शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 264, कुल 699 में से
संदर्भ में पढ़ें२४६ शतपथ ब्राह्मण अथ॒ यामेता॒ꣳ समि॑धम॒भ्याद॑धाति॒ सैष्ट॑का येन॒ मन्त्रे॑ण जु॒होति॒ तद्यु॒र्येनैतामिष्ट॑- कामुप॒दधा॑ति यदा वाऽइ॒ष्टकोपधीय॑तेऽथाऽहुति॒र्हूय॑ते॒ तद॒स्योप॑हितास्वे॒वेष्ट॑कास्वे॒- ता आहु॑तयो हूयन्ते या ए॒ता अ॑ग्निहोत्राहुतयः ॥ १७ ॥ प्र॒जाप॑तिर्वाऽअ॒ग्निः । सं- व॒त्स॒रो वै प्र॒जाप॑तिः संवत्स॒रे-संवत्सरे ह वाऽअ॒स्या॒ग्नि॒होत्रं॑ चि॒त्येना॒ग्निना॒ सं- तिष्ठते सवत्स॒रे-संवत्सरे चित्यम॒ग्निमाप्नो॑ति॒ य ए॒वं वि॒द्वान॒ग्निहोत्रं॑ जु॒होत्येत॒द्ध हा॒स्या॒ग्निहोत्रं॑ चि॒त्येना॒ग्निना॒ संति॑ष्ठते चि॒त्यम॒ग्निमाप्नो॑ति ॥ १८ ॥ सप्त॒ च वै श॒- तान्य॒शीतीनामृचः॑ । वि॒ꣳश॒तिश्च॒ स य॒त्सायं॑ प्रा॒तर॒ग्निहोत्रं॑ जु॒होति॒ ते द्वेऽआहु॑ती ता अ॒स्य सं॑वत्स॒रऽआहु॑तयः संपद्यन्ते ॥ १९ ॥ सप्त॒ चैव श॒तानि॑ वि॒ꣳश॒तिश्च॑ । संवत्स॒रे-संवत्सरे ह वा॒ऽअ॒स्या॒ग्निहोत्रं॑ म॒रुतो॒क्थ्येन॒ संप॑द्यते संवत्स॒रे-संवत्सरे म॒रुदु॒क्थ्यमाप्नो॑ति॒ य ए॒वं वि॒द्वान॒ग्निहोत्रं॑ जु॒होत्येत॒द्ध हा॒स्या॒ग्निहोत्रं॑ म॒रुतो॒क्थ्येन॒ संप॑द्यते म॒रुदु॒क्थ्यमाप्नो॑ति ॥ २० ॥ ब्राह्मणम् ॥ १ [३. ३.] ॥ ॥ अ॒ग्नौ ह॒ वै देवाः॑ । सर्वा॒न्पशू॒न्निद॑धिरे॒ ये च॒ ग्राम्या ये चार॑ण्या वि॒जये॑ वोप॒- प्रेष्यन्तः॑ कामचा॒रस्य॑ वा कामा॒याय॑ नो गोपि॒ष्ठो गोपाय॒दिति॑ वा ॥ १ ॥ तानु॒ हा- ग्निर्निच॑कमे । तैः सं॒गृह्य॒ रात्रिं॑ प्र॒विवेश॒ पुन॒रेम॒ इति॑ दे॒वा इद॑ग्निं तिरोभू॒तं ते ह विदां॑ चक्रुरि॒ह वै प्रावि॑क्षद्रा॒त्रिं वै प्रावि॑क्ष॒दिति॒ तमे॑तत्प्र॒त्याय॒त्याꣳ रा॒त्रौ सा॒- यमुपा॑तिष्ठन्त दे॒हि नः॑ पशून्पुन॒र्नः पशून्दे॒हीति॒ तेभ्यो॒ऽग्निः॑ पशून्पुनर॑ददात् ॥ २ ॥ तस्मै॒ कम॒ग्नीऽउ॑पतिष्ठेत । अ॒ग्नी वै दा॒तारौ॑ तावे॒वैतद्या॑चते सा॒यमुपा॑तिष्ठेत सा॒यꣳ हि दे॒वा उपा॑तिष्ठन्त दत्तो हैवास्मा॒ऽए॒तौ पशू॒न्य ए॒वं वि॒द्वानु॒पति॑ष्ठते ॥ ३ ॥ अ- थ यस्मान्नोप॑तिष्ठेत । उ॒भये॑ ह॒ वाऽइ॒दमग्रे॑ स॒हाऽऽसु॑र्देवा॒श्च मनु॒ष्याश्च॒ तद्य॒द्ध स्म म- नु॒ष्याणां॒ न भव॑ति॒ तद्ध स्म॑ दे॒वान्याच॑न्त॒ऽइदं वै नो॒ नास्ती॒दं नो॒ऽस्त्विति॑ ते त॒- स्याऽए॒व या॒ञ्चायै॑ द्वे॒षेण॑ दे॒वास्ति॑रोभू॒ता नेद्दिन॑सानि॒ नेद्वेष्यो॒ऽसा॒नीति॒ तस्मा- न्नोप॑तिष्ठेत ॥ ४ ॥ अथ यस्मादु॑पे॒व ति॑ष्ठेत् । य॒ज्ञो वै दे॒वानामाशी॑र्यजमानस्य त-