भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 404, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 404

३८६ शतपथ ब्राह्मण अथ॒ यद॒पामन्त॑ क्री॒णाति॑ । र॒सो वाऽआप॑ः सर॒समे॒वैतत्क्री॑णात्यथ॒ यद्धिर॑ण्यं भव॑- ति सशु॒क्रमे॒वैतत्क्री॑णात्यथ॒ यद्वा॑सो भव॑ति सवच॑समे॒वैतत्क्री॑णात्यथ॒ यद॒जा भव॑- ति सतप॑समे॒वैतत्क्री॑णात्यथ॒ यद्धे॒नुर्भव॑ति साशिर॒मेवैतत्क्री॑णात्यथ॒ यन्मिथु॒नौ भ॑- वतः॒ स॒मिथु॑नमे॒वैतत्क्री॑णाति॒ तं वै दश॑भिरेव॒ क्री॑णीयान्नादश॑भिर्दशाक्षरा॒ वै वि॒- राड्वि॒राट् सोम॒स्तस्माद्दश॑भिरेव॒ क्री॑णीयान्नादश॑भिः ॥ १८ ॥ ब्राह्मणम् ॥ ६ [३. ३.] ॥ द्वितीयः प्रपाठकः ॥ कण्डिकासंख्या १२८ ॥ ॥ नीडे॑ कृष्णाजिनमास्तृणाति । अ॒दित्या॒स्त्वग॑सीति॒ सोऽत्रै॑व बन्धु॒रथैनमासा॒- दय॒त्यदि॑त्यै॒ सद॒ आसी॒देती॒यं वै पृ॑थि॒व्यदि॑तिः सेयं प्रतिष्ठा॒ तद॒स्यामे॒वैनमे॒तत्प्र॑ति॒- ष्ठाय प्रतिष्ठा॑पयति॒ तस्मा॑दाहादि॑त्यै॒ सद॒ आसी॒देति॑ ॥ १ ॥ अथैनमभिमृश्य वाच- यति । अ॒स्तम्भा॒द्द्यां वृ॑ष॒भोऽअ॒न्तरि॑क्षम॒ति दे॒वा ह॒ वै य॒ज्ञं त॒न्वाना॒स्तेऽसुर॒रक्ष॑- सेभ्य आस॒ङ्गाद्बिभ॑यां चक्रुस्त॒देनमेत॒च्छाया॑ऽसमे॒व ब॒धाञ्च॑क्रुर्यदाहास्तम्भा॒द्द्यां वृ॑- ष॒भोऽअ॒न्तरि॑क्षम॒ति ॥ २ ॥ अ॒मिमी॑त व॒रिमा॑णं पृथि॒व्या इति॑ । त॒देनेने॒माँल्लोका- नास्तृणोति॒ तस्य॒ हि न वृत्तास्ति॒ न ब॒धो येने॒मे लो॒का आ॑स्तृ॒तास्तस्मा॑दाहा॒मि- मी॑त व॒रिमा॑णं पृथि॒व्या इति॑ ॥ ३ ॥ आसी॑द्वि॒श्वा भुव॑नानि स॒म्राडिति॑ । त॒देने॒ने- द॒ꣳ सर्व॑मास्तृणोति॒ तस्य॒ हि न वृत्तास्ति॒ न ब॒धो येने॒दꣳ सर्व॑मास्तृतं॒ तस्मा॑दा- हासी॑द्वि॒श्वा भुव॑नानि स॒म्राडिति॑ ॥ ४ ॥ विश्वेत्तानि॒ वरु॑णस्य व्र॒तानीति॑ । तद॒- स्मा॒ऽइदꣳ सर्व॒मनु॑वर्त्म करोति॒ यदि॒दं किं च॒ न कं च॒न प्र॒त्युद्यामि॑नं॒ तस्मा॑दाह॒ विश्वेत्तानि॒ वरु॑णस्य व्र॒तानीति॑ ॥ ५ ॥ अथ सोमपर्याणहननेन पर्याणह्यति । नैदे- नं नाष्ट्रा रक्षा॑ꣳसि प्रमृशा॒निति॒ गर्भो वाऽए॒ष भ॑वति ति॒र्-इव॒ वै गर्भास्ति॒र्-इ- वैतत्पर्याणहं ति॒र्-इव॒ वै दे॒वा मनु॒ष्येभ्यस्ति॒र्-इवैतद्यत्पर्याणहं तस्मा॑द्वै पर्याण- ह्यति ॥ ६ ॥ स पर्याणह्यति । वने॑षु व्य॒न्तरि॑क्षं तता॒नेति॒ वने॑षु॒ हीद॒मन्तरि॑क्षं वि॒ततं॒ वृक्षाग्रे॑षु॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑स्विति वी॒र्यं वै वाज॑ः पुमाꣳसो॒ऽर्व॑न्तः

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग) · पृष्ठ 404, कुल 699 में से · BharatKosha