भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 406, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 406

३८८ शतपथ ब्राह्मण पु॒रु॒ष्वे॒वैतद्वीर्यं॑ दधाति पय॑ उ॒स्त्रिया॑स्विति पयो॒ हीदमु॒स्रिया॑सु हि॒तं॒ हृत्सु क्रतुं॒ वरु॑णो वि॒द्वन्निति॑ हृ॒त्सु ह्ययं॒ क्रतुर्मनोजवः॒ प्रवि॑ष्टो वि॒द्वन्निति॑ वि॒न्दु॒ र्ह्ययं॒ प्रज्ञा॑स्व॒ग्निर्दिवि सूर्य॑मदधा॒त्सोम॒मद्रा॑विति दि॒वि ह्य॑सौ सूर्यो॑ हि॒तः सोम॑म॒- द्रा॑विति गि॒रिषु॒ हि सोमो॒त्तस्मा॑दाह दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रा॑विति ॥७॥ अथ॑ य॒दि द्वे कृ॒ष्णाजिने भवतः॑ । तयो॒रन्यतर॒त्प्रत्यानह्यति प्रतीनाह॒भाजनं॒ यद्यु॒त्वेकं॑ भव॑ति कृ॒ष्णाजिनग्रीवा॒मु॒वाव॑कृत्य॒ प्रत्या॑नह्यति प्रतीनाह॒भाजनं॒ सू॒र्यस्य॒ चक्षु॒- रारो॒हम॒ग्नेर॒क्ष्णः कनी॑नकम् । यत्रे॒तशे॑भिरीयसे॒ भ्राज॑मानो विपश्चि॒तेति॒ सूर्य॑मे॒वैत॒- त्पुर॒स्ता॑त्करोति॒ सूर्यः॑ पुर॒स्तान्नाष्ट्रा॒ रक्षा॑ꣳस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण॒ परिव॑हन्ति ॥८॥ उ॒द्धते प्र॒ऽउगे फलके भवतः । तदुत्तरेण तिष्ठ॒न्त्सुब्रह्मण्यः प्राज॑ति श्रेया॒- न्वाऽए॒षोऽभ्यारोहाद्भवति को ह्येतमर्ह॒त्यभ्यारो॑ढुं॒ तस्मा॑दुत्तरेण तिष्ठ॒न्प्राज॑ति ॥९॥ पलाशशाखया प्राज॑ति । यत्र॒ वै गायत्री सो॒मम॒च्छाप॑तत्तदस्या॒ऽआहर॑न्त्या॒ऽअपादु॒- स्ताम्भायत्य॑ पर्णं प्रचि॒च्छेद॒ गाय॒त्र्यै वा सो॒मस्य वा॒ राध॑स्तत्पति॒त्वा प॒र्णोऽभव॒त्त- स्मात्प॒र्णो नाम॒ तय्दे॒वात्र॒ सोम॑स्य॒ न्यक्तं॒ तदिहाप्यसदिति॒ तस्मा॑त्पलाशशाखया प्राज॑ति ॥१०॥ अथानडुहा॑वाह्वय॑ति । तौ यदि॑ कृ॒ष्णौ स्या॑तामन्यत॒रो वा कृष्णस्त॒- न्न विद्या॑द्वर्षिष्यत्ये॒षमः पर्जन्यो वृष्टिमा॒न्भविष्यतीत्येतद्विज्ञानम्॑ ॥११॥ अथ॑ युनक्ति । उ॒स्रावे॑तं धूर्षाहा॒वित्य॒स्रौ हि भवतौ धूर्षाहा॒विति धूर्वाहा॑ हि भवतौ यु॒ज्येथामनश्रू॒रिति यु॒ज्येते ह्यनश्रू॒ऽइत्यनार्ता॒विति तद्वीरहणावित्यपापकृतावि- ति तद्ब्रह्मचोदनाविति ब्रह्मचोदनौ हि भवतः स्वस्ति यज॑मानस्य गृ॒हान्गच्छत- मिति यथैनावतरा नाष्ट्रा रक्षाꣳसि न हिꣳस्युरेवमेतदाह ॥ १२ ॥ अथ पश्चात्प- रिक्रम्य । अपालम्बमभिपद्य॒त्याह॒ सोमा॑य क्रीतायानुब्रूहीति॒ सोमा॑य पर्याह्रियमाणा॒ये- ति वातो यत॒रथा कामयेत ॥ १३॥ अथ वाचयति । भ॒द्रो मे॒ऽसि प्र॒च्यव॑स्व भुव- स्प॒तऽइति भ॒द्रो ह्यस्यैष भ॑वति तस्मा॑न्नान्यमाद्रियते॒ऽप्यस्य राजानः सभागा आ-