भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 478, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 478

तत्स॒मेवैतन्मेध्यं॑ करोति ॥६॥ अथ बर्॒हिंषि। प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृ॒णाति पितृष॒दनमसीति पितृदेव॒त्यं वाऽअ॒स्यैतद्भवति यन्नि॒खातं॒ स यथा- निखात॒ ओष॑धिषु मितः स्यादे॒वमेतास्वोष॑धिषु मि॒तो भ॑वति ॥७॥ अथ यूपश- कलं॒ प्रास्य॑ति । तेजो ह वाऽए॒तद्वनस्पतीनां यद्वाश्याशक॒लस्तस्माद्यद्वा बाश्या- शकल॒मपत॒द्वण॒वस्त्यथ॒ शुष्य॑न्ति तेजो ह्येषामितस्तद्यद्यू॑पशकलं॒ प्रास्य॑ति स॒तेजसं मिनवानीति तद्य॒देष एव भ॑वति॒ नान्य एष हि यज्ञ॒कृतो मेध्य॒स्तस्माद्यू॑पशकलं प्रास्य॑ति ॥८॥ स प्रास्य॑ति । अग्रे॒णीर॑सि॒ स्वावे॒श उ॑न्ने॒तॄणामिति पुर॒स्ताद्धाऽअ॒- स्मादिषोऽप॒क्षिय॑ते॒ तस्मादाहाग्रे॒णीर॑सि॒ स्वावे॒श उ॑न्ने॒तॄणामित्येत॒स्य वित्ता॒दधि॑ वा स्थास्यतीत्यधि ह्ये॑नं तिष्ठ॑ति॒ तस्मादाहैतस्य वित्ता॒दधि॑ वा स्थास्यतीति ॥९॥ अ- थ स्रुवे॒णोप॑हू॒त्याज्य॑म् । अव॒टम॒भिजु॑होति॒ नेदधस्तान्नाष्ट्रा रक्षांस्युपोत्तिष्ठानिति वज्रो वाऽआज्यं॑ तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यवबाधते तथाधस्तान्नाष्ट्रा रक्षांसि नो- पोत्तिष्ठन्त्यथ पुर॒स्तात्पर्योत्योदङ्कासीनो यूपमनक्ति॒ स आह यूपायाज्य॑मानायानुब्रू- हीति ॥१०॥ सोऽनक्ति । देव॒स्त्वा सविता म॒ध्वान॑क्त्विति सविता वै देवानां प्र- सवि॒ता यज॑मानो वाऽए॒ष निदानेन यद्यूपः सर्वं वाऽइ॒दं मधु॒ यदि॒दं किं च तदे- नमे॒तेन॒ सर्वे॑ण संस्पर्शयति तदस्मै सविता प्रसवि॒ता प्रसौति तस्मादाह देव॒स्त्वा सविता म॒ध्वान॑क्त्विति ॥११॥ अथ चषाल॒मुभयतः प्रत्यज्य॒ प्रति॑मुञ्चति । सुपिप्प- लाभ्यस्त्वौषधीभ्य इति पिप्यलꣳ॒ ह्वे॒वास्त्येतन्मध्ये संगृहीतमिव भवति तिर्यग्वा ऽइ॒दं वृत्ते पिप्यलमारुहत स यद्दे॒वेदुः॒ संबन्धनं चात्तरोप॑नितंमिव तद्वैतत्करो- ति तस्मान्मध्ये संगृहीतमिव भवति ॥१२॥ आत्तमग्निष्ठा॑मनक्ति । यज॑मानो वा ऽअ॒ग्निष्ठा रस॒ आज्य॑ꣳ रसेनैवैतद्यज॑मानमनक्ति तस्मादात्तमग्निष्ठा॑मनक्त्यथ परिव्य- यणं प्रतिसमन्तं परि॑मृशत्याहो॒क्रीयमाणायानुब्रूहीति ॥१३॥ स उ॑ह्रयति । द्या- मग्रे॒णास्पृ॑क्ष॒ आन्तरिक्षं म॒ध्वेनाप्राः पृथिवीमुपरे॒णादृꣳही॒रिति॒ वज्रो वै यूप एषां