शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 262, कुल 699 में से
संदर्भ में पढ़ें२४४ शतपथ ब्राह्मण न॑तिमुच्या॒थामुं लो॒कमे॑ति॒ यथा॑ है॒वास्मिं॑ल्लो॒के न संय॑तमाद्रियते॒ यदा॒ यदै॑व का- म॒येते॒ऽथ मार॑यन्त्येव॒मु है॒वामुष्मिं॑ल्लो॒के पु॑नःपुनरे॒व प्र॑मारयति ॥ ८॥ स य॒त्साय- म॒स्तमि॑ते द्वेऽआहु॑ती जु॒होति॑ । त॒देताभ्यां पूर्वाभ्यां पद्भ्या॑मे॒तस्मिन्मृ॒त्यौ प्रति॑ति- ष्ठ॒त्यथ य॒त्प्रात॑रनुदिते द्वेऽआहु॑ती जु॒होति॒ तदेताभ्याम॒पराभ्यां पद्भ्या॑मे॒तस्मिन्मृ॒त्यौ प्रति॑तिष्ठति स॒ एन॒मेष उ॒द्यन्ने॒वादा॒योदे॑ति॒ तदे॒तं मृ॒त्युमति॑मुच्यते॒ तेषा॑ग्निहो॒त्रे मृ॒त्योरति॑मुक्ति॒रिति॑ ह॒ वै पु॑नर्मृ॒त्युं मु॑च्यते॒ य ए॒वमे॒ताम॑ग्निहो॒त्रे मृ॒त्योरति॑मुक्तिं वे॒द ॥ ९॥ यथा वाऽइ॒षोरनी॑कम् । ए॒वं य॒ज्ञानाम॑ग्निहो॒त्रं येन॒ वाऽइ॒षोरनी॑कमे- ति॒ सर्व्वा॒ वै तेने॒षुरेत्ये॒तेनो॑ हास्य॒ सर्वे॑ य॒ज्ञक्रत॑व ए॒तं मृ॒त्युमति॑मुक्ताः ॥ १०॥ अ- होरा॒त्रे ह॒ वाऽअ॒मुष्मिं॑ल्लो॒के परि॑प्लवमाने । पु॒रुष॑स्य सुकृ॒तं क्षि॑णुतो॒ऽर्वाची॑नं वा ऽअ॒तोऽहो॑रा॒त्रे तथो॑ हास्या॒होरा॒त्रे सुकृ॒तं न क्षि॑णुतः ॥ ११॥ स यथा॒ रथो॑प॒स्थे तिष्ठ॑न् । उ॒परिष्टा॑द्रथच॒क्रे प॒ल्यङ्ग॑माने॒ऽउपा॑वे॒क्षेतै॒वं प॒रस्ता॑द॒र्वाची॑नो॒ऽहोरा॒त्रेऽउ- पावे॑क्षते॒ न ह॒ वाऽअ॒स्याहो॑रा॒त्रे सुकृ॒तं क्षि॑णुतो॒ य ए॒वमे॒ताम॑होरा॒त्रयोरति॑मुक्तिं वे॒द ॥ १२॥ पूर्वे॑णा॒हव॑नीयं परी॒त्य । अ॒न्तरे॑ण गा॒र्हप॑त्यं चैति॒ न वै दे॒वा म॑नु॒ष्यं॑ वि॒दुस्त॒ऽएन॑मेतद॒न्तरे॑णाति॒यन्तं॑ वि॒दुरयं वै न इदं जु॑होतीत्य॒ग्निर्वै पा॒प्मनो॑ऽप॒ह- न्ता ताव॒स्याहव॑नीयश्च गा॒र्हप॑त्यश्चा॒न्तरे॑णाति॒यतः पा॒प्मान॒मप॑हतः॒ सोऽप॑हतपा- प्मा ज्योति॑रेव॒ श्रिया य॒शसा॑ भवति ॥ १३॥ उत्त॑रतो वाऽअ॒ग्निहो॒त्रस्य॒ द्वार॑म् । स॒ यथा॒ द्वारा॒ प्रप॑द्येतै॒वं तद्यो दक्षि॑णात ए॒त्यास्ते॒ यथा॑ बहि॒र्धा च॑रेदे॒वं तत् ॥ १४॥ नौर्ह वाऽए॒षा स्व॒र्ग्या । यद॑ग्निहो॒त्रं त॒स्याऽए॒तस्यै ना॒वः स्व॒र्ग्याया आहु॑- वनी॒यश्चै॑व गा॒र्हप॑त्यश्च नौम॒ण्डेऽअ॒थैष ए॒व ना॑वा॒जो यत्क्षी॑र॒होता ॥ १५॥ स य- त्प्राङ्पोद॑िति । तदे॑नां प्राची॑म॒भ्यज॑ति स्व॒र्गं लो॒कम॒भि तया॑ स्व॒र्गं लो॒कं सम॑- श्नुते॒ तस्या॒ उत्त॑र॒त् आरो॑हण॒ꣳ सेन॑ꣳ स्व॒र्गं लो॒कं स॒माप॑यत्यथ॒ यो दक्षि॑णात ए॒त्यास्ते॒ यथा॑ प्रती॒र्णाया॒माग॒हेत्स वि॒हीये॑त स त॒त ए॒व बहि॒र्धा स्यादे॒वं तत् ॥ १६॥