शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 46, कुल 699 में से
संदर्भ में पढ़ें२८ शतपथ ब्राह्मण रोडाशम॒धिश्रय॑त्यसा॒वाज्य॑म् ॥४॥ तद्वाऽए॒तत् । उ॒भय॑ꣳ सह क्रि॑यते तद्य॒देत॒दुभय॑ꣳ सह क्रि॒यतेऽर्द्धो॑ ह वाऽए॒ष आ॒त्मनो॑ य॒ज्ञस्य यदा॑ज्य॒मर्द्धो यदि॒दं ह॒विर्भ॑वति स यन्नासा॒वर्द्धो य उ चा॒यमर्द्धस्ता उ॑भावनिं ग॒मया॒वेति॒ तस्मा॑द्वाऽए॒तदुभय॑ꣳ सह क्रि- यतऽए॒वमु॒ हैष आ॒त्मा य॒ज्ञस्य सं॒धीय॑ते ॥५॥ सोऽसा॒वाज्यम॒धिश्रय॑ति । इ॒षे त्वेति॑ वृ॒ष्ट्यै तदा॑ह॒ यदा॒हेषे त्वेति॒ तत्पु॑नरु॒द्वासय॒त्यूर्जे त्वेति॒ यो वृ॒ष्टादूर्द्र॑सो जाय॑ते॒ तस्मै॑ तदा॑ह ॥६॥ अथ पुरोडाशम॒धिवृ॑णक्ति । घ॒र्मोऽसीति॑ य॒ज्ञमे॒वैतत्क॑रोति य॒था घ॒र्मं प्र॒वृ॑ञ्ज्यादे॒वं प्र॒वृ॑णक्ति॒ विश्वा॑यु॒रिति॒ तदायु॑र्दधाति ॥७॥ तं प्र॑थयति । उ॒रुप्रथा॑ उ॒रु प्र॒थस्वेति॑ प्रथयत्ये॒वैन॑मेत॒दुरु॑ ते य॒ज्ञप॑तिः प्रथता॒मिति॑ य॒जमा॑नो॒ वै य॒ज्ञप॑तिस्तद्य॒- जमा॑नायै॒वैतदाशिष॒माशा॑स्ते ॥८॥ तं न स॒त्रा पृथुं कु॑र्यात् । मानु॒ष॑ꣳ ह कुर्याद्य॒- त्यू॒र्ध्वं कु॒र्याद्गृ॒द्धं वै तद्य॒ज्ञस्य यन्मानु॑षं नेद्गृ॒द्धं य॒ज्ञे कर॑वाणीति॒ तस्मान्न स॒त्रा पृथुं कु॑र्यात् ॥९॥ अश्वशफमा॒त्रं कु॑र्यादित्य् हेकऽआहुः । कस्त॒द्वेद॒ यावा॑नश्वश॒फो या- वत्त॑मेव॒ स्वयं मन॑सा न स॒त्रा पृथुं मन्ये॒तैवं कु॑र्यात् ॥१०॥ तम॒द्भिर॒भिमृ॑शति । सकृ॑द्वा॒ त्रिर्वा॒ तद्य॒देवास्यात्राव॑घ्नन्तो वा पि॒षन्तो॑ वा हि॒ण्वन्ति॑ वा॒ वि वा वृ- ह॒न्ति शान्ति॒राप॒स्तद॒द्भिः शान्त्या॑ शमयति॒ तद॒द्भिः संद॑धाति॒ तस्मा॑द॒द्भिर॒भिमृ॑शति ॥११॥ सोऽभिमृ॑शति । अ॒ग्निष्टे॒ त्वचं॒ मा हि॑ꣳसी॒दित्य॒ग्निना वाऽएन॑मे॒तद॒भित॒प्स्य- न्भव॒त्येष ते॒ त्वचं॒ मा हि॑ꣳसी॒दित्ये॒वैतदा॑ह ॥१२॥ तं पर्य॒ग्निं क॑रोति । अ॒छिद्र॑मे॒वै- नमे॒तद॒ग्निना परि॑गृह्णाति॒ नैदं नाष्ट्रा र॑क्षा॑ꣳसि प्रमृशा॒नित्य॒ग्निर्हि रक्षा॑सामप॒हन्ता तस्मा॒त्पर्य॒ग्निं क॑रोति ॥१३॥ तꣳ श्रपयति । दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्विति॒ न वा- ऽए॒तस्य मनु॑ष्यः श्रपयि॒ता दे॒वो ह्येष तदे॑नं दे॒व एव सवि॒ता श्र॑पयति॒ वर्षि॑ष्ठे ऽधि नाक॒ऽइति॑ दे॒वत्रो॑ ए॒तदा॑ह॒ यदा॑ह॒ वर्षि॑ष्ठे॒ऽधि नाक॒ऽइति॑ तम॒भिमृ॑शति शृतं वे॒दानीति॒ तस्मा॑द्वाऽअ॒भिमृ॑शति ॥१४॥ सोऽभिमृ॑शति । मा भेर्मा संवि॑क्था इति॒ मा त्वं भेषीर्मा सं॑विक्था य॒त्त्वाहम॑मानुषꣳ सन्तं मानुषोऽभिमृशामीत्येवैत