भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 442, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 442

पूर्वे॒ सक्ती॒ तयो॒र्या दक्षि॑णा ॥१०॥ तस्या॒माघा॑रयति । सि॒ञ्च॒न्नसि॒ स्वाहेत्य॑था॒पर॑- योरु॒त्तरस्या॑ꣳ सि॒ञ्चा॒स्यादि॑त्यवनिः स्वाहेत्य॑था॒पर॑यो॒र्दक्षि॑णस्याꣳ सि॒ञ्च॒न्नसि॒ ब्रह्म॑- व॒निः क्ष॒त्रव॑निः स्वाहेति॑ ब॒ह्वी वै य॒ज्ञस्या॑शी॒स्तद्ब्रह्म॑ च क्ष॒त्रं चा॑शास्तऽउ॒भे वी॒- र्ये॑ ॥११॥ अथ॒ पूर्व॑योरु॒त्तरस्या॑म् । सि॒ञ्च॒न्नसि॑ सुप्र॒जाव॑नी रायस्पोष॒वनिः॒ स्वाहे॒- ति॒ तत्प्र॒जामा॑शास्ते॒ यदा॑ह सुप्र॒जाव॑निरिति रायस्पोष॒वनि॒रिति॒ भूमा॒ वै रा॒यस्पो॒- षस्तद्भूमा॑नमा॒शास्ते॑ ॥१२॥ अथ॒ मध्य॒ऽआघा॑रयति । सि॒ञ्च॒न्नस्याव॑ङ् दे॒वान्यज॑मा- नाय॒ स्वाहेति॒ तद्दे॒वान्यज॑मानायावा॒हय॑त्यथ स्रुच॒मुद्य॑च्छति भू॒तेभ्य॒स्त्वेति॑ प्र॒जा वै भू॒तानि॑ प्र॒जाभ्य॒स्त्वेत्ये॒वैतदा॑ह ॥१३॥ अथ॒ परि॑धीन्परि॒दधा॑ति । ध्रुवो॒ऽसि पृ॑थि॒वीं दृꣳहेति॒ मध्य॑मं ध्रुव॒क्षिद॒स्यन्तरि॑क्षं दृꣳहेति॒ दक्षि॑णमच्युत॒क्षिद॑सि॒ दिवं॑ दृꣳहेत्युत्त॑- रम॒ग्नेः पुरी॑षमसीति सम्भा॒रानुप॑निवप॑ति॒ तद्यत्सम्भा॒रा भव॑न्त्ये॒वमे॒वैष सर्व॑वाय ॥१४॥ शरी॑रꣳ है॒वास्य॑ पीतुदा॒रु । तद्यत्पी॑तुदा॒रवाः॑ परि॒धयो॒ भव॑न्ति॒ शरी॑रेणै॒वैन॑मेतत्स- म॒र्धय॑ति कृ॒त्स्नं क॑रोति ॥१५॥ माꣳसं॒ है॒वास्य॑ गुल्गु॒लु । तद्यद्गुल्गु॒लु भव॑ति माꣳसे॑नै॒वैन॑मेतत्स॒मर्ध॑यति कृ॒त्स्नं क॑रोति ॥१६॥ गन्धो॑ ह॒वास्य॑ सुगन्धितेज॒नम् । तद्यत्सु॑गन्धितेज॒नं भव॑ति ग॒न्धेनै॒वैन॑मेतत्स॒मर्ध॑यति कृ॒त्स्नं क॑रोति ॥१७॥ अथ॑ यद्वृ॒क्षे स्तु॒का भव॑ति । वृ॒क्षैर्ह॒ वै वि॒षाणै॑ऽअन्तरेणा॒ग्न्यैरे॑काꣳ रा॒त्रिमु॑वास॒ तद्यद्देवा॑- न्न॒ग्न्यैर्नक्तं॒ तद्दि॒ह्वाय्यस॑द्विति॒ तस्मा॑द्वृ॒क्षे स्तु॒का भव॑ति॒ तस्मा॒द्या शृ॑ङ्गि॒ नेदि॑ष्ठꣳ स्या- त्तामाहि॒द्यादा॑हरे॒युर्य्यु तां न वि॒न्देदु॑पि यामे॒व कां चाह॑रे॒त्तद्यत्परि॑धयो॒ भव॑न्ति गु॒- प्त्यै॒ऽथ॒ यद् दूर॒ऽइव॒ ह्येन॑मुत्तरे परि॒धय॒ आग॒च्छन्ति॑ ॥१८॥ ब्राह्म॒णम् ॥२[५.२]॥ ॥ पु॒रुषो॑ वै य॒ज्ञः । पु॒रुष॒स्तेन॑ य॒ज्ञो यदे॑नं पु॒रुषस्तनु॒तऽए॒ष वै ता॒यमा॑नो या- वाने॑व पु॒रुष॒स्ताव्ा॑न्विधीयते॒ तस्मात्पु॒रुषो॑ य॒ज्ञः ॥१॥ शिर॑ ए॒वास्य॑ हविर्द्धा॒नम् । वैष्णवं दे॑वत॒याथ॒ यद॒स्मिन्त्सोमो॒ भव॑ति ह॒विर्वै दे॒वानाꣳ॒ सोम॒स्तस्मा॑द्धविर्द्धा॒नं नाम॑ ॥२॥ मुख॑मे॒वास्या॑हव॒नीयः॑ । स यदा॑हव॒नीये॒ जुहो॑ति॒ यथा॒ मुख॒ऽआसि-