शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 326, कुल 699 में से
संदर्भ में पढ़ेंस्तृणी॒तऽआ॒ज्यम् । अथा॑स्य पु॒रोडा॑शस्या॒वद्य॑ति स तेनै॑व स॒ह धा॒नानां॒ तेन॑ स॒क्तु मन्थ॑स्य॒ तत्स॒कृद॒वद्य॑त्यथो॑प॒रिष्टा॑द्द्वि॒राऽज्य॑स्या॒भिघा॑रयति प्रत्यनक्त्यव॒दाना॑नि ना- ति॑क्रामतीत् ए॒वोपोत्थाया॑श्रा॒व्याह पितॄ॑न्त्सोम॒वतो यजेति वषट्कृते जुहोति ॥ २७॥ अथा॑ह पितृभ्यो॑ ब॒र्हिष॒द्भ्योऽनु॑ब्रूहीति । स उपस्तृ॒णीतऽआ॒ज्यमथासां धा॒नाना॑म- वद्य॑ति स तेनै॑व स॒ह मन्थ॑स्य॒ तेन॑ स॒ह पु॒रोडा॑शस्य॒ तत्स॒कृद॒वद्य॑त्यथो॑प॒रिष्टा॑- द्वि॒राऽज्य॑स्या॒भिघा॑रयति प्रत्यनक्त्यव॒दाना॑नि नाति॑क्रामतीत् ए॒वोपोत्थाया॑श्रा॒व्याह पितॄन्ब॒र्हिष॒दो यजेति वषट्कृते जुहोति ॥ २८॥ अथा॑ह पितृभ्यो॑ऽग्निष्वा॒त्तेभ्योऽनु॑- ब्रू॒हीति॑ । स उपस्तृ॒णीतऽआ॒ज्यमथा॑स्य मन्थ॒स्यावद्य॑ति स तेनै॑व स॒ह पु॒रोडा॑श- स्य॒ तेन॑ स॒ह धा॒नानां॒ तत्स॒कृद॒वद्य॑त्यथो॑प॒रिष्टा॑द्द्वि॒राऽज्य॑स्या॒भिघा॑रयति प्रत्यनक्त्य- व॒दाना॑नि नाति॑क्रामतीत् ए॒वोपोत्थाया॑श्रा॒व्याह पितॄन॒ग्निष्वा॒त्तान्त्यजेति वषट्कृते जु॒होति॑ ॥ २९॥ अथा॑हा॒ग्नये॑ कव्यवा॒हनायानु॑ब्रू॒हीति॑ । त॒त्स्विष्टकृते ह॒व्यवा॑हनो वै दे॒वानां॑ कव्यवा॒हनः॑ पितॄणां तस्मादाहा॒ग्नये॑ कव्यवा॒हनायानु॑ब्रू॒हीति॑ ॥ ३०॥ स उपस्तृणीतऽआ॒ज्यम् । अथा॑स्य पु॒रोडा॑शस्या॒वद्य॑ति स तेनै॑व स॒ह धा॒नानां॒ ते- न स॒ह मन्थ॑स्य॒ तत्स॒कृद॒वद्य॑त्यथो॑प॒रिष्टा॑द्द्वि॒राऽज्य॑स्या॒भिघा॑रयति न प्रत्यनक्त्यव दाना॑नि नाति॑क्रामतीत् ए॒वोपोत्थाया॑श्रा॒व्याहा॒ग्निं क॒व्यवा॑हनं यजेति वषट्कृते जु॒होति॑ ॥ ३१॥ स यन्नाति॑क्रामति । इत ए॒वोपोत्थाय॑ जु॒होति स॒कृदु॑ ह्येव परा॑- ञ्चः पितरो॑ऽथ य॒त्सकृ॑त्सकृ॒त्सर्वै॑षाꣳ ह॒विषाꣳ॑ समव॒द्यति सकृदु॑ ह्येव परा॑ञ्चः पि- तरो॑ऽथ यद्व्यतिष॒ङ्गम॑वदाना॒न्यव॒द्यत्यृ॒तवो॒ वै पितर॑ ऋ॒तूने॒वैतद्व्य॑तिषजत्यृ॒तूसं॑- धाति॒ तस्मा॑द्व्यतिष॒ङ्गम॑वदा॒नान्यव॑द्यति ॥ ३२॥ तद्वैके । ए॒तमेव होत्रे॒ मन्थम॑प्र- दधति तꣳ हो॒तोप॑हूया॒वि॑व जिघ्रति तं ब्र॒ह्मणे॒ प्रय॑च्छति तं ब्र॒ह्मावि॑व जिघ्रति तम- ग्रीधे॒ प्रय॑च्छति तमग्नी॒द्वै॑व जिघ्रत्ये॒तद्वै॒तत्कुर्वन्ति॒ यथा॒ त्वे॒वानर॑स्य य॒ज्ञस्येडाप्रा- शित्रꣳ॑ समव॒द्यत्ये॒वमे॒वैतस्या॑पि समवद्येयु॒स्तामुपहूया॒वि॑व जिघ्रन्ति न प्रा॒श्नन्ति प्र