शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 386, कुल 699 में से
संदर्भ में पढ़ेंHere is the accurate transcription of the Vedic Brahmana page into pure Markdown with Devanagari Unicode and line markers:
३६८ शतपथ ब्राह्मण नागतेन॒ धने॑न॒ह्वीति॒ तऽए॒ते मा॒येऽअ॑सृजन्त सुपर्णीं च क॒द्रूं च॒ तद्दि॒क्ष्यानां ब्रा॑- ह्मणे व्याख्यायते सौपर्णिकाद्रवं यथा॒ तदा॑स ॥ १॥ तेभ्यो गायत्री॒ सोम॒महा॑प- तत् । तस्या॒ऽआहर॑न्त्यै गन्ध॒र्व्वो विश्वावसुः॒ पर्य्युम्नात्ते देवा॒ अविदुः प्रच्युतो वै प॒रस्ता॒त्सोमो॒ऽथ नो नागच्छति गन्ध॒र्वा वै पर्य्यमोषिषुरिति॑ ॥ २॥ ते होचुः । यो- षित्कामा वै गन्धर्वा वाच॑मे॒वैभ्यः॒ प्रहि॑णवाम सा नः सह सोमे॒नाग॑मिष्यतीति तेभ्यो॒ वाचं॒ प्राहि॑ण्वन्त्सेनात्स॒ह सोमे॑नागच्छत् ॥ ३॥ ते गन्ध॒र्वा अन्वागत्या॑ब्रु- वन् । सोमो यु॒ष्माकं वागेवास्माक॒मिति तथेति देवा॒ अब्रुवन्निहो चेदागान्नैना- मभिषहेव नेष्ट वि॒ह्वयाम॑हाऽइति तां व्यह्वयन्त ॥ ४॥ तस्यै गन्ध॒र्वाः । वेदानॆव प्रोचि॒रऽइति वै वयं वि॒द्मेति वयं वि॒द्मेति ॥ ५॥ अथ देवाः । वीणामेव सृष्ट्वा वादयन्तो निगायन्तो निषेदुरिति वै ते वयं गास्याम॒ इति त्वा प्रमोदयिष्यामह ऽइति सा देवानुपाववर्त सा वै सा तन्मोघमुपाववर्त या स्तुवद्भ्यः शंस॑द्भ्यो नृत्तं॑ गीतम॒पाव॑वर्त तस्मा॒दप्ये॒तर्हि मोघसं॑हिता ए॒व योषा एवꣳ हि वागुपा- वर्तत तासु ह्यन्या अनु॒ योषा॒स्तस्माद्य एव नृत्यति यो गायति तस्मिन्नेवैता नि- मिश्नतमा-इव ॥ ६॥ तद्वा॒ऽएतदु॒भयं॑ दे॒वेष्वासी॑त् । सोमश्च वाक् स यत्सोमं क्री- णात्याग॒त्याऽए॒वागतेन यज्ञाऽइत्युनागतेन ह वै स सोमेन यजते योऽक्रीतेन यज॑ते ॥ ७॥ अथ यद्द्रुवा॒यामाज्यं॑ परिशिष्टं भव॑ति । तच्छु॒क्लां च॑तुष्कुलो विगृह्णा- ति ब॒र्हिषा हिर॑ण्यं प्रब॒ध्यावधाय जुहोति कृत्स्नेन पयसा जुहुवानीति समानङ्ग- न्वं॒ वै पयश्च॒हिर॑ण्यं चोभयꣳ ह्यमृिरेतस॒म् ॥ ८॥ स हिर॑ण्यमवदधाति । ए॒षा ते शुक्र तनूरेत॒दृचं॒ इति॒ वर्चो॒ वाऽए॒तद्यद्धिर॑ण्यं तया॒ सम्भव भ्राजं गहेति स प्रदा- ह तपा सम्भवे॑ति तया॒ सम्पृच्यस्वे॒त्ये॒वैतदाह भ्राजं गहेति सोमो वै भ्राट् सोमं गहेत्ये॒वैतदाह ॥ ९॥ तां यथै॒वादो देवाः । प्राहि॑ण्वन्त्सोमम॒हैवमे॒वैनामेष एत- त्प्रहि॑णोति॒ सोमम॒ह वाग्वै सोमक्रयणी निदानेन तामेतयाऽऽहुत्या प्रीणाति प्री-