भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 438, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 438

४२० शतपथ ब्राह्मण प्राचीᳵ शम्यां नि॒दधा॑ति स प॒रिलि॑ख्य॒त्रतान्मा व्यथि॑ता॒दिती॒मामे॒वैतदा॑ह॒ यत्र॑ व्यथे॒तन्मावता॒दिति॑ ॥ ३०॥ अथ हरति । यत्र॒ हर॑ति॒ तद॒ग्नीडुप॑सीदति॒ स वा॒ऽअ॒- ग्नीनामेव॒ नामा॑नि गृ॒ह्वन्हर॑ति यान्वा॒ऽअ॒मून्ये॒वा अग्रे॒ऽग्नीन्होत्राय॒ प्रावृ॑णत ते प्राध॑न्वंस्त॒ऽइमा॒ एव॒ पृथिवीमुप॑सर्पन्न्नि॒मामिव॒ ह्ये॒ऽअस्याः पू॒रे तेनै॒वैता॒न्निदा॑नेन हर॑ति ॥ ३१॥ स प्रहरति । वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒ आयु॑ना॒ नाम्नेति॑ स यत्प्राध॑न्वंस्तदायुर॑धाति॒ तत्स॒मीर॑यति॒ यो॒ऽस्यां पृ॑थिव्या॒मसीति॒ यो॒ऽस्यां पृ॑थिव्या- मसी॑ति कृत्वा नि॒दधा॑ति प॒त्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॑ वाध॒ध्वेति प॒त्तेऽना॑धृष्टᳵ ॒रक्षोभिर्नाम॑ य॒ज्ञियं॒ तेन॑ वाध॒ध्वेत्ये॒वैतदा॑हा॒नु वा देव॒वीतय॒ऽइति चतु॒र्थᳵ हर- ति दे॒वेभ्य॑स्त्वा जु॒ष्टाᳵ हरामीत्ये॒वैतदा॑ह॒ तां वै च॑तुःस्र॒क्तिंश्वा॑वालाद्धरति च॒तस्रो वै दिश॑ः सर्वाᳵभ्य ए॒वैनमेतद्दि॒ग्भ्यो हर॑ति ॥ ३२॥ अथानु॒व्यूह॑ति । सि॒ꣳह्य॑सि स- प॒त्नसाही॑ दे॒वेभ्य॑ः कल्प॒स्वेति सा यद्देवा॒दः सि॒ꣳही॑ भू॒त्वाशा॑न्तेवाचर॒त्तद्धै॒वैनामेत- दा॑ह सि॒ꣳह्य॑सीति सपत्नसाहीति॒ वया॒ वयꣳ स॑प॒त्नान्यापो॑यसः क्रि॒यास्मेत्ये॒वैतदा॑ह दे॒वेभ्य॑ः कल्प॒स्वेति योषा वा॒ऽउत्तर॑वेदि॒स्तामे॒वैतद्दे॒वेभ्य॑ः कल्पयति ॥ ३३॥ तां वै यु॑गमा॒त्रीं वा स॑र्व॒तः करो॑ति । यज॑मानस्य वा द॒श-द॑श प॒दानि॑ दशाक्षरा॒ वै वि॒राड्वै वि॒राड्य॒ज्ञो म॑ध्ये नाभिकामिव करोति समा॒नन्नासीनो॒ व्याधा॑रया- णीति॑ ॥ ३४॥ तामद्भि॒रभ्यु॑क्षति । सा॒ यद्देवा॒दः सिꣳही भू॒त्वाशा॑न्तेवाचर॒त्तन्नि॒राप- स्ताम॒द्भिः श॑मयति॒ योषा वा॒ऽउत्तर॑वेदि॒स्तामे॒वैतद्दे॒वेभ्यो॑ हिन॒द्मि तस्मा॑दद्भि॒रभ्यु॑- क्षति ॥ ३५॥ सोᳵऽभ्यु॑क्षति । सि॒ꣳह्य॑सि स॒पत्नसाही॑ दे॒वेभ्य॑ः शुन्ध॒स्वेत्य॑थ सि॒कता- भिरनु॑वि॒किर॒त्यल॑ङ्कारो॒ न्वेव सि॑कता भ्रातृव्य॒ऽइव हि सि॑कता अ॒ग्नेर्वाऽए॒तद्वैश्या- नर॒स्य भस्म॒ यत्सि॑कता अ॒ग्निं वा॒ऽअस्यामाधास्यन्भव॑ति॒ तथो है॑नाम॒ग्निर्न॑ हिन॒स्ति त॒स्मात्सि॑कताभि॒रनु॑वि॒किर॑ति॒ सोᳵनु॑वि॒किर॑ति सि॒ꣳह्य॑सि सपत्नसाही दे॒वेभ्य॑ः शु- म्भस्वेत्यथेनां छादयति सा हूनैताᳵ रात्रिं वसति ॥ ३६॥ ब्राह्मणम् ॥ १[५.१] ॥ ॥