शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 318, कुल 699 में से
संदर्भ में पढ़ें३०० शतपथ ब्राह्मण स्माद्वाऽए॒ष ए॒तेन॒ यज॑ते ॥ १॥ तस्या॒वृत् । उ॒पकि॑रन्त्युत्तरवे॒दिं गृ॒ह्लन्ति॑ पृषदा॒ज्यं म॒न्थ्य॑त्य॒ग्निं नव॑प्रया॒जं भव॑ति॒ नवा॑नुया॒जं त्रीणि॑ समिष्टयजूं॒षि भव॑न्त्ये॒तान्ये॒व पञ्च॑ ह॒वीꣳषि॒ भव॑न्ति ॥२॥ स य॒दाग्ने॒योऽष्टाक॑पालः पु॒रोडाशो॑ भव॑ति । अ॒ग्निना ह॒ वाऽए॒नं ते॒जसा॑प्र॒न्त्स तेजो॑ऽग्नि॒र्नाव्य॑थत॒ तस्मा॑दाग्ने॒यो भव॑ति ॥३॥ अथ॒ यत्सौ- म्यश्च॒रुर्भव॑ति । सोमे॑न ह॒ वाऽए॒नꣳ राजा॑प्र॒न्त्सोम॒ꣳ राजा॑न मे॒व तस्मा॑त्सौ॒म्यश्च॒रुर्भ- व॑ति ॥४॥ अथ॒ यत्सा॑वि॒त्रः । द्वाद॑शकपालो वा॒ष्टाक॑पालो वा पु॒रोडाशो॑ भव॑ति सवि॒ता वै दे॒वानां॑ प्रसवि॒ता स॑वितृप्रसूता ह्यैवेन॒मघ्नं॒स्तस्मा॑त्सावि॒त्रो भव॑ति ॥५॥ अथ॒ यत्सा॑रस्व॒तश्च॒रुर्भव॑ति । वाग्वै सर॑स्वती॒ वागु॒ ह्यैवा॑नुममाद॒ प्रहर॑ ज॒हीति॑ तस्मा॑त्सारस्व॒तश्च॒रुर्भव॑ति ॥६॥ अथ॒ यत्पौ॒ष्णश्च॒रुर्भव॑ति । इ॒यं वै पृ॑थि॒वी पू॒षेयꣳ ह्यैवेनं॒ बधा॑य प्रति॒प्रद॑दावनया॒ ह्यैवेनं॒ प्रति॑प्रत्तं जघ्नु॒स्तस्मा॑त्पौ॒ष्णश्च॒रुर्भव॑ति ॥७॥ अथैन्द्रा॒ग्नो द्वाद॑शकपालः पु॒रोडाशो॑ भव॑ति । ए॒तेन॒ ह्यैवेन॑मघ्नंस्ते॒जो वाऽअ॒ग्निरी- न्द्रि॒यं वी॒र्य॑मिन्द्र॒ ए॒ताभ्या॑मेनम॒भाभ्यां॑ वी॒र्या॑भ्यामघ्न॒न्ब्रह्म॒ वाऽअ॒ग्निः क्ष॒त्रमिन्द्र॒स्ते ऽउ॒भे सꣳर॑भ्य॒ ब्रह्म॑ च क्ष॒त्रं च॒ सयु॑जौ कृ॒त्वा ताभ्या॑मेनम॒भाभ्यां॑ वी॒र्या॑भ्यामघ्नं॒स्त- स्मा॑दैन्द्रा॒ग्नो द्वाद॑शकपालः पु॒रोडाशो॑ भव॑ति ॥८॥ अथ माहे॒न्द्रश्च॒रुर्भव॑ति । इ॒न्द्रो वाऽए॒ष पु॒रा वृ॒त्रस्य॑ ब॒धाद॑थ वृ॒त्रं ह॒त्वा यथा॑ महारा॒जो वि॑जिग्या॒न ए॒वं म॒हे- न्द्रो॑ऽभव॒त्तस्मान्मा॑हे॒न्द्रश्च॒रुर्भव॑ति महा॒त्म्यं॒ ह्यैवेन॑मे॒तत्खलु करो॑ति वृ॒त्रस्य॑ ब॒धाय॑ तस्मा॑द्वैव माहे॒न्द्रश्च॒रुर्भव॑ति ॥९॥ अथ वैश्वकर्मण ए॒कक॑पालः पु॒रोडा॒शो भ॑व- ति । वि॒श्वं वाऽए॒तत्कर्म॑ कृ॒तꣳ सर्वं॑ जि॒तं दे॒वाना॑मासीत्साकमे॒धैरी॑जाना॒नां वि॑- जिग्याना॒नां वि॒श्वमे॒वैतद्य॑त्कर्म॑ कृ॒तꣳ सर्वं॑ जि॒तं भव॑ति साकमे॒धैरी॑जा॒नस्य॑ वि॑- जिग्या॒नस्य॒ तस्मा॑द्वैश्वकर्मण ए॒कक॑पालः पु॒रोडाशो॑ भव॑ति ॥१०॥ ए॒तेन॒ वै दे॒- वाः । य॒ज्ञेने॒ष्ट्वा येयं दे॒वानां॑ प्र॒जाति॒र्या श्रीरे॑तदुभ॒यमैताꣳ ह वै प्र॒जातिं॑ प्र॒जा-