भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 296, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 296

२७८ शतपथ ब्राह्मण सोम॑ꣲ रे॒तः सिञ्चति॒ तत्पु॒रस्तान्मिथु॒नं प्र॒जन॑नम् ॥ ९॥ अथ सावि॒त्रः। द्वाद॑शक- पालो वा॒ष्टाक॑पालो वा पुरो॒डाशो॑ भवति सविता वै दे॒वानां॑ प्रसवि॒ता प्र॒जाप॑- तिर्मध्य॒तः प्र॒जनयिता॒ तस्मा॑त्सावि॒त्रो भ॑वति ॥ १०॥ अथ सारस्व॒तश्च॒रुर्भवति । पौष्णश्च॒रुर्योषा॒ वै सर॑स्वती॒ वृषा॑ पू॒षा तत्पुन॑र्मिथु॒नं प्र॒जनन॑मे॒तस्माद्द्वाऽउ॒भयतो मिथु॒नात्प्र॒जन॑नात्प्र॒जाप॑तिः प्र॒जाः स॒सृज॒ऽइत॒श्चोर्ध्वा इत॑श्चावाची॒स्तथो॒ऽए॒वैष ए॒त- स्मादु॒भयत॑ ए॒व मिथु॒नात्प्र॒जन॑नात्प्र॒जाः सृ॑जत॒ऽइत॒श्चोर्ध्वा इत॑श्चावाची॒स्तस्मा॑द्वाऽए॒- तानि॒ पञ्च॑ ह॒वीꣳषि॒ भव॑न्ति ॥ ११॥ अथातः पयस्याया ए॒वायत॑नं । मारु॒तस्तु स॒- प्तक॑पालो॒ विशो॒ वै म॒रुतो॑ दे॒ववि॒शस्ता हेद॒मनि॑षेद्धा-इव चेरुर॒न्तः प्र॒जाप॑तिं य- जमानमुपेत्योचुर्वि॒ वै ते मथिष्यामहू॒ऽइमाः प्र॒जा या ए॒तेन॑ ह॒विषा॒ सद्य॒त्सꣳ॑ऽस्कृति ॥ १२॥ स ऐक्षत प्र॒जाप॑तिः । पु॒रा मे पूर्वाः प्र॒जा अभू॑वन्नि॒मा उ॒ चेदि॒मे विम॑थुते न॑ ततः॒ किं चन परि॑शेक्ष्यत॒ऽइति॑ तेभ्य ए॒तं भाग॒मक॑ल्पयदे॒तं मारु॒तं स॒प्तक॑पा- लं पु॒रोडाशं॒ स ए॒ष मारु॒तः स॒प्तक॑पालस्तद्यत्स॒प्तक॑पालो भ॑वति स॒प्त-स॒प्त हि मारु॒तो ग॒णस्तस्मा॑न्मारु॒तः स॒प्तक॑पालः पुरो॒डाशो॑ भवति ॥ १३॥ तं वै स्वत॑वो- भ्य॒ इति॑ कुर्यात् । स्व॒यꣳ हि त॒ऽए॒तं भाग॒मकु॑र्वत॒ोतो स्वत॑वोभ्यो याज्यानुवाक्ये॒ न वि॒न्दन्ति॒ स उ॒ खलु मारुत॑ ए॒व स्यात्स वा॒ऽए॒ष प्र॒जाभ्य ए॒वाहि॑ꣳसायै क्रियते तस्मान्मारु॒तः ॥ १४॥ अथातः पय॒स्यैव । पयसो॒ वै प्र॒जाः सम्भ॑वन्ति॒ पय॑सः सम्भू- तास्तद्य॒त ए॒व सम्भू॒ता यतः सम्भ॑वन्ति॒ तदे॒वाभ्य ए॒तत्करोति तया॑ः पू॒र्वैर्ह॒विर्भिः प्र॒जाः सृ॒जते॒ ता ए॒तस्मात्पयस ए॒तस्यै॑ पय॒स्यायै॒ सम्भ॑वन्ति ॥ १५॥ तस्यां॑ मिथु॒नम॑- स्ति । योषा॒ पय॒स्या रेतो वा॒जिनं॒ तस्मान्मिथु॒नाद्वि॒श्वमसं॑मितमनु॒ प्राजा॑यत तद्य॒- देत॒स्मान्मिथु॒नाद्वि॒श्वमसं॑मितमनु॒ प्राजा॑यत॒ तस्मा॑द्वैश्वदे॒वी भ॑वति ॥ १६॥ अथ द्या- वापृथि॒व्य ए॑ककपालः पुरो॒डाशो॑ भव॑ति । ए॒तैर्वै ह॒विर्भिः प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा ता द्यावा॑पृथिवी॒भ्यां पर्य॑गृह्णात्ता इमा द्यावा॑पृथिवी॒भ्यां परि॑गृहीतास्तथो॒ऽए॒वैष