शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 666, कुल 699 में से
संदर्भ में पढ़ेंभि॒षज्य॒त्याभ्या॑ꣳ संद॑धाति ॥७॥ अथो॑ऽअ॒भ्येव॑ मृ॒शेत् । देवा॒न्दिव॑मगन्म॒ज्ञस्ततो॑ मा द्रवि॑णमष्टु मनु॒ष्यान॒न्तरि॑क्षमगन्म॒ज्ञस्ततो॑ मा द्रवि॑णमष्टु पि॒तॄन्पृ॑थि॒वीमग॑न्म- ज्ञस्ततो॑ मा द्रवि॑णमष्टु यं कं च लो॒कमग॑न्म॒ज्ञस्ततो॑ मे भ॒द्रम॑भूदि॒त्येवैतदा॑ह ॥८॥ तद् स्मैतदा॑रु॒णिरा॑ह । किं स य॒ज्ञेत॒ यो य॒ज्ञस्य॒ व्यृ॑द्धा पापी॑यान्म॒न्येत॒ यज्ञ॑स्य वाऽऋ॒द्धं व्यृ॑द्धा श्रेयान्भवा॒मीत्ये॒तद्व स्म स त॒दभ्या॑ह॒ यदे॒ता आ॒शिष॒ उप॑गृह्णाति ॥ १ ॥ ब्राह्मणम् ॥ ८ [५. ७.] ॥ ॥ तद्य॒त्रैतत्त्रि॑रा॒त्रे स॒हस्रं॑ ददा॑ति । तदे॒षा सा॒हस्री क्रियते॒ स प्रथ॒मेऽह॑ꣳस्त्री॒णि च शता॑नि नयति त्रय॑स्त्रिꣳशतं चैवमे॒व द्विती॒येऽह॑ꣳस्त्री॒णि चैव शता॑नि नयति त्र॒- यस्त्रिꣳशतं चैवमे॒व तृती॒येऽह॑ꣳस्त्री॒णि चैव शता॑नि नयति त्रय॑स्त्रिꣳशतं चयै॒षा सा॒हस्र्य॑ति॒रिच्य॑ते ॥१॥ सा वै त्रिरू॑पा स्यादित्याहुः । ए॒तद्द्यास्यै॑ रू॒पतम॑मि॒वेति॑ रो॒हिणी॑ तु॒ त्वे॒वोप॑धस्ता स्यादे॒तद्द्वैवा॒स्यै रूप॑तममिव ॥२॥ सा स्यादप्रवीता । वाग्वाऽए॒षा निदा॑नेन यत्साहस्र्य्यातायाम्नी वाग्ध्यं वाग्यातायाम्न्यप्रवीता त- स्मादप्रवीता स्यात् ॥३॥ तां प्रथ॒मेऽह॑न्नयेत् । वाग्वाऽए॒षा निदा॑नेन यत्सा॒हस्री॑ तस्या ए॒तत्सहस्रं वाचः प्रजा॑तं पूर्व्वा॒ ह्येषैति॑ पश्चादेनां प्रजा॒तमन्वे॒त्युत्त॑मे वैनाम्- अह॑न्नयेत्पूर्व्वम॒ह्लास्यै प्रजा॑तमेति पश्चादेषान्त्वेति॒ सोऽए॒षा मीमा॒ꣳसोत्त॑मऽए॒वैना- मह॑न्नयेत्पूर्व्वम॒ह्लास्यै प्रजा॑तमेति पश्चादेषान्त्वेति ॥४॥ तामुत्त॑रेण ह॒विर्द्धाने । द- क्षिणे॒नाग्नीध्रं॒ द्रोण॑कलशमव॒घ्राप॑यति य॒ज्ञो वै द्रोणकलशो य॒ज्ञमे॒वैनामे॒तद्दर्श॑य- ति ॥५॥ आ॒जिघ्र॑ कलश॒म् । मह्या त्वा॑ विश॒न्त्विन्द॑व॒ इति॑ रिचिचा॒न इ॑व वा ऽए॒ष भ॑वति यः स॒हस्रं॑ ददा॑ति तमे॒वैतद्रिरिचा॒नं पुन॒राप्या॑ययति॒ यदा॒हाजि॑घ्र क- ल॒शं म॒ह्या त्वा विश॒न्त्विन्द॑व॒ इति॑ ॥६॥ पुन॒रूर्जा निवर्त्त॑स्वेति । तद्वै॒व रि॑रि- चा॒नं पुन॒राप्या॑ययति॒ यदा॑ह॒ पुन॒रूर्जा निवर्त्त॑स्वेति ॥७॥ सा नः॑ स॒हस्रं॑ धु॒क्ष्वेति॑ । त॒त्स॒हस्रे॑ण रिचिचा॒नं पुन॒राप्या॑ययति॒ यदा॑ह॒ सा नः॑ स॒हस्रं॑ धु॒क्ष्वेति॑ ॥८॥ ऊर्-