भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 662, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 662

माः॑ प्र॒जा अनु॑ प्र॒जाय॑न्ते समा॒नमु॑पा॒ꣳ॒श्वन्त॑र्या॒मयोः॑ शु॒क्रपा॒त्रमृ॑तुपा॒त्रमा॑ग्रय॒णपा॒त्रमु॑- क्थ्यपा॒त्रं प॒ञ्च वाऽऋ॒तवः॑ सं॑वत्स॒रस्य॑ सं॑वत्स॒रः प्र॒जाप॑तिः प्र॒जाप॑तिर्य॒ज्ञो यद्यु॒ ष- डे॒वर्त्तवः॑ सं॑वत्स॒रस्येत्या॑दित्यपा॒त्रमे॒वैते॑षा॒ꣳ ष॒ष्ठम् ॥ १२॥ एक॒ꣳ ह्वेव तत्पा॒- त्रम् । यदि॒माः प्र॒जा अनु॑ प्र॒जाय॑न्त॒ऽउपा॒ꣳ॒शुपा॒त्रमे॒व प्रा॒णो ह्यु॑पा॒ꣳ॒शुः प्रा॒णो हि प्र॒जाप॑तिः प्र॒जाप॑तिꣳ ह्ये॒वे॒दꣳ सर्व्व॒मनु॑ ॥ १३॥ ब्राह्म॒णम् ॥ ६ [५. ५.] ॥ ए॒ष वै प्र॒जाप॑तिः । य ए॒ष य॒ज्ञस्ताय॑ते॒ यस्मा॑दि॒माः प्र॒जाः प्र॒जाता ऋ॒त्वेवाप्ये॒- तर्ह्यनु॑ प्र॒जाय॑न्ते॒ स आ॒श्वि॒नं ग्र॒हं गृ॑ही॒त्वाव॑का॒शान॑वका॒शय॑ति ॥ १॥ स उपा॒ꣳ॒- शुमे॒व प्र॑थमम॑वका॒शय॑ति । प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्वेत्यथो॑पा॒ꣳ॒शुसव॑नं व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्वेत्य॑था॒न्तर्या॒ममु॑दा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्वे॒- त्यथै॑न्द्रवा॒यवं॑ वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्वेत्यथ॑ मैत्रावरु॒णं क्रतु॑द॒क्षाभ्यां॑ मे व- र्चो॒दा वर्च॑से पवस्वेत्यथा॑श्वि॒नꣳ श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्वेत्यथ॑ शु॒क्राम॒- न्थिनौ॑ चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथामिति॑ ॥ २॥ अथा॑ग्रय॒णम् । आ॒त्मने॑ मे वर्चो॒दा वर्च॑से पवस्वेत्यथो॒क्थ्यमो॑जसे मे वर्चो॒दा वर्च॑से पवस्वेत्यथ॑ ध्रु॒वमायु॑षे मे वर्चो॒दा वर्च॑से पवस्वेत्या॑म्भृ॒णौ विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से प- वेथा॒मिति॑ वैश्वदे॒वौ वा॒ऽअम्भृ॑णा॒वतो॒ हि दे॒वेभ्य॒ उन्न॑य॒न्तो म॑नु॒ष्येभ्यो॒ऽतः पि॑- तृभ्य॒स्तस्मा॑द्वैश्वदे॒वाव॑म्भृ॒णौ ॥ ३॥ अथ द्रो॑णकल॒शम् । को॑ऽसि कत॒मो॑ऽसीति॑ प्र॒जाप॑ति॒र्वै कः कस्या॑सि॒ को ना॑मासीति प्र॒जाप॑ति॒र्वै को नाम॒ यस्य॑ ते॒ नामाम॑- न्महीति॑ म॒नु॒ते॒ ह्य॑स्य॒ नाम॒ यं त्वा॒ सोमे॑नाती॒तृपा॒मेति॑ त॒र्पय॑ति॒ ह्येनꣳ॒ सोमे॑न॒ स आ॒श्वि॒नं ग्र॒हं गृ॑ही॒त्वान्व॑ङ्गमा॒शिष॒माशा॑स्ते सुप्र॒जाः प्र॒जाभिः॑ स्या॒मिति॒ तत्प्र॒जामा॑- शा॑स्ते सु॒वीरो॑ वी॒रैरि॑ति॒ तद्वी॒रानाशा॑स्ते सु॒पोषः॒ पोषै॒रिति॒ तत्पुष्टि॒माशा॑स्ते ॥ ४॥ तान्वै॑ न स॒र्व्वमि॑वावका॒शये॑त् । यो न्वे॑व ज्ञा॒तस्तम॑वका॒शये॒द्यो वा॑स्य प्रि॒- यः स्या॒द्यो वा॑नूचा॒नो॑ऽनू॒क्तेनै॑ना॒न्प्राप्नु॑या॒त्स आ॒श्वि॒नं ग्र॒हं गृ॑ही॒त्वा कृ॒त्स्नं य॒ज्ञं

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग) · पृष्ठ 662, कुल 699 में से · BharatKosha