शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 600, कुल 699 में से
संदर्भ में पढ़ेंये र॒श्मय॒स्ते विश्वे॑ दे॒वास्तस्मा॒च्छुक्रपात्रे॑ण गृह्णाति ॥ २६ ॥ अ॒थातो गृह्णात्ये॒व । ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आगत॑ । दा॒श्वांसो दा॒शुषः॑ सु॒तम् । उप॒यामगृ॑- हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इति॑ सादयति विश्वे॑भ्यो ह्ये॑नं दे॒वेभ्यो॑ गृह्णाति॑ ॥ २७॥ ब्राह्मणम् ॥ ५ [३. १.] ॥ ॥ गृ॒णाति॑ ह॒ वाऽए॒तद्धोता यच्छ॑सति । तस्मा॑दे॒तद्गृणा॑ते॒ प्रत्ये॑वाध्व॒र्युर्गृणा॑ति तस्मा॑त्प्रतिग॒रो नाम॑ ॥ १ ॥ तं वै प्राञ्च॑मासी॒नमाह्व॑यते । सर्वे॒ वाऽअन्यऽउद्गातुः प्राञ्च आ॒र्त्विज्यं॑ कुर्व॒न्ति तथो॒ हास्यैतत्प्रागे॒वार्त्विज्यं॑ कृतं भव॑ति ॥ २॥ प्र॒जाप॑ति- र्वाऽउद्गाता । योष॒ऽग्यै॑ता स ए॒तत्प्र॒जाप॑तिरुद्गाता॒ योषायमृचि॒ होत॑रि॒ रेतः॑ सिञ्चति॒ यत्स्तु॑ते॒ तद्धोता श॒स्त्रेण॑ प्र॒जन॑यति॒ तद्यति॒ यथायं पुरुषः॑ शितस्त॒द्यदे॑- नद्यति॒ तस्मा॒च्छ॒स्त्रं नाम॑ ॥ ३॥ तदुपप॒ल्यग्य॑ प्रति॒गृणा॑ति । इ॒दमे॒वैतद्रेतः॑ सि॒क्त- मुप॒निम॑द्गत्यथ॒ यत्परा॑ङ् ति॒ष्ठन्प्रति॑गृणीयात्पराङ् है॒वैतद्रेतः॑ सि॒क्तं प्र॒णश्ये॒त्तन्न प्र॒- जायेत सम्प्र॒चाऽउ चैवैतदू॒र्ध्वेवैतद्रेतः॑ सि॒क्तं प्र॒जन॑यतः ॥४॥ या॒त॒यामा॑नि॒ वै दे॒वै- श्छन्दा॑सि । छन्दो॑भि॒र्हि दे॒वाः स्व॒र्गं लो॒कं स॒माश्नु॑वत॒ मदो॒ वै प्र॑तिग॒रो यो वाऽऋचि॒ मदो॒ यः सामन्॒रसो॒ वै स तच्छन्दः॑स्वै॒वैतद्रसं॑ दधात्ययातयामानि करो- ति तैरयातया॑मि॒र्ह्यनं तन्वते॑ ॥ ५॥ तस्मा॒द्यद॒र्धर्चशः॑ शं॒सेत् । अ॒र्धर्चे॑ऽर्धर्चे॒ प्रति॑- गृणीया॒द्यदि॑ प॒दः शं॒सेत्प॒दे-प॑दे प्रतिगृणीया॒द्यत्र॒ वै श॒स्त्रम॒न्ववा॑निति॒ तद्सुररक्ष॒- सानि॑ य॒ज्ञम॒न्वव॑चरन्ति॒ तत्प्रति॑गरेण॒ संद॑धाति॒ नाष्ट्राणा॑ꣳ रक्ष॑सामनन्ववचाराय॑ यज॑मानस्यो चैवैतद्भा॒तृव्य॑लो॒कं छि॒नत्ति॑ ॥ ६॥ चतुर॒क्षरा॑णि ह॒ वाऽअये॒ च्छन्दा॑- स्यासुः । ततो॒ जग॑ती॒ सोम॒मछाप॑तत्सा॒ त्रीण्य॒क्षरा॑णि हि॒त्वाऽग॑म॒त्ततस्त्रिष्टुक्सो॑- मम॒छाप॑तत्सैकम॒क्षरं॑ हि॒त्वाऽग॑म॒ ततो॑ गायत्री॒ सोम॒मछाप॒त्तत्सैतानि चा॒क्षरा॑णि हर॒त्याग॑छ॒त्सोमं॑ च॒ ततो॑ऽष्टाक्ष॑रा गाय॒त्र्यभ॑व॒त्तस्मा॑दाहुर॒ष्टाक्ष॑रा गाय॒त्रीति॑ ॥ ७॥ तया॑ प्रातःस॒वन॒मत॑न्वत । तस्मा॑द्गाय॒त्रं प्रा॑तःस॒वनं तथै॑व माध्यन्दि॒नꣳ सव॑नम-