भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 330, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 330

३१२ शतपथ ब्राह्मण दत्त॒ पितरो यथाभागमावृ॑षायिषतेति यथाभागमाशिषुरित्ये॒वैतदाह ॥ ४०॥ अथो॑- दपात्र॒मादा॑य । पुनः प्रस॒व्यं त्रिः परि॑षिञ्चन्पर्य्येति स यज॑मानस्य पितॄ॒नन्वनेन- क्त्यसा॑ववनेनिक्तेत्यसा॑ववनेनिक्तेति पितामह॒मसा॑ववनेनिक्तेति प्रपितामहं त द्यथा॑ ऽनुषे॒कम॑भिषिञ्चे॒देवं तत्तद्यत्पुनः प्रस॒व्यं त्रिः परि॑षिञ्चन्पर्य्येति प्रस॒व्यं न इदं कर्मानु॑संतितिष्ठासा॒दिति॒ तस्मात्पुनः प्रस॒व्यं त्रिः परि॑षिञ्चन्पर्य्येति ॥ ४१॥ अथ नी॒विमु॒द्वृह्य॒ नम॑स्करोति । पितृदेवत्या वै नीवि॒स्तस्मान्नी॒विमु॒द्वृह्य॒ नम॑स्करोति यज्ञो वै नमो यज्ञिया॑ने॒वैना॑नेतत्क॑रोति षट् कृत्वो नम॑स्करोति षड्वाऽऋ॒तव॑ ऋ॒त- वः पितर॒स्तदृतुष्वे॒वैतं॒यज्ञं॒ प्रतिष्ठा॑पयति तस्मात्षट् कृत्वो नम॑स्करोति गृ॒हान्नः॑ पि- तरो दत्तॆति॑ गृ॒हाणां॑ ह पितर॒ ईशत॒ऽएषो॒ऽएतस्याशीः॒ कर्म॑णः ॥ ४२॥ ते सर्व्व ऽएव यज्ञोपवीतिनो भूत्वा । अनुयाजाभ्यां प्रचरिष्यन्त इत्याद्यजमानश्च ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीदुपविशति होता होतृषदने ॥ ४३॥ अथाहा ब्रह्मन्प्रस्था- स्यामि । समिधमाधायाग्निमग्नीत्संमृड्ढ्रीति स्रुचावादाय प्रत्यङ्गतिक्रामत्यतिक्रम्याश्रा- व्याह देवान्यजेति सोऽपबर्हिषौ द्वावनुयाजौ यजति प्रजा वै बर्हिर्नेत्प्रजाः पि- तृषु दधानीति तस्मादपबर्हिषौ द्वावनुयाजौ यजति ॥ ४४॥ अथ सादयित्वा स्रुचौ॒ व्यूहति । स्रुचौ व्यूह्य परिधीन्त्सममृज्य परिधिमभिपद्याश्राव्याहाहेषिता दैव्या होता- रो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति सूक्तवाकꣳ होता प्रतिपद्यते ना- ध्व॒र्य्युः प्रस्तरꣳ समुद्यम्यतीत्येवोपास्ते यदा होता सूक्तवाकमाह ॥ ४५॥ अथाग्नी- दाहाग्नी॒ननुप्रहरेति । स न किं चनानुप्रहरति तूष्णीमेवात्मानमुपस्पृशति ॥ ४६॥ अ- थाह संवद॒स्वेति॑ । अगानग्नीदगुंश्चावद्य॒ श्रौष॑ट् स्वगा॒ दैव्या॒ होतृ॑भ्यः स्व॒स्तिर्मा॑नु॒षे- भ्यः शं योर्ब्रूहीत्युपस्पृशत्येव परिधीन्नानुप्रहरत्यथैतद्बर्हिरनुसमस्यति परिधींश्च ॥ ४७॥ तद्वैके । हविरुच्छिष्टमनुसमस्यन्ति तदु तथा न कुर्याद्हुतोच्छिष्टं वाऽएतन्नेद्हुतोच्छिष्टम- ग्नौ॒ जुहु॒वानी॑ति तस्मा॒दपो॒ वैवा॑भ्यव॒हरे॑युः प्रा॒श्नीयु॑र्वा ॥ ४८॥ ब्राह्म॑णम् ॥ २ [६-१.]॥ ॥

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग) · पृष्ठ 330, कुल 699 में से · BharatKosha