शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 480, कुल 699 में से
संदर्भ में पढ़ें४६२ शतपथ ब्राह्मण लोकानामभिजित्यै तेन॒ वज्रे॑णे॒मांल्लो॒काꣳस्तृ॑णुते॒ऽभ्यो लो॒केभ्यः॑ सप॒त्नान्नि॑र्भजति ॥ १४॥ अथ मिनोति । या ते॒ धामा॒न्युश्म॑सि॒ गम॑ध्ये॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अया॑सः । अत्रा॒ह तदु॑रुगा॒यस्य॒ विष्णोः॑ पर॒मं प॒दमव॑भारि॒ भूरि॒त्येतया त्रिष्टुभा मिनोति वज्र- स्त्रिष्टुब्वज्रो यूपस्तस्मात्त्रिष्टुभा मिनोति ॥ १५॥ सम्प्रत्यग्निमग्निष्ठां मिनोति । यज- मानो वाऽअग्निमग्निष्ठो वै यज्ञः स यदग्रेरग्निष्ठाꣳ ह्लयेदङ्गुलेह यज्ञायजमानस्त- स्मात्सम्प्रत्यग्निमग्निष्ठां मिनोत्यथ पर्यूकृत्यथ पर्युक्षत्याप उपनिनयति ॥ १६॥ अ- थैवमभिपद्य वाचयति । विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य युज्यः॒ सखा॒ति वज्रं वाऽएष प्राहार्षीद्यो यूपमुदशिश्रियद्विष्णोर्विजितिं पश्यतेत्ये- वैतदाह यदाह विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखेतीन्द्रो वै यज्ञस्य देवता वैष्णवो यूपस्तꣳ सेन्द्रं करोति तस्मादाहेन्द्रस्य युज्यः सखेति ॥ १७॥ अथ चषालमुदीक्षते । तद्विष्णोः॑ पर॒मं प॒दꣳ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तमिति वज्रं वाऽएष प्राहार्षीद्यो यूपमुदशिश्रियत्तं विष्णोर्विजि- तिं पश्यतेत्येवैतदाह यदाह तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततमिति ॥ १८॥ अथ परिव्ययति । अनग्नतायै न्वेव परिव्ययति तस्मादत्रे- व परिव्ययत्यत्रेव हीदं वासो भवत्यन्नाद्यमेवास्मिन्नेतद्दधात्यत्रेव हीदमन्नं प्रति- तिष्ठति तस्मादत्रेव परिव्ययति ॥ १९॥ त्रिवृता परिव्ययति । त्रिवृद्धान्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृता परिव्ययति ॥ २०॥ स परि- व्ययति । परि॑वी॒रसि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्तां॒ परीमं यज॑मान॒ꣳ रा॒यो म॑नु॒ष्या॑- णामिति तद्यजमानायाशिषमाशास्ते यदाह परीमं यजमानꣳ रायो मनुष्याणामि- ति ॥ २१॥ अथ यूपशकलमवगूहति । दिवः सूनुरसीति प्रजा हैवास्यैषा तस्मा- द्यदि यूपैकादशिनी स्यात्स्वꣳ-स्वमेवावगूहेद्विपर्यासं तस्य हैषामुग्धानुव्रता प्र- जा जायेतेऽथ यो विपर्यासमनवगूहति न स्वꣳ-स्वं तस्य हैषा मुग्धानुव्रता प्रजा