भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 68, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 68

५० शतपथ ब्राह्मण भिरिति॒ सोऽसावेव॒ बन्धुः॑ ॥ २३॥ ॥ शतम् २००॥ ॥ अथाऽञ्जलिताभ्यां॑ पवित्रा- भ्याम् । प्रोक्ष॑णीरुत्पुनाति सवि॒तुर्व्वः॑ प्रसवऽउत्पु॑-- बन्धुः॑ ॥ २४॥ तद्यदाऽञ्जलिता- भ्यां॑ पवित्राभ्याम् । प्रोक्ष॑णीरुत्पुनाति॒ तद॒प्सु पयो॒ दधाति॒ तदि॒दम॒प्सु पयो॒ हितमि॒दꣳ हि॒ यदा॒ वर्ष॑त्यथो॒षधयो जायन्त॒ऽओष॑धीर्जग्ध्वापः॑ पीत्वा॒ तत एष रसः॒ संभवति त- स्मादु॒ रस॒स्यो चैव॒ सर्व॑त्वाय ॥ २५॥ अथाऽज्यमवे॑क्षते । तद्धैके यज्ञमानमवख्या॑पयन्ति तदु॒ होवाच याज्ञवल्क्यः कथं नु न॒ स्वयमध्व॒र्युर्व्वो भव॑ति कथ॒ꣳ स्वयं नान्वा॒ङ्य॑- त्र भूयस्य-इवाशिषः॑ क्रियन्त॒ कथं॒ न्वेषा॒मत्रैव श्रद्धा भवतीति॒ यां वै कां च य॒ज्ञऽऋ- त्विज॒ आशिष॒माशा॑सते यज॑मानस्यैव सा तस्मादध्व॒र्युुरेवावे॑क्षेत ॥ २६॥ सोऽवे॑क्षते । सत्यं॒ वै चक्षुः॑ सत्य॒ꣳ हि वै चक्षु॒स्तस्मा॒द्यदिदानीं द्वौ वि॒वद॑मानावियाताम॒हम॒दर्शम॒- हमश्रौष॒मिति॒ य ए॒व ब्रूयाद॒हम॒दर्श॒मिति॒ तस्माऽए॒व श्र॒द्दध्याम॒ तत्सत्येनैवैतत्सम॑र्धय- ति ॥ २७॥ सोऽवे॑क्षते । तेजो॑ऽसि शुक्रम॒स्यमृत॑मसीति स ए॒ष सत्य॒ एव॒ मन्त्रस्तेजो॒ ह्येतच्छुक्रꣳ ह्येतदमृत॒ꣳ ह्येतत्तत्सत्येनैवैतत्सम॑र्धयति ॥ २८॥ ब्राह्मणम् ॥ ४. [३. १.] ॥ पुरु॑षो वै य॒ज्ञः । पुरु॑षस्तेन य॒ज्ञो यदेनं॑ पुरु॑षस्तनु॒तऽए॒ष वै ताय॑मानो यावा॑नेव पुरु॑षस्तावा॑न्विधीयते॒ तस्मात्पुरुषो य॒ज्ञः ॥ १॥ तस्ये॒यमेव॒ जुहूः॑ । दियमुपभृदा॒त्मेव॒ ध्रुवा तद्यथाऽऽत्मन् ए॒वेमानि॒ सर्वाण्यङ्गानि॒ प्रभव॑न्ति॒ तस्मादु ध्रुवाया॒ एव॒ सर्वे॑ य॒ज्ञाः प्रभव॑न्ति ॥ २॥ प्राण॒ एव स्रुवः॑ । सोऽयं प्राणः॒ सर्वा- ण्य॒ङ्गान्यनु॒संच॑रति॒ तस्मादु स्रुवः॒ सर्वा॒ अनु॒ स्रुचः॒ संच॑रति ॥ ३॥ तस्यासावेव॒ द्यौर्जुहूः॑ । अथे॒दमुन्तरिक्षमुपभृदियमेव॒ ध्रुवा तद्यथाऽस्यां॑ ए॒वेमे सर्वे॑ लोकाः प्रभव॑न्ति॒ तस्मादु ध्रुवाया॒ एव॒ सर्वे॑ य॒ज्ञाः प्रभव॑न्ति ॥ ४॥ अयमे॒व स्रुवो॒ यो- ऽयं पव॑ते । सोऽयमिमा॑न्त्सर्वांल्लोका॑ननुपव॑ते॒ तस्मादु स्रुवः॒ सर्वा॒ अनु॒ स्रुचः॒ संच॑रति ॥ ५॥ स ए॒ष य॒ज्ञस्ताय॑मानो । दे॒वेभ्यस्तायत॒ऽऋतुभ्यश्छन्दोभ्यो॒ यद्ध॒वि- र्न्निरवा॑पां यत्सोमो॒ राजा॒ यत्पुरो॒डाशास्तत्तदादिश्य गृ॒ह्यत्यमुष्मै॑ त्वा जुष्टं॑ गृह्णामी-