शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 294, कुल 699 में से
संदर्भ में पढ़ें२७६ शतपथ ब्राह्मण व्॒याग्ꣳसि॑ पु॒रुषो॒ वै प्र॒जाप॑ते॒र्नेदि॑ष्ठं द्वि॒पाद्वाऽअ॒यं पु॑रु॒षस्तस्मा॑द्द्वि॒पादो॒ व्॒याग्ꣳसि॑ ॥ १॥ स॒ ऐक्ष॑त प्र॒जाप॑तिः । य॒था॒ न्वे॑व॒ पुरोको॒ऽभूव॑मे॒वम् न्वे॒वाय॑त्ये॒कैक॑ ए॒वास्मी॒- ति॒ स द्वि॒तीयाः॑ ससृजे ता अ॑स्य॒ परे॑व बभूवु॒स्तदि॒दं क्षु॒द्रꣳ स॑रीसृ॒पं यद॒न्यत्स॑र्पे- भ्यस्तृ॒तीयाः॑ ससृज॒ऽइत्या॑हु॒स्ता अ॑स्य॒ परे॑व बभूवु॒स्तऽइ॒मे सर्पा॒ इता॒ ह॒ न्वे॑व॒ द्वयोर्या॑ज्ञवल्क्य उवाच त्रयी॑रु तु॒ पुन॒र्मृचा॑ ॥ २॥ सो॒ऽर्चञ्छ्राम्यन्प्र॒जाप॑तिरी॒क्षां च॑- क्रे । क॒थं नु मे प्र॒जाः सृ॒ष्टाः प॒राभव॑न्तीति॒ स है॒तदे॒व द॑र्शानशनत॒या वै मे प्र॒- जाः प॒राभव॑न्तीति॒ स आ॒त्मन॑ ए॒वाग्रे॒ स्तन॑योः पय॒ आप्या॑ययां चक्रे॒ स प्र॒जा अ॑- सृजत॒ ता अ॑स्य प्र॒जाः सृ॒ष्टा स्तना॑वे॒वाभि॑पद्य॒ तास्ततः॒ सम्ब॑भूवु॒स्ता इ॒मा अप॑रा- भूताः॑ ॥ ३॥ तस्मा॑देतदृषि॑णा॒भ्यनू॑क्तम् । प्र॒जा ह॒ तिस्रो॒ऽअत्या॑य॒मीयु॒रिति॒ तयाः॑ प॒- राभू॑ता॒स्ता ए॒वैतद॒भ्यनू॑क्तं॒ न्यन्या अ॒र्कम॑भि॒तो वि॑विश्रु॒रित्य॒ग्निर्वाऽअ॒र्कस्तद्य॒ा इ॒- माः प्र॒जा अप॑राभूता॒स्ता अ॒ग्निम॑भि॒तो निवि॑ष्टा॒स्ता ए॒वैतद॒भ्यनू॑क्तम् ॥ ४॥ म॒हद्द्ध॒ तस्थौ॒ भुव॑नेष्व॒न्तरिति॑ । प्र॒जाप॑तिमे॒वैतद॒भ्यनू॑क्तं पव॑मानो॒ हरित॒ आवि॑वेशेति दि॒- शो वै हरि॑त॒स्ता अ॒यं वायुः॑ पव॑मान॒ आवि॑ष्ट॒स्ता ए॒वैषो॑ऽर्ग॒भ्यनू॑क्ता॒ ता इ॒माः प्र॒- जास्तथै॑व प्र॒जाय॑न्ते॒ यथै॑व प्र॒जाप॑तिः प्र॒जा अ॒सृज॑तै॒तद्ध॑ ह्य॒ य॒दैव स्त्रियै॒ स्तना॒वा- प्यायेते॒ऽऽधः प॒शूना॒मथै॑व यज्जाय॑ते॒ तज्जाय॑ते॒ तास्तत॑ स्तना॑वे॒वाभि॒पद्य॒ सम्भ॑व- न्ति ॥ ५॥ तद्वै पय॑ ए॒वान्न॑म् । ए॒तद्ध्य॑ग्रे प्र॒जाप॑तिर॒न्नमज॑नयत॒ तद्धाऽअन्न॑मेव॒ प्र॒जा अ॒न्नाद्धि सम्भ॑वती॒तद्ध॑ हि॒ यासां॒ पयो॒ भव॑ति स्तना॑वे॒वाभि॑पद्य॒ तास्ततः सम्भ॑व- न्त्यथ॒ यासां॒ पयो॒ न भव॑ति जा॒तमे॑व॒ ता अथा॑दयन्ति॒ तद्वा ता अ॒न्नादे॑व॒ सम्भ॑वन्ति तस्मा॒दन्न॑मेव॒ प्र॒जाः ॥ ६॥ स यः प्र॒जाका॑मः । ए॒तेन॑ ह॒विषा॒ यज॑त॒ऽआत्मान॑मे॒वै- तद्य॒ज्ञं वि॑धत्ते प्र॒जाप॑तिं भू॒त्व ॥ ७॥ ॥ शतम् १२०० ॥ ॥ स वाऽऽग्ने॒योऽष्टाक॑- पालः पुरोडा॑शो भव॑ति । अ॒ग्निर्वै दे॒वतानां॑ मु॒खं प्र॒जनयि॑ता स॒ प्र॒जाप॑ति॒स्तस्मा॑- दाग्ने॒यो भव॑ति ॥ ८॥ अथ सौम्यश्चरुर्भव॑ति । रेतो॒ वै सोम॑स्तद॒ग्नौ प्र॒जनयि॑तरि