शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 390, कुल 699 में से
संदर्भ में पढ़ेंतीच्येधीति ॥ १७॥ मित्र॒स्या प॒दि ब॑ध्नीता॒मिति॑ । वरु॒ण्या वा॒ऽए॒षा यद्र॒ज्जुः सा यद्र॒ज्ज्वा॒भिहि॑ता स्याद्वरु॑ण्या स्याद्यद्य॒नभि॑हिता स्यादय॑तेव स्यादितद्याऽश्र॑वरु॒ण्यं व्व- न्मैत्रꣳ सा यथा॒ रज्ज्वा॒भिहि॑ता य॒तेवम॒स्यै तद्भवति॒ यदा॑ह मित्र॒स्या प॒दि ब॑ध्नीता- मिति॑ ॥ १८॥ पू॒षाध्व॑नस्पा॒त्विति॑ । इ॒यं वै पृ॑थि॒वी पू॒षा य॒स्य वा॒ऽइ॒यम॑ध्वनोगो॒प्त्री भ॑वति॒ तस्य॑ न का च॒न ह्वला भ॑वति॒ तस्मा॑दाह पू॒षाध्व॑नस्पा॒त्विति॑ ॥ १९॥ इ॒- न्द्राया॑ध्यक्षायेति॑ । स्व॒ध्यक्ष्या॒सादित्ये॒वैतदा॑ह॒ यदा॒हेन्द्राया॑ध्यक्षायेत्यनु॑ त्वा मा॒ता म॑- न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सगर्भ्योऽनु॒ सखा॒ सयूथ्य॒ इति॑ सा य॒त्ते जन्म॒ तेन॑ नो॒ ऽनु॑मता॒ सोम॑म॒च्छेहीत्ये॒वैतदा॑ह॒ सा दे॒वि दे॒वम॒च्छेहीति॑ दे॒वी ह्ये॑षा दे॒वम॑र्हति य- द्धाक्सोमं॒ तस्मा॑दाह॒ सा दे॒वि दे॒वम॒च्छेहीतीन्द्रा॑य॒ सोम॒मितीन्द्रो॒ वै य॒ज्ञस्य॑ दे॒वता॒ तस्मा॑दाहेन्द्रा॑य॒ सोम॒मिति॑ रु॒द्रस्त्वा॒वर्त्तय॒त्वित्य॑प्रणाशा॒यैतदा॑ह रु॒द्रो हि नाति॑ प- शव॑ः स्व॒स्ति सोम॑सखा॒ पुन॒रेहीति॑ स्व॒स्ति नः॒ सोमे॑न स॒ह पुन॒रेहीत्ये॒वैतदा॑ह ॥ २०॥ तां य॒थैवादो दे॒वाः । प्रा॒हिण्वन्त्सोम॑म॒च्छ सैना॑न्त्स॒ह सोमे॑नाग॒च्छदे॒वमे॒वै- नामे॒ष ए॒तत्प्रहि॑णोति॒ 'सोम॑म॒च्छ सैना॑ꣳ स॒ह सोमे॑नाग॒च्छति॑ ॥ २१॥ तां य॒थैवादो दे॒वाः । व्यभ॑जन्त गन्ध॒र्वैः सा दे॒वानुपावर्त्ततैवमे॒वैनामेतद्यज॑मानो वि॒क्रीणी॑ते सा यज॑मानमुपाव॑र्त्तते ताम॒दीची॑म॒त्याकु॑र्वन्त्युदीची॒ हि मनु॑ष्याणां दि॒क्सोऽए॒व य॒ज्ञ- मानस्य॒ तस्मा॑दुदीची॑म॒त्याकु॑र्वन्ति ॥ २२॥ ब्राह्मणम् ॥ ३ [२.४] ॥ द्वितीयोऽध्यायः [१७.] ॥ ॥ स॒प्त प॒दान्यनु॑निष्क्रामति । वृ॒ङ्क्तेऽवैनामे॒तत्त्स्मात्स॒प्त प॒दान्यनु॑निष्क्रामति य॒त्र वै वाचः॑ प्र॒जाता॑नि॒ छन्दा॑ꣳसि स॒प्तपदा वै तेषां॑ परा॒र्ध्या शक्वरी तामे॒वैतत्पु॒रस्ता- दर्वाचीं॑ वृ॒ङ्क्ते तस्मा॑त्स॒प्त प॒दान्यनु॑निष्क्रामति ॥ १॥ स वै वाच॑ ए॒व रू॒पेणानु॑नि- ष्क्रामति । व॒स्व्स्य॒दिति॑रस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासीति॑ व॒स्वी ह्ये॑षादि॒तिर्व्वै- षादि॒त्या ह्ये॑षा रु॒द्रा ह्ये॑षा च॒न्द्रा ह्ये॑षा बृह॒स्पति॑स्त्वा सु॒म्ने र॑म्णात्विति॒ ब्रह्म॑ वै