भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 688, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 688

रश्च॒रणं॒ नाम पु॒र-इव ह वै श्रि॒या यश॑सा भवति॒ य ए॒वमे॒तद्वेद् ॥ २०॥ तद्वाऽए- त॒देव पुरश्च॒रणम् । य॑ ए॒ष तप॑ति स ए॒तस्यैवावृता चरेद्ग्रहं गृ॒ह्लीयात्तस्यै॒वावृ॒तम- न्वाव॑र्तेत॒ प्रति॑गी॒र्येतस्यै॒वावृ॒तमन्वाव॑र्तेत॒ यदृचं ब्रू॒वैतस्यै॒वावृ॒तमन्वाव॑र्तेत॒ स है॒ष भर्ता स यो है॒वं वि॒द्वानित॒स्यावृ॒ता श॒क्नोति॒ चरि॒तुं श॒क्नोति॒ हैव॒ भार्या- न्भर्तुम् ॥ २१॥ ब्राह्मणम् ॥ १ [६. ७.] ॥ या वै दीक्षा सा निष्कत् । तत्सत्त्रं तस्मादेनानासत्सङ्गत्याऽऽहुरथ यत्ततो यज्ञं तन्वते तद्यन्ति तन्नयति यो नेता भवति स तस्मादेनान्यन्तीत्याहुः ॥ १॥ या ह दीक्षा सा निष्कत् । तत्सत्त्रं तदयनं तत्सत्त्रायणमथ यत्ततो यज्ञस्योदृचं गच्छन्त्यो- त्थि तदुत्थानं तस्मादेनानुदस्थुरित्याहुरिति नु पुरस्ताददनम् ॥ २॥ अथ दीक्षि- ष्यमाणा समवस्यन्ति । ते यद्यग्निं चेष्यमाणा भवन्त्यरण्योर्वाऽग्नीन्समारोप्योपस- मायन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वापसमाधायोद्धृत्याहव- नीयं यजन्तऽएतेन प्राजापत्येन पशुना ॥ ३॥ तस्य शिरो निदधति । तेषां यदि तदहरेवैतेषां न समेत्यरणिष्वेवाग्नीत्समारोप्य यथायथं विपरेत्य जुह्वति ॥ ४॥ अथ यदहरेषां दीक्षा समेति । अरणिष्वेवाग्नीत्समारोप्योपसमायन्ति यत्र दीक्षिष्यमाणा भवन्ति गृहपतिरेव प्रथमो मन्यते मध्यं प्रति शालाया अथेतरेषामर्धा दक्षिणत उपविशन्त्यर्धा उत्तरतो मथित्वापसमाधायैकैकमेवोल्मुकमादायोपसमायन्ति गृह- पतेर्गार्हपत्यं गृहपतेरेव गार्हपत्यादुद्धृत्याहवनीयं दीक्षन्ते तेषाꣳ समान् आह- वनीयो भवति नाना गार्हपत्या दीक्षोपसत्सु ॥ ५॥ अथ यदहरेषां क्रयो भवति । तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनीनां काले प्राच्यः पत्न्य उपसमायन्ति प्रजह्वत्येतानपरानग्नीन्कृतऽएव वैसर्जने ॥ ६॥ राजानं प्रणयति । उद्यत एवेष आग्नीध्रीयोऽग्निर्भवत्यथैतऽएकैकमेवोल्मुकमादाय यथा- धिष्ण्यं वि॒परा॑यन्ति॒ तैरेव तेषामुल्मुकैः प्रध्नन्तीति ह स्माह याज्ञवल्क्यो ये तथा