भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 446, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 446

स꣡स्रवं पत्न्ये॑ पाणावानय॑ति साक्ष॑स्य संताप॑मुपानक्ति॑ देवश्रुतौ॑ देवेष्वा॒घोष॑तम॒मि- ति॒ प्रह॑रति प्रतिप्रस्थात्रे॑ स्रुचं चाज्य॑विलापनीं च पर्याणय॑ति पत्नीमुभौ॑ जघनेना- ग्नी ॥ १३॥ चतु॑र्गृहीतमा॒ज्यं गृ॑हीत्वा॒ । प्रतिप्रस्थातोत्तरस्य॑ हविर्धान॑स्य दक्षि॑णायां वर्तन्या꣡ हिर॑ण्यं नि॒धाय॑ जुहोतीराव॑ती धेनु॒मती॒ हि भूतं꣡ सूयवसि॑नी॒ मन॑वे दशस्या । व्य॑स्कभ्ना रोद॑सी विष्ण॑वेते दाध॒र्थ पृ॑थि॒वीम॒भितो॑ मयूखैः॒ स्वाहेति स꣡- स्रवं पत्न्ये॑ पाणावानय॑ति साक्ष॑स्य संताप॑मुपानक्ति॑ देवश्रुतौ॑ देवेष्वा॒घोष॑तमिति॒ तद्यु॒देवं॑ जु॒होति॑ ॥ १४॥ दे॒वा ह॒ वै य॒ज्ञं त॑न्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्वि- भयां चक्रुर्वज्रो वाऽआ॒ज्यं त॒द्य॑देतेन॒ वज्रे॒णाज्ये॑न दक्षिणातो॒ नाष्ट्रा॒ रक्षां꣡स्यवाधं- स्तथैवैषां नियानं नान्व॒वायंस्तथो॑ऽए॒वैष ए॒तेन॒ वज्रे॒णाज्ये॑न दक्षिणातो॒ नाष्ट्रा॒ र- क्षां꣡स्यवधूतै तथैवास्य नियानं नान्व॒वयन्ति तद्यद्वैष्णवीभ्यामृग्भ्यां जुहोति वैष्ण- व꣡ हि ह॒विर्धान॑म् ॥ १५॥ अथ पत्न्यक्षा॑स्य संताप॑मुपा॒नक्ति॑ । प्र॒जनन॑मे॒वैत- त्क्रियते यदा वै स्त्रियै॑ च पुंस॑श्च सं॒तप्य॑तेऽथ रेतः॑ सिच्यते॒ तत्ततः॑ प्र॒जाय॑ते परा॒- गुपा॑नक्ति परा॒ञ्च्ये॑व रेतः॑ सिच्यतेऽथाह ह॒विर्धानाभ्यां॑ प्रवर्त्यमानाभ्या॒मनु॑ब्रूहीति॑ ॥ १६॥ अथ वाच॑यति । प्राची प्रेत॑मध्व॒रं क॑ल्पयन्ती॒ऽइत्य॒धरो॒ वै य॒ज्ञः प्राची॒ प्रेतं य॒ज्ञं क॑ल्पयन्ती॒ऽइत्ये॒वैतदा॒होर्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतमित्यूर्ध्वमिमं य॒ज्ञं दे॑वलो- कं न॑यतमित्ये॒वैतदा॒ह मा जि॑ह्वरतमिति॒ तदे॑तस्मा॒ऽअह्वलामाशाम॑स्ते समुद्गुह्येव॑ प्र॒वर्तेयेयु॒र्यथा॒ नोत्सृ॑र्जेतामस॒र्या वाऽए॑षा वाग्व्यात्तै नेद्दि॒हासु॑री वाग्वदा॒दिति॒ य- द्युत्सृ॑र्जेताम् ॥ १७॥ एतदाच॑क्षीत । स्वं गोष्ठमाव॑दतं देवी दुर्यै॒ आयु॑र्मा निर्वादिष्टं प्रजां मा निर्वादिष्ट॒मिति॒ तस्यो॑ ह्येषा प्रायश्चित्तिः ॥ १८॥ तदाहुः । उ॒त्तरवेदेः प्र- त्यङ् प्रक्रा॑मेत्तीन्विक्रमांस्तद्ध॒विर्धाने॑ स्थापयेत्सा ह॒विर्धा॑नयोर्मात्रेति॒ नात्र मात्रा॑- स्ति यत्रेव॑ स्व॒यं मन॑सा मन्येत नाति॑व सत्रात्यन्ति॑के नो दूरे॒ तत्स्था॑पयेत् ॥ १९॥ तेऽअ॑भिमृशते । अत्र रमथां वर्ष्मन्पृ॑थिव्याऽइति वर्ष्म॑ ह्येतत्पृथिव्यै भवति दि-