शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 52, कुल 699 में से
संदर्भ में पढ़ें३४ शतपथ ब्राह्मण माद॑त्ते न स्वा॒भ्यां वज्रो वाऽए॒ष तस्य॒ न ममु॑क्षो भर्त्ता तमे॒ताभि॑र्द्दे॒वता॑भि॒राद॑त्ते ॥४॥ आददेऽध्वर॒कृतं॑ दे॒वेभ्य॒ इति॑ । अध्वरो॒ वै य॒ज्ञो य॒ज्ञकृतं॑ दे॒वेभ्य॒ इत्ये॒वैतदा॑ह॒ तत् स॒व्ये पा॒णौ कृ॒त्वा द॑क्षि॒णेनाभि॒मृश्य॒ जपति॒ सꣳश्यत्ये॒वैन॑मेतद्यज॑स्पति ॥५॥ स॒ जपति॑ । इन्द्र॑स्य बा॒हुर॑सि दक्षि॑ण॒ इत्येष॒ वै वीर्य॑वत्तमो य इन्द्र॑स्य बा॒हुर्द्द- क्षि॒णस्तस्मा॑दाहेन्द्र॑स्य बा॒हुर॑सि दक्षि॑ण॒ इति॑ स॒हस्र॑भृष्टिः शत॒तेजा॒ इति॑ स॒हस्र॑भृ- ष्टिर्वै स वज्र॑ आसीच्छत॒तेजा॒ यं तं वृ॒त्राय॒ प्राह॑रत्तमे॒वैतत्क॑रोति ॥६॥ वायु॑रसि तिग्म॒तेजा॒ इति॑ । एतद्वै तेजि॑ष्ठं तेजो॒ यद्वा॒युं॒ योऽयं॒ पव॑त॒ऽए॒ष ह्ये॑मांल्लो॒कांस्ति॒र्य्यङ्- नु॒पव॑ते सꣳश्यत्ये॒वैन॑मेतद्विष॒तो ब॒ध इति॒ यदि॑ नाभि॒चरे॒द्यद्यु॑ऽअभि॒चरे॒दमु॑ष्य ब॒ध इति॑ ब्रूयात्तेन॒ सꣳशि॑तिन् ना॒त्मान॑मुपस्पृशति॒ न पृ॑थि॒वीं नेद॒नेन॒ वज्रे॑ण सꣳशि॑- तेना॒त्मानं॑ वा पृथि॒वीं वा॒ हिन॒सानी॑ति॒ तस्मा॒न्नात्मान॑मुपस्पृशति॒ न पृ॑थि॒वीम् ॥७॥ दे॒वाश्च॒ वाऽअ॑सुराश्च । उ॒भये॑ प्राजाप॒त्याः पस्पृ॑धिरे ते ह॒ स्म यद्देवा असु॑रा- ञ्जय॑न्ति ततो ह॒ स्मैवैनान्यु॒त्था॒योपो॑त्तिष्ठन्ति ॥८॥ ते ह॒ देवा॒ ऊचुः॑ । जया॑मो वा ऽअसु॒रांस्त॒त्वे॑व नः॒ पुन॒रुपो॑त्तिष्ठन्ति क॒थं न्वे॑नाननपज॒य्यं ज॑ये॒मेति॑ ॥९॥ स हा- ग्रिरुवाच । उ॒द्धो वै नः॒ पलाय्य मुच्यन्त॒ऽइत्यु॒द्धो ह॒ स्मैवैषां॑ पला॒य्य मुच्य॑ते ॥१०॥ स॒ ह्यग्नि॑रुवाच । अ॒हमु॑त्तर॒तः पर्ये॑ष्याम्यथ यु॒यमि॒त उपसꣳरु॑न्त्स्यथ ता- न्त्सꣳरु॒ध्येभि॑श्च लो॒कैर॑भिनिधास्यामो य॒डु चेमांल्लोकानति चतुर्थं ततः पुन॒र्न सꣳ- हास्यन्त॒ऽइति॑ ॥११॥ सोऽग्नि॑रुत्तर॒तः पर्ये॑त् । अथेम॒ऽइत उपसमरुन्धंस्तान्सꣳ- ध्येभि॑श्च लो॒कैर॑भिन्यदधुर्य॒ड्डु चेमांल्लोकानति चतुर्थं ततः॒ पुन॒र्न सम॑जिह्रत तदेत- न्निदा॒नेन॒ यत्स॒म्बय॑ङ्गुः ॥१२॥ स॒ योऽसाव॒ग्नीङ्कत्तर॒तः पर्ये॑ति । अ॒ग्निरे॒वैष निदा॒- नेन॒ तानध॒र्युरे॒वैत॒ उपसꣳरु॑णद्धि तांत्सꣳरु॒ध्येभि॑श्च लो॒कैर॑भिनिदधाति॒ यडु चेमां- ल्लोकानति॒ चतुर्थं ततः॒ पुन॒र्न सं॑जिह्रीते तस्माद्यद्ये॒तर्ह्य॑सुरा न सं॑जिह्रीते येन ह्ये- वैनान्दे॒वा अवा॑बाधन्त तेनै॒वैनानप्ये॒तर्हि॑ ब्राह्मणा य॒ज्ञेऽव॑बाधन्ते ॥१३॥ य उ॒ऽएव