भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 664, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 664

जनयति॒ तं कृ॑त्स्नं य॒ज्ञं ज॑नयित्वा॒ तमा॒त्मन्ध॑त्ते॒ तमा॒त्मन्कु॑रुते ॥ ५ ॥ ब्राह्मणम् ॥ ७ [५. ६.] ॥ ता वा॒ऽएताः॑ । चतु॑स्त्रिंशद्व्याहृ॑तयो भवन्ति॒ प्राय॑श्चित्तयो॒ नामै॑ष वै प्र॒जाप॑- ति॒र्य॒ ए॒ष य॒ज्ञस्ता॑यते॒ यस्मा॑दि॒माः प्र॒जाः प्र॒जाता ऋ॒त्व्वे॒वाप्ये॑त॒र्ह्यनु प्र॒जाय॑न्ते ॥ १ ॥ अ॒ष्टौ वस॑वः । एकादश रु॒द्रा द्वाद॑शादित्या इ॒मेऽए॒व द्यावा॑पृथि॒वी त्रय॑स्त्रिंशौ त्रय॑स्त्रिंशद्वै दे॒वाः प्र॒जाप॑तिश्चतुस्त्रिं॒शस्तदे॑नं प्र॒जाप॑तिं करोत्ये॒तद्वाऽअ॒स्त्ये॒तदमृ॑- तं॒ यद्ध॒मृतं॒ तद्ध्यस्त्ये॒तद् तद्यन्मर्त्य॑ꣳ स ए॒ष प्र॒जाप॑तिः सर्वं॒ वै प्र॒जाप॑तिस्त॒द्देनं॑ प्र॒जाप॑तिं करोति तस्मा॑देताश्चतु॑स्त्रिंशद्व्याहृ॑तयो भवन्ति॒ प्राय॑श्चित्तयो॒ नाम॑ ॥ २ ॥ ता हैके॑ । य॒ज्ञत॒न्व इत्या॑चक्षते य॒ज्ञस्य ह्वेवैतानि॒ पर्वा॑णि स ए॒ष य॒ज्ञस्ता॑य- मान ए॒ता ए॒व दे॒वता भव॒न्नेति॑ ॥ ३ ॥ सा यदि॑ घ॒र्मधु॑ग्दुह्लेत् । अ॒न्यामु॒पसं॑- क्रामेयुः स यस्या॑मे॒वैनं॒ वेला॑यां पु॒रा पि॑न्व॒यन्ति॒ तद्दैवैनामुदीचीꣳ स्थापयेदग्रे॑ण वा शालां॒ प्राची॑म् ॥ ४ ॥ तयो॑ऽर॒त्नेऽअभितः॑ । पुरुषा॒ण्डꣳ शि॒खण्डा॒स्ये॑ऽउह्य॑ते तयो॒र्यद्द॑क्षि॒णं तस्मि॑न्नेताश्चतु॑स्त्रिंशतमाहु॒तीर्जुहुया॒द्येता॒वान्वै सर्वो॑ य॒ज्ञो या- वत्य ए॒ताश्चतु॑स्त्रिंशद्व्याहृ॑तयो भवन्ति॒ तद॒स्यां कृ॑त्स्न॒मेव सर्वं॑ य॒ज्ञं द॑धात्येषा ह्या- तो घ॒र्मं पिन्वत॒ऽऋषो तत्र॒ प्राय॑श्चित्तिः क्रियते ॥ ५ ॥ अथ यद्य॒ज्ञस्य॒ दुह्ले॑त् । त- त्समन्वीक्ष्य॑ जुहुयाद्दी॒क्षोप॒सत्स्वा॑हव॒नीये॒ प्रसूत॒ऽआ॑ग्नी॒ध्रे वि वाऽए॒तद्य॒ज्ञस्य॒ पर्व॑ स्रꣳसते॒ यद्दुह्लति॒ सा यैव तर्हि॒ तत्र दे॒वता भव॑ति तयै॒वैतद्भिषज्य॑ति॒ तया॒ संद॑- धाति ॥ ६॥ अथ यदि॑ स्कन्दे॒त् । तद॒द्भिरुप॒निन॑येद॒द्भिर्वाऽइ॒दꣳ सर्व॒माप्तꣳ सर्व॑स्यैवा- प्त्यै वै॒ष्ण॒ववारु॒ण्यऽर्चा यद्वाऽइ॒दं किं चार्च्छ॑ति वरु॑ण ए॒वेदꣳ सर्व॒मर्प॑यति॒ द्यौरो॑- जसा स्कभिता रोच॑ना॒ दिवि वी॒र्ये॑भिर्वि॒रित॒मा शवि॑ष्ठा । या पत्ये॑ते॒ऽअप्र॑तीता॒ सहो॑- भिर्विष्णू॒ऽअगन्वरुणा पूर्व॒हूतौविति॑ य॒ज्ञो वै विष्णु॑स्तस्यैतदार्च्छ॒ति वरु॑णो वाऽआ- र्पयिता तद्य॒स्या॑श्चैवैतद्दे॒वता॑या आर्च्छ॒ति या च दे॒वताऽर्प॑यति ताभ्या॑मे॒वैतदु॒भाभ्यां