शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 72, कुल 699 में से
संदर्भ में पढ़ेंभृता॒ नु जु॑होतीति॑ स॒ यद्धो॑पभृता जुहुयात्पृ॑थग्ध्ये॒माः प्र॒जाः स्युर्नैवा॑त्ता स्यान्नाद्यः॑ स्या॒द्यद्य॒त्तज्जु॑ह्वे॒व समा॒नीय॑ जु॒होति॒ तस्मा॑दि॒मा विशः॑ क्षत्रि॒याय॒ बलिं॑ हरन्त्या॒- ड्गु॑पभृति॒ गृह्णा॑ति॒ तस्मा॑ड् क्षत्रि॒यस्यै॒व वशे॑ सति वैश्यं॑ प॒शव॑ उपतिष्ठन्तेऽथ॒ यत्त- ज्जु॒ह्वे॑व समा॒नीय॑ जु॒होति॒ तस्माद्यदोत क्षत्रि॑यः काम॑यते॒ऽथा॒ह वैश्यं॒ मयि॑ गृ॒हे परो॒ निहि॑तं तदाह॒रेति॒ तं जि॑नाति॒ सय॑था व॒त्कामय॑ते तथा॒ सचतऽऋ॒तेना॑ रु॒- तद्वीर्ये॑ण ॥ १५॥ तानि॒ वाऽए॒तानि॑ । छन्दो॑भ्य॒ आऽज्या॑नि गृह्यन्ते स॒ यच्च॒तुर्जुह्वां गृह्णा॑ति गायत्र्यै॒ तद्गृह्णात्य॒ यद॒ष्टौ कृत्व॒ उप॑भृति गृह्णा॑ति त्रि॒ष्टुब्जग॒तीभ्यां॒ तद्गृह्णा- त्यथ॒ यच्च॒तुर्ध्रुवायां॑ गृह्णा॒त्यनु॑ष्टुभे॒ तद्गृह्णा॑ति वाग्वा॒ऽअनु॑ष्टुब्वाचो वा॒ऽइदं॒ सर्वं॒ प्रभव॑ति॒ तस्मा॑द्ध्रुवाया ए॒व सर्वो॑ य॒ज्ञः प्रभव॑तीयं वा॒ऽअनु॑ष्टुबस्यै वा॒ऽइदं॒ सर्वं॒ प्रभव॑ति॒ तस्मा॑द्ध्रुवाया ए॒व सर्वो॑ य॒ज्ञः प्रभव॑ति ॥ १६॥ स गृह्णाति । धाम॑ ना- मासि प्रियं दे॒वाना॒मित्ये॒तद्वै दे॒वानां॑ प्रि॒यत॑मं॒ धाम॒ यदाज्यं॒ तस्मा॑दाह॒ धाम॒ नामा॑- सि प्रि॒यं दे॒वाना॒मित्य॒नाधृ॑ष्टं देव॒यज॑नमसीति व॒ज्रो व्याज्यं॒ तस्मा॑दाहा॒नाधृ॑ष्टं देव॒- यज॑नमसीति ॥ १७॥ स ए॒तेन॒ यजु॑षा । स॒कृज्जुह्वां गृह्णा॑ति त्रिस्तूष्णी॑मे॒तेनैव॒ यजु॑- षा स॒कृदुप॑भृति गृह्णा॑ति स॒प्त कृत्व॒स्तूष्णी॑मे॒तेनैव॒ यजु॑षा स॒कृद्ध्रुवायां॑ गृह्णा॑ति त्रि॒- स्तूष्णीं तदा॑ञ्जि॒स्त्रिरेव यजु॑षा गृह्णीया॒त्विद्धि॑ य॒ज्ञ इति॒ तदु॒ नु सकृ॑त्स॒कृदे॒वाञ्जी॑- त्वेव त्रिर्गृहीतं संपद्यते ॥ १८॥ ब्राह्मणम् ॥ ५ [३. २]॥ प्रोक्ष॑णीर॒र्धमाद॑त्ते । स इ॒ध्ममे॒वाग्रे॒ प्रोक्ष॑ति कृ॒ष्णो॒ऽस्याखरे॒ष्ठो॒ऽग्नये॑ त्वा॒ जुष्टं॑ प्रोक्षा॒मीति॒ तन्मेध्य॑मे॒वैतद॒ग्नये॑ करोति ॥ १॥ अथ वेदिं॒ प्रोक्ष॑ति । वेदि॑रसि ब॒र्हिषे॑ त्वा जुष्टां॒ प्रोक्षा॑मि तन्मे॒ध्यामे॒वैतद्व॒र्हिषे॑ करोति ॥ २॥ अथास्मै॑ ब॒र्हिः प्रयच्छ॑ति । तत्पुर॒स्ताद्ग्रन्ध्यासा॒दय॑ति तत्प्रोक्ष॑ति बर्हिरसि सुसम्भ्या॑स्त्वा जुष्टं प्रोक्षा॑मि तन्मे॒ध्य॑मे- वैतत्सुसम्भ्यः॑ करोति ॥ ३॥ अथ याः प्रोक्ष॑ण्यः परि॒शिष्य॑न्ते । ताभि॒रोष॑धीनां मू- लान्युप॒निन॒यत्यदि॑त्यै॒ व्युन्द॑नमसीतीयं॒ वै पृ॑थि॒व्यदि॑तिस्तद॒स्या ए॒वैतदोष॑धीनां