग्नेर्हि रेत॑: ॥ १५॥ ते॒ होचु॑: । ह॒न्तेदं जु॒हुवाम॒हाऽऽइति॒ कस्मै॑ न इ॒दं प्रथ॒माय॑ होष्य- न्तीति॒ मह्य॒मिति॒ हैवा॒ग्निरु॑वाच॒ मह्य॒मिति॒ यो॒ऽयं पव॑ते॒ मह्य॒मिति॒ सूर्य॑स्ते न स- म्पाद॒यां चक्रुस्ते हासम्पा॒द्योचु॑: प्र॒जाप॑तिमे॒व पि॒तरं॑ प्रत्य॒याम॒ स यस्मै॑ न इ॒दं प्र- थ॒माय॑ होत॒व्यं॑ व॒क्ष्यति॒ तस्मै॑ न इ॒दं प्रथ॒माय॑ होष्य॒न्तीति॒ ते प्र॒जाप॑तिं पि॒तरं॑ प्रतीत्योचुः कस्मै न इदं प्रथमाय होष्यन्तीति ॥ १६॥ स॒ होवाच॑ । अ॒ग्नये॒ऽग्निर- नुध्या॒ स्वꣳ रेत॑: प्र॒जन॑यिष्यते॒ तया॑ प्र॒जनि॑ष्यध॒ऽइत्यथ॒ तुभ्य॒मिति॒ सूर्य॒मथ॒ यदे॒व हूय॒मानस्य॒ व्यश्नु॑ते॒ तद्दे॒वैतस्य॒ यो॒ऽयं पव॑त॒ऽइति॒ तदे॒भ्य इ॒दमप्ये॑त॒र्हि तथै॒व जु- ह्वत्य॒ग्नय॒ऽएव सा॒यं सूर्य्याय॑ प्रा॒तरथ॒ यदे॒व हूय॒मानस्य॒ व्यश्नु॑ते॒ तद्दे॒वैतस्य॒ यो॒ऽयं पव॑ते ॥ १७॥ ते हु॒त्वा दे॒वाः । इ॒मां प्र॒जातिं॑ प्रा॒जाय॑न्त॒ येषा॒मियं प्र॒जाति॑रि॒मां वि- जितिं॒ व्य॑जयन्त॒ येय॑मेषां॒ विजि॑तिरि॒ममे॒व लो॒कम॒ग्निर॒जय॑द॒न्तरि॑क्षं वा॒युर्द्दिव॑मेव॒ सूर्य॑: स यो॒ हैवं वि॒द्वान॒ग्निहोत्रं॑ जु॒होत्ये॒ताꣳ है॒व प्र॒जातिं॑ प्र॒जाय॑ते॒ यामे॒तऽए॒तत्प्राजा॑- यन्तै॒तां विजि॑तिं वि॒जय॑ते॒ यामे॒तऽए॒तद्व्यज॑यन्तै॒तैरु॒ है॒व स॒लोको भ॑वति॒ य एवं वि॒द्वान॒ग्निहोत्रं॑ जु॒होति॒ तस्माद्वा॒ऽअ॒ग्निहोत्रं॑ होत॒व्यम् ॥ १८॥ ब्रा॒ह्म॒णम् ॥ २ [२.४.]॥ अध्यायः ॥२ [११.]॥ ॥ सूर्यो॑ ह वा॒ऽअ॒ग्निहोत्रं॑ । तद्यदे॒तस्या॒ अग्र्य॒ऽआहु॑तेरु॒दैत्तस्मात्सूर्यो॑ऽग्निहोत्रं॑ ॥ १॥ स य॒त्सायमस्तमि॑ते जु॒होति॑ । य इ॒दं तस्मि॑न्नि॒ह्नु सति॑ जु॒हुवानीत्यथ॒ य- त्प्रा॒तरनु॑दिते जु॒होति॑ य इ॒दं तस्मि॑न्नि॒ह्नु सति॑ जु॒हुवानीति॒ तस्मा॑द्धि॒ सूर्यो॑ऽग्निहो- त्रमित्याहु॑: ॥ २॥ ॥ शतम् १००० ॥ ॥ अथ॒ यद॒स्तमे॑ति । तद्द्यावेव योनौ गर्भो भू॒त्वा प्र॒विश॑ति॒ तं गर्भं भव॑न्तमि॒माः सर्वा॑: प्र॒जा अनु॑ ग॒र्भा भव॑न्तीलिता हि॒ शेरे॒ संजानाना॒ अथ॒ यद्रात्रिस्ति॒र् ए॒वैतत्क॑रोति ति॒र् इव हि गर्भ॑: ॥ ३॥ स यत्सा-