शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 66, कुल 699 में से
संदर्भ में पढ़ें४८ शतपथ ब्राह्मण
ए॒तदा॒त्मान॑मे॒व क॒रोति॒ न र॒ज्जुँ शिरो॒ वै रा॒स्ना तमे॒वास्या ए॒तत्क॑रोति ॥१५॥ स वै न॒ ग्रन्थिं॑ कुर्यात् । व॒रु॒ण्यो॑ वै ग्र॒न्थिर्व॑रु॒णो ह॒ पत्नीं॑ गृह्णी॒याद्यद्ग्र॒न्थिं कु॒र्यात्तस्मा॒न्न ग्रन्थिं॑ करोति ॥१६॥ ऊ॒र्ध्वमे॒वोदू॑हति । विष्णो॒र्वेष्यो॒ऽसीति॒ सा वै न प॒श्चात्प्राची॒ दे॒वानां॑ य॒ज्ञम॒न्वासी॒तेयं वै पृ॑थि॒व्यदि॑तिः॒ सेयं दे॒वानां॒ पत्नी॒ सा प॒श्चात्प्राची दे॒वा- नां य॒ज्ञम॒न्वास्ते॒ तद्घेमा॒मध्यारो॒हेत्सा पत्नी क्षिप्रेऽमुं लो॒कमि॑यात्तथो ह॒ पत्नी॒ ज्यो- ग्जी॑वति॒ तद॒स्या॑ऽए॒वैतन्नि॒ह्नुते॒ तथो॒ हैना॒मियं॒ न हि॑नस्ति॒ तस्मा॒द् दक्षि॑णा॒त-इ॑वै- वा॒न्वासी॑त ॥१७॥ अथा॑ज्य॒मवे॑क्षते । योषा॒ वै पत्नी॒ रेत॒ आज्यं॑ मिथु॒नमे॒वैतत्प्र॑ज- ननं॑ क्रियते॒ तस्मा॒दाज्य॒मवे॑क्षते ॥१८॥ स॒विद्र॑सि॒ । ऽद॑ब्धेन त्वा॒ चक्षु॒षाव॑पश्यामी- त्यना॑र्त्तेन त्वा॒ चक्षु॒षाव॑पश्यामी॒त्येवैतदा॑हा॒ग्नेर्जि॒ह्वासी॒ति यदा वाऽए॒तद॒ग्नौ जुह्व- त्यथा॒ग्नेर्जि॒ह्वा-इ॒वोत्त्ति॑ष्ठन्ति॒ तस्मा॑दाहा॒ग्नेर्जि॒ह्वासी॒ति सु॒हूर्द्दे॒वेभ्य॒ इति॒ साधु दे॒वेभ्य॒ इत्ये॒वैतदा॑ह॒ धाम्ने॑-धाम्ने मे भव॒ यजु॑षे-यजुष॒ऽइति॒ सर्व॑स्मै मे य॒ज्ञायेधी॒त्येवैतदा॑ह ॥१९॥ अथा॑ज्यमा॒दाय॒ प्राङुदा॑द्रवति । तदा॑हव॒नीयेऽधिश्र॑यति॒ यस्या॑हव॒नीये ह॒वीँ- षि श्रपय॑न्ति॒ सर्वो॑ मे य॒ज्ञ आह॑वनीये शृतो॒ऽसदित्यथ यदमूत्राग्ने॑ऽधिश्रयति पत्नी॒ँ ह्य॑वकाशयिष्य॒न्भव॑ति॒ न हि तदवक॑ल्पते॒ यत्सा॒मि प्र॒त्यग्घरे॑त्पत्नीमवकाशयिष्या- मीत्यथ यत्पत्नीं॒ नाव॑काशयेद॒न्तरि॑याद् य॒ज्ञात्पत्नीं॒ तथो॑ ह॒ यज्ञात्पत्नी॒ नान्त॒रेति॒ तस्मा॒ऽ सार्ध॑मे॒व वि॒ल्लाप्य॒ प्रागुदा॑द्रुत्यव॒काश्य॒ पत्नीं॒ यस्यो॒ पत्नी॒ न भ॑वत्य॒ग्र ऽए॒व तस्या॑हवनी॒येऽधिश्र॑यति॒ तत्तत॒ आद॑त्ते॒ तदन्तर्वेद्यासा॑दयति ॥२०॥ तदाहुः॑ । नान्तर्वेद्यासा॑दयेदृतो वै दे॒वानां॒ पत्नीः संयाजयन्त्यवसभा ऋ॒ह देवा॒नां पत्नीः करो- ति॒ परःपुं॑स्तो ह्यस्य॒ पत्नी॑ भवती॒ति तदु॑ होवाच याज्ञवल्क्यो यथारिष्टं पत्न्या अस्तु॒ कस्त्तदाद्रि॑येत॒ यत्परःपुं॑स्ता वा॒ पत्नी॒ स्याद्यथा वा य॒ज्ञो वेदि॑र्य॒ज्ञ आज्यं॒ य- ज्ञाय॒ज्ञं निर्मिमा॒ऽइति॒ तस्मा॒दन्त॒र्वेद्ये॒वासा॑दयेत् ॥२१॥ प्रोक्षणीषु प॒वित्रे॒ भवतः॑ । ते तत॒ आद॑त्ते ता॒भ्यामा॒ज्यमुत्पु॑नात्ये॒को वाऽउत्पवनस्य॒ बन्धु॒र्मेध्य॑मे॒वैतत्क॑रोति ॥२२॥ स उत्पू॒नाति॑ । सवि॒तुस्त्वा॑ प्रसव॒ऽउत्पु॑नाम्यच्छि॒द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मि-