भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 676, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 676

६५८ शतपथ ब्राह्मण

दे॒वता॑भ्यस्त॒दन्य॒था ततः॑ करोति॒ यथा॑ चान्याभ्यो॑ दे॒वता॑भ्योऽथ॒ षड्ऋ॒तिति॒ तद्दे॒- वास्या॑भिषु॒तं भवतीति॑ ॥ ९॥ तदु॑ होवाच याज्ञवल्क्यः॑ । अ॒भ्ये॑व॒ षुण्णु॒यान्न सोम॒ इन्द्र॑मसुतो ममाद॒ नाब्र॑ह्माणो मघ॒वान॑ꣳ सु॒तास॒ इत्यृ॑षिणा॒भ्यनू॑क्तं॒ न वाऽअन्य- स्मै॒ कस्मै॑ चन॒ दे॒वता॑यै सकृद॒भिषु॑णोति॒ तद॒न्यथा॑ ततः॑ करोति॒ यथा॑ चान्याभ्यो॒ दे॒वता॑भ्यस्तस्माद॒भ्ये॑व॒ षुणुया॒दिति॑ ॥ १०॥ तस्य॒ द्वाद॑श प्रथम॒गर्भाः॑ । प॒ष्ठौ॒ह्यो दक्षि॑णा॒ द्वाद॑श॒ वै मासाः॑ संवत्सर॒स्य सं॑वत्स॒रः प्र॒जाप॑तिः प्रजा॒पति॑र॒ग्निस्तदे॑नं प्र॒जाप॑तिं करोति ॥ ११॥ ॥ शतम् २८०० ॥ ॥ तासां॒ द्वाद॑श॒ गर्भाः॑ । ताश्चतु॑र्विꣳशति- श्चतु॑र्विꣳशति॒र्वै सं॑वत्सर॒स्यार्ध॑मासाः॒ संव॑त्सरः प्रजाप॑तिः प्र॒जाप॑ति॒र॒ग्निस्तदे॑नं प्र- जाप॑तिं करोति ॥ १२॥ तदु॑ ह कौकूस्तः॑ । चतु॑र्विꣳशतिमे॒वैताः॑ प्रथम॒गर्भाः॑ प॒ष्ठौ- हीर्दक्षि॑णा ददावृष॒भं प॑ञ्चवि॒ꣳश॒ꣳ हिर॑ण्यमे॒तदु॑ ह स॒ ददौ॑ ॥ १३॥ स वा॒ऽए॒ष न सर्व॑स्येव ग्रही॒तव्यः॑ । आत्मा॒ ह्या॑स्यै॒ष यो॒ न्वे॑व॒ ज्ञातस्त॒स्य ग्र॑हीत॒व्यो यो॑ वा- ऽस्य प्रि॒यः स्याद्यो॑ वा॒नूचा॒नोऽनू॒क्तेनै॑नं प्राप्नु॒यात् ॥ १४॥ स॒त्रे ग्र॑हीत॒व्यः॑ । सर्वं॒ वै स॒त्रꣳ सर्व॑मे॒ष सर्व॑वेद॒से ग्र॑हीत॒व्यः सर्वं॒ वै सर्व॑वेद॒सꣳ सर्व॑मे॒ष वि॒श्वजि॑ति सर्व॑पृष्ठे ग्रही॒तव्यः॒ सर्वं॒ वै वि॒श्वजि॑त्स॒र्वपृ॑ष्ठः॒ सर्व॑मे॒ष वाज॑पेये राजसू॒ये ग्र॑हीत॒व्यः॒ सर्वꣳ॑ हि तत्स॒त्रे ग्र॑हीत॒व्यः सर्वं॒ वै स॒त्रꣳ सर्व॑मे॒ष ए॒तानि॒ ग्रह॑णानि ॥ १५॥ ब्राह्मणम् ॥ ३ [६. १.] ॥ ॥ ए॒तं वा॒ऽए॒ते गृ॒ह्वन्ति॑ । षड्भि॑र्मा॒सैरे॒ष त॑पति॒ ये सं॑वत्स॒रमास॑ते॒ तदु॒च्यत ऽए॒व साम॑तो यथै॒तस्य रू॒पं क्रिय॒तऽउ॒च्यत॒ऽऋक्तो॒ऽथैत॑दे॒व यजु॑ष्टः पुरश्चरणातो य- देत॑द् गृ॒ह्वन्त्ये॒तेनो॑ऽए॒वैनं॑ गृह्वन्ति॒ ॥ १॥ अथातो गृ॒ह्णात्ये॑व । उ॒दु त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् । उपया॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा- जा॒यैष ते॒ योनिः॒ सूर्या॑य त्वा भ्राजा॒येति॑ ॥ २॥ ब्राह्मणम् ॥ ४ [६. २.] ॥ ॥ अथातः पशुबन्धनस्यैव । पञ्चैकादशिन्यैवेयात्स आग्नियं प्रथमं पशुमालभतेऽथ