शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 48, कुल 699 में से
संदर्भ में पढ़ें३० शतपथ ब्राह्मण दाह ॥ १५॥ यदा॒ शृतो॒ऽथा॑भिवासयति । ने॒देन॑मुपरि॒ष्टा॒न्नाष्ट्रा॒ रक्षा॑ꣳस्यव॒पश्या॒नी- ति ने॒द्वैव नग्न॒ इव मुषित॒ इव शयाता॒ऽइत्यु चैव तस्मा॒द्वाऽअ॒भिवा॑सयति ॥ १६॥ सो॑ऽभिवासयति । ऋ॒तमेरु॑र्य॒ज्ञोऽत॑मेरुर्यजमानस्य 'प्रजा भूयादिति नेदेतद॑नु य॒ज्ञो वा यजमानो वा ताम्याद्यदिदमभिवासयामीति तस्मादेवमभिवासयति ॥ १७॥ अथ पात्रीनिर्णेजनम् । अङ्गुलिप्रणेजनमाग्नीध्रो निनयति तद्यदाग्नीध्रो निनयति ॥ १८॥ ब्राह्मणम् ॥ ६ [२.२.] ॥ प्रथमः प्रपाठकः ॥ कण्डिकासंख्या १२१ ॥ चतुर्द्धाविहितो ह वाऽअग्नेऽङ्गिराः । स यम॑ग्रे॒ऽग्निꣳ होत्रा॑य प्रावृ॑णत स प्रा- धन्वयं द्वितीयं प्रावृणत स॒ प्रेवा॑धन्वद्यं तृतीयं प्रावृणत स॒ प्रेवा॑धन्वद्यो योऽय- मे॒तर्ह्य॒ग्निः स भीषा निलिल्ये सोऽपः प्रवि॑वेश तं दे॒वा अनु॑वि॒द्य सह॒सैवा॒द्य आनिन्युः सोऽपोऽभितिष्ठेवावष्ठूता स्थ या अप्रपदन्ꣳ स्थ याभ्यो वो मामकामं न्यती॑ति तत आप्याः सम्बभूवुस्त्रितो द्वित एकतः ॥ १॥ तऽइन्द्रेण सह चेरुः । यथे॒दं ब्राह्म॑णो रा॒जान॑मनुच॒रति स यत्र त्रिशीर्षाणं त्वाष्ट्रं विश्वरूपं जघान तस्य हैतेऽपि वधस्य वि॒दाञ्च॑क्रुः शश्व॑द्धेनं त्रित॒ एव ज॒घानात्य॑हू तदिन्द्रोऽमुच्यत दे॒- वो हि सः ॥ २॥ त उ हैतऽऊचुः । उपैवेमऽएनो गन्तु येऽस्य वधस्यावेदिषु- रिति किमिति यज्ञ॒ एवेषु मृष्टामिति तद्वै॒षैतद्य॒ज्ञो मृष्टे य॑द्वैभ्यः पात्रीनिर्णेजनमङ्गु लिप्रणेजनं निनय॑न्ति ॥ ३॥ तऽउ ह्याप्या ऊचुः । अत्येव वयमिदमस्मत्परो नया- मेति कमभीति य ए॒वाऽदक्षिणेन ह॒विषा यजाता॒ऽइति तस्मा॒न्नाद॑क्षिणेन ह॒विषा यजेतान्त्येषु ह यज्ञो मृष्ट आप्या उ ह तस्मिन्मृजते योऽदक्षिणेन हविषा यज॑ते ॥ ४॥ ततो देवाः । एतां दर्शपूर्णमासयोर्दक्षिणामकल्पयन्द्यदन्वाहार्य नेददक्षिणं ह॒वि॒रस॑दिति तन्नाना निन॒यति तथैभ्योऽसमदं करोति तदभितपति तथैषाꣳ शृतं भवति स निनयति त्रिताय त्वा द्विताय त्वैकताय त्वेति पश्चूर्ध्व वाऽएष आलभ्यते यत्पुरोडाशः ॥ ५॥ पुरुषं ह वै देवाः । अग्रे पशुमालेभिरे तस्यालब्धस्य मेधो