शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 674, कुल 699 में से
संदर्भ में पढ़ें६५६ शतपथ ब्राह्मण न्यै॒रेक॑धनैर॒भ्युन्नीय॑ यथाप्र॒भावं॑ प्रचरेयुः स यद्यनी॑तासु॒ दक्षि॑णासु कलशो दीर्ये॑त तत्रा॒न्येका॑मेव॒ गां द॑द्यादथावभृ॒थादु॑वोदे॒त्य पुनर्दी॑क्षेत पुनर्य॒ज्ञो ह्ये॑व तत्र प्राय॑- श्चित्ति॒रिति॒ नु कलशदिराम् ॥७॥ अथ सोमा॑तिरिक्तानाम् । यद्य॒ग्निष्टोम॑मतिरि- च्ये॑त पूत॒भृत ऽव्वोक्थ्यं॑ गृह्णीया॒द्यद्यु॑क्थ्यमतिरि॒च्येत॑ षोड॒शिन॑मुपेयु॒र्यदि॑ षोड॒शि- नम॑तिरि॒च्येत॒ रात्रि॑मुपेयु॒र्यदि॒ रात्रि॑मतिरि॒च्येता॑हूरा॒त्रमुपे॑यु॒र्नैह्वेवातीरे॒कोऽस्ति॑ ॥८॥ ब्रा॒ह्म॒णम् ॥२ [५.१०.] ॥ पञ्चमोऽध्यायः [२१.] ॥॥ प्र॒जाप॑तिर्वाऽए॒ष यदं॒शुः॑ । सोऽस्यै॒ष आ॒त्मैवात्मा ह्य॑यं प्रजा॒पति॒स्तद॒स्यैत॑मा- त्मानं॑ कुर्व्वन्ति॒ यन्नैतं॑ गृह्णन्ति॒ तस्मि॑न्ने॒तान्प्रा॒णान्द॑धाति यथा॑ऽयथे॒ते प्रा॒णा ग्रहा॑ व्या॒ख्याय॑न्ते॒ स ह॒ सर्व्व॑तनूरेव यज॑मानोऽमु॒ष्मिंल्लो॒के सम्भ॑वति ॥१॥ तदा॑रम्भ- णवत् । यन्नैतं गृह्णीयु॒र्यैत॑दनारम्भण॒मिव॒ यन्नैतं॒ न गृह्णन्ति॒ तस्मा॒द्वाऽअं॒शुं गृ॑- ह्णाति॑ ॥२॥ तं वाऽऔदुम्ब॒रेण॒ पात्रे॑ण गृह्णाति । प्र॒जाप॑तिर्वा ए॒ष प्रा॑जाप॒त्य उ॑दुम्बर॒स्तस्मा॒दौदु॑म्बरेण॒ पात्रे॑ण गृह्णाति ॥३॥ तं वै च॑तुःस्रक्तिना॒ पात्रे॑ण गृह्णा॑- ति । त्रयो वाऽइ॒मे लो॒कास्तदि॒माने॑व लो॒कांस्ति॒सृभिरा॑प्नोति प्र॒जाप॑तिर्वाऽअ॒ती- मांल्लो॒कांश्चतु॑र्थस्तत्प्र॒जाप॑तिमे॒व चतु॑र्थ्याप्नोति॒ तस्मा॑च्चतुःस्रक्तिना॒ पात्रे॑ण गृह्णाति ॥४॥ स वै तूष्णीमेव ग्रावा॑णमाद॒त्ते । तूष्णी॒मंशु॒न्निव॑पति तूष्णी॒मप॑ उपसृजति तूष्णी॒मुन्नीय॑ सकृद॒भिषु॑णोति तूष्णी॒मन॑पानन्जुहोति॒ तदेनं॑ प्र॒जाप॑तिं करोति ॥५॥ अथास्या॑ऽछ हिर॒ण्यं बद्धं भ॑वति । तदुप॑जिघ्रति स यद्देवात्र क्षणु॒ते वा वि वा॑ लिश॒तेऽमृ॑त॒मायु॒र्हिर॑ण्यं॒ तदमृ॑त॒मायु॑रा॒त्मन्ध॑त्ते ॥६॥ तडु॑ होवाच राम औ॑- पतस्विनिः । काममेव प्राण्यात्काममुदन्याद्यद्वै तूष्णीं जुहोति तद्देवैनं प्रजापतिं करोतीति ॥७॥ अथास्या॑ऽछ हिर॒ण्यं बद्धं भ॑वति । तदुप॑जिघ्रति स यद्देवात्र क्षणु- ते॒ वा वि॑ वा लिश॒तेऽमृ॑त॒मायु॒र्हिर॑ण्यं॒ तदमृ॑त॒मायु॑रा॒त्मन्ध॑त्ते ॥८॥ तडु॑ होवाच बुडिल आश्वतराश्विः । उद्यत्यैव गृह्णीयान्नाभिषुणयादभिषुण्वन्ति वाऽअन्यान्भ्यो