भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 474, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 474

तं वाऽअन॒नस्तम्भं वृश्चेद्यदे॒नेनमनसा वृण॒क्ति तथानो न प्रति॒बाध॑ते ॥ ११॥ तं प्राचं॑ पातयेत् । प्राची॒ हि दे॒वानां॒ दिग्थोऽउदच॑मुदीची॒ हि म॑नु॒ष्याणां॒ दिग्- थो प्रत्य॑ञ्चं दक्षिणायै त्वे॒वैनं दिशः॒ परि॑ब्रिवाधिषेतेषा वै दिक् पि॒तृणां॒ तस्मा॑देनं दक्षि॑णायै दिशः परि॑ब्रिब्राधिषेत ॥ १२॥ तं प्रच्यव॑मानमनुमन्त्रयते । द्यां मा ले- खौर॒न्तरि॑क्षं मा हिंसीः पृथि॒व्या सम्भ॑वेति वज्रो॒ वाऽए॒ष भव॑ति यं यूपाय॑ वृश्च॒- न्ति तस्मा॒द्धवा॒त्प्रच्यव॑मानादि॒मे लोकाः स॒म्त्र॑सन्ते तदे॒भ्य ए॒वैनमेतल्लोकेभ्यः शम- यति तथै॒मांल्लोका॒ञ्छा॒न्तो न॑ हिनस्ति ॥१३॥ स यदाह । द्यां मा लेखी॒रिति दि- वं मा॑ हिं॒सीरित्ये॒वैतदा॒हान्तरि॑क्षं मा हिं॒सीरिति नात्र॑ तिरो॒हित॑मिवास्ति पृ- थिव्या सम्भ॑वेति पृथिव्या संजा॒नीष्वेत्ये॒वैतदा॒हाथ॑ हि वा स्वधि॑तिस्तेति॒जानः प्रणिणाय॒ महते॒ सौभ॑गायेत्येष ह्ये॑नꣳ स्वधि॑तिस्तेज॒मानः प्र॒णय॑ति ॥ १४॥ अथा- व्र॒श्चनम॑भिहु॒होति । नेद॒तो नाष्ट्रा रक्षा॑ꣳस्यनूत्ति॒ष्ठानी॑ति वज्रो वाऽआज्यं॒ तद्व॒जे- णैवैतन्नाष्ट्रा रक्षा॑ꣳस्यवबाधते॒ तथातो नाष्ट्रा रक्षा॑ꣳसि॒ नानूत्तिष्ठ॑न्त्यथो रे॒तो वा ऽआज्यं॒ तद्वनस्प॒तिष्वे॒वैतद्रेतो॑ दधाति तस्मा॑देतस आव्र॒श्चनाद्वनस्पतयॊऽनु॒ प्रजाय- न्ते ॥ १५॥ स जु॒होति । अत॑स्त्वं देव वनस्पते श॒तव॑ल्शो विरोह सहस्र॑वल्शा वि व॒यꣳ रु॑हे॒मेति॒ नात्र॑ तिरो॒हित॑मिवास्ति ॥ १६॥ तं प॒रिवासयति । स याव- न्तमे॒वाग्रे परि॑वासयेत्तावा॒न्त्स्यात् ॥ १७॥ प॒ञ्चार॑त्निं प॒रिवासयेत् । पाङ्क्तो य॒ज्ञः पा- ङ्क्तः प॒शुः प॒ञ्चर्त्तवः संवत्स॒रस्य तस्मात्प॒ञ्चार॑त्निं प॒रिवासयेत् ॥ १८॥ षडर॑त्निं प॒- रिवासयेत् । षडा॒ऽऋतवः संवत्स॒रस्य संवत्स॒रो व॒ज्रो व॒ज्रो यूपस्तस्मा॑त्षड॒रत्निं प॒रिवासयेत् ॥ १९॥ अ॒ष्टार॑त्निं प॒रिवासयेत् । अ॒ष्टाक्ष॑रा वै गाय॒त्री पूर्वा॒र्धो वै य- ज्ञस्य गाय॒त्री पूर्वा॒र्ध ए॒ष य॒ज्ञस्य तस्मा॑दष्टा॒रत्निं परि॑वासयेत् ॥ २०॥ नवा॒रत्निं प॒- रिवासयेत् । त्रिवृद्वै य॒ज्ञो नव॒ वै त्रिवृत्तस्मा॒न्नवा॒रत्निं परि॑वासयेत् ॥ २१॥ एका- दशार॑त्निं प॒रिवासयेत् । ए॒काद॑शाक्षरा वै त्रि॒ष्टुब्व॒ज्रस्त्रिष्टुब्व॒ज्रो यूपस्तस्मा॑देकाद-