भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 658, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 658

६४० शतपथ ब्राह्मण आसितानि ह वै तेजाग्ꣳस्येतानि वीर्याण्यात्मन्धत्ते यस्यैवं विदुष एतान्यहान्गृह्य- न्ति ॥५॥ तान्वै॒ प्रातःसवने गृह्णीयात् । आग्रय॒णं गृहीत्वा॒त्मा वा॒ऽआग्रय॒णो ऽङ्ग॒ वा॒ऽइ॒दमात्मन॒ एकैकमतिरिक्तं॒ क्लोमहृदयं॒ यद्य॒वत् ॥६॥ माध्यन्दिने वैनान्त्सव॒- ने गृह्णीयात् । उ॒क्थं गृहीत्वोपाकरिष्यन्वा पूतभृतोऽयग्ꣳ ह॒ वा॒ऽअग्ने॒योषो॒ऽनि- रुक्त आत्मा यदुक्थ्यः सो॒ऽएषा॒ मीमाग्ꣳसै॒व प्रातःसवन॒ऽए॒वैना॒न्गृह्णीयादाग्रय॒णं गृहीत्वा॒ ॥७॥ ते मा॒हेन्द्र॒स्यैवानु॒ होमग्ꣳ हूयन्ते । एष वा॒ऽइन्द्रस्य निष्केवल्यो ग्रहो॒ यन्माहेन्द्रो॒ऽप्यस्यैतन्निष्केवल्यमेव॒ स्तोत्रं॒ निष्केवल्यग्ꣳ शस्त्रमिन्द्रो॒ वै यज॒- मानो यजमानस्य वा॒ऽएते॒ कामाय गृह्यन्ते तस्मान्माहेन्द्रस्यैवानु॒ होमग्ꣳ हूयन्ते ॥८॥ अथातो गृह्णात्येव॒ । अग्ने॒ पव॑स्व स्व॒पा अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॒द्रयिं म॑- यि॒ पोष॑म् । उपयामगृहीतोऽस्यग्नये त्वा वर्चस॒ऽएष ते योनिरग्नये त्वा वर्चसे ॥९॥ उत्ति॑ष्ठन्नो॒ सा । सह॑ पी॒वी शिप्रै॒ऽअवे॑पयः । सोम॑मिन्द्र चमू॒सुतम्॑ । उपया- मगृहीतोऽसीन्द्राय त्वौजस॒ऽएष ते योनिरिन्द्राय त्वौज॑से ॥१०॥ अदृ॑श्रमस्य केत॒- वो॒। वि र॒श्मयो॒ जना॑ग्ꣳ अनु॑ । भ्राज॑न्तो अ॒ग्नयो यथा । उपयामगृहीतोऽसि सू- र्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजायेति ॥११॥ तेषां भक्षः । अग्ने व- र्चस्विन्वर्चस्वाग्ꣳस्त्वं देवेष्वसि वर्चस्वानहं मनुष्येषु भूयासमिन्द्रौजस्विन्नौजस्त्वाग्ꣳस्त्वं देवे- ष्वस्यौजिष्ठोऽहं मनुष्येषु भूयासग्ꣳ सूर्य भ्राजिष्ठ भ्राजिष्ठस्त्वं देवेष्वसि भ्राजिष्ठोऽहं मनुष्येषु भूयासमित्येतानि ह वै भ्राजाग्ꣳस्येतानि वीर्याण्यात्मन्धत्ते यस्यैवं विदुष एतान्यहान्गृह्णन्ति ॥१२॥ तान्वै पृष्ठ्ये षडहे गृह्णीयात् । पूर्वे त्र्यह॒ऽआग्नेयमेव प्रथमेऽहन्नेन्द्रं द्वितीये सौर्यं तृतीयऽएवमेवान्वहम् ॥१३॥ तानु॒ हैकऽउत्तरे त्र्यहे गृह्णन्ति । तत्तथा॒ न कुर्यात्पूर्व॒ऽएवैनांस्त्र्यहे गृह्णीयाद्यद्युत्तरे त्र्यहे गृह्णी- यात्स्यात्पूर्व॒ऽएवैनांस्त्र्यहे गृहीत्वायोत्तरे त्र्यहे गृह्णीयादेवमेव यथापूर्वं विष्वञ्चिति सर्वपृष्ठऽएकाह॒ऽएव गृह्यन्ते ॥१४॥ ब्राह्मणम् ॥५ [५.४.]॥ ॥