शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 328, कुल 699 में से
संदर्भ में पढ़ें३१० शतपथ ब्राह्मण
शितव्य॑ म्नेव वयं॑ मन्यामह॒ऽइति॑ ह स्माह॒ासुरि॒र्यस्य॒ कस्य॒ चाग्नौ जुह्वतीति॑ ॥३३॥ अ॒थ यत॑रो दास्यन्भव॑ति । यद्य॒ध्वर्युर्वा यज॑मानो वा स उद॒पात्र॑मा॒दाया॑पसल॒वि त्रिः परिषिञ्च॒न्पर्य्येति॒ स यज॑मानस्य पि॒तर॑मवनेजयत्यसावव॑नेनिङ्क्ष्वेत्यसावव॑ने- निङ्क्ष्वेति॑ पिताम॒हम॑सावव॑नेनिङ्क्ष्वेति॑ प्रपिताम॒हं तयथाशिष्यतेऽभिषिञ्चेदेवं तत् ॥३४॥ अथास्य पुरोडाशस्यावदाय॑ । सव्ये॑ पाणी॑ कुरुते धानानामवदाय॑ सव्ये॑ पा- णौ॑ कुरुते मन्थस्यावदाय॑ सव्ये॑ पाणी॑ कुरुते ॥३५॥ स॒ येमामवान्तरदिशमनु॒ स्र- क्तिः॑ । तस्यां॒ यज॑मानस्य पि॒त्रे द॑दात्यसावेतत्त॒ऽइत्य॒थ येमामवान्तरदिशमनु॒ सक्ति- स्तस्यां॒ यज॑मानस्य पिताम॒हाय॑ ददात्यसावेतत्त॒ऽइत्य॒थ येमामवान्तरदिशमनु॒ स्र- क्तिस्तस्यां॒ यज॑मानस्य प्रपिताम॒हाय॑ ददात्यसावेतत्त॒ऽइत्य॒थ येमामवान्तरदिशमनु सक्तिस्तस्यां॒ निमृ॒ष्टेऽत्र॑ पितरो मादयध्वं यथाभागमावृ॑षायध्मिति यथाभागमश्नीते- त्येवैतदाह तद्य॒देवं पितृभ्यो॒ ददा॑ति तेनो स्वान्पितॄनेतस्माद्यज्ञात्नान्तरॆति ॥३६॥ ते सर्व्व॒ऽएव य॒ज्ञोपवीतिनो भूत्वा॑ । उद॒ञ्च उपनिष्क्रम्याहवनीयमुपतिष्ठन्ते देवा- न्वा॒ऽएष उपावर्त्तते य आहिताग्निर्भव॑ति यो दर्शपूर्णमासाभ्यां यज॑ते॒ऽथैतत्पितृ- यज्ञेनेवाचारिषुस्तद् दे॒वेभ्यो निह्न॑वते ॥३७॥ ऐन्द्रीभ्यामाहवनीयमुपतिष्ठन्ते । इ- न्द्रो॒ ह्याह॑वनीयो॒ऽक्षन्नमीमदन्त॒ ह्यव॑ प्रि॒या अ॑धुषत । अस्तो॑षत स्वभानवो॒ वि- प्रा नवि॑ष्ठया मती योजा॒ न्विन्द्र॑ ते॒ हरी॑ ॥ सु॒संदृशं॑ त्वा वयं म॑घवन्वन्दिषीमहि । प्र नूनं पूर्णबन्धुर स्तुतो या॑सि॒ वशाँ२ऽअनु योजा॒ न्विन्द्र॑ ते॒ हरी॒ऽइति॑ ॥३८॥ अथ प्रतिपरेत्य गार्हपत्यमुपतिष्ठन्ते । मनो॒ न्वाहुामहे नाराशं॒सेन॒ स्तोमे॑न । पि- तॄणां च॒ मन्म॑भिः ॥ आ न॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षाय जी॒वसे॑ । ज्योक्च॒ सूर्य्यं॑ दृशे ॥ पुनर्नः॑ पितरो॒ मनो॒ ददा॑तु दैव्यो॒ जनः॑ । जीवं॒ व्रातं॑ सचेमहीति पितृयज्ञेनेव वा॒ऽएतदचारिषुस्तद् खलु पुनर्जीवानपि॒पद्य॑न्ते तस्मादाह जीवं॒ व्रातं॑ सचेमही- ति ॥३९॥ अथ यतरो ददा॑ति । स पुनः प्राचीनावीती॒ भूत्वाभिप्रपद्य॑ जपत्यमीम-