शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 686, कुल 699 में से
संदर्भ में पढ़ें६६८ शतपथ ब्राह्मण षा साम । योषामृक्ठ सदस्यूध्येति तस्मान्मिथुनादिन्द्रो जातस्तेजसो वै तत्तेजो जातं यदृचश्च साम्नश्चेन्द्र इन्द्र इति ह्येतमाचक्षते य एष तपति ॥ ११॥ अथैतद्- षा सोमः । योषा अपो हविर्धानेऽध्येति तस्मान्मिथुनाच्चन्द्रमा जातो ऽन्नाद्धि तदन्नं जातं यदृचश्च सोमाच्च चन्द्रमाश्चन्द्रमा ह्येतस्यान्नं य एष तपति तद्यजमानं चैवै- तज्जनयत्यन्नाद्यं चास्मै जनयत्यृचश्च साम्नश्च यजमानं जनयत्यृचश्च सोमाच्चान्ना- दमन्नाद्यम् ॥ १२॥ यजुषा ह वै देवाः । अग्रे यज्ञं तेनिरेऽथर्चाय साम्ना तदिद- मप्येतर्हि यजुषैवाग्रे यज्ञं तन्वतेऽथर्चाय साम्ना यज्ञो ह वै नामैतद्यद्यजूंषि ॥ १३॥ यत्र वै देवाः । इमा विद्याः कामान्दुदुहिरे तद् यजुर्विद्यैव भूयिष्ठान्कामा- न्दुदुहे सा निर्धीततमेवास सा नेतरे विद्ये प्रत्यास नान्तरिक्षलोक इतरौ लो- कौ प्रत्यास ॥ १४॥ ते देवा अकामयन्त । कथं न्वियं विद्येतरे विद्ये प्रतिस्यात्क- थमन्तरिक्षलोक इतरौ लोकौ प्रतिस्यादिति ॥ १५ ॥ ते होचुः । उपाꣳश्वेव यजु- र्भिश्चराम तत एषा विद्येतरे विद्ये प्रतिभविष्यति ततोऽन्तरिक्षलोक इतरौ लोकौ प्रतिभविष्यतीति ॥ १६॥ तैरुपाꣳश्वचरन् । आप्याययन्त्येवैनानि तत्तत एषा विद्येतरे विद्ये प्रत्यासीत्ततोऽन्तरिक्षलोक इतरौ लोकौ प्रत्यासीत्तस्माद्यजूंषि निरुक्तानि सन्त्यनिरुक्तानि तस्मादयमन्तरिक्षलोको निरुक्तः सन्ननिरुक्तः ॥ १७॥ स य उपाꣳशु यजुर्भिश्चरति । आप्याययत्येवैनानि स तान्येनमापीनान्याप्यायय- न्त्यथ य उच्चैश्चरति बृꣳहयत्येवैनानि स तान्येनꣳ बृꣳहाणि बृꣳहयन्ति ॥ १८॥ वा- ग्वेवर्क् च सामानि च । मन एव यजूंषि स यऽऋचा च साम्ना च चरन्ति वाचि भवन्त्यथ ये यजुषा चरन्ति मनस्ते भवन्ति तस्मान्नानभिप्रेषितमध्वर्युणा किं चन क्रियते यदैवाध्वर्युराहानुब्रूहि यजेत्यथैव ते कुर्वन्ति यऽऋचा कुर्वन्ति यदैवाध्वर्यु- राह सोमः पवताऽऽपावर्तध्वमित्यथैव ते कुर्वन्ति ये साम्ना कुर्वन्ति नो ह्यनभि- गतं मनसा वाग्वदति ॥ १९॥ तद्वाऽएतन्मनोऽध्वर्युः । पुर-इवैव चरति तस्मात्यु-