शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 78, कुल 699 में से
संदर्भ में पढ़ें६० शतपथ ब्राह्मण स्त्स्मादेतेषां वृ॒क्षाणां भवन्ति ॥ २०॥ ब्राह्मणम् ॥ ६ [३.३.]॥ ॥ द्वितीयः प्रपाठ- कः ॥ ॥ कण्डिकासंख्या १२२ ॥ ॥ ते वाऽआर्द्राः स्युः । एतद्ध्येषां जीव॑नेन॒ स॒तेजस॒ एतेन॒ वी॒र्यवन्तस्तस्मादार्द्राः स्युः ॥ १॥ स॒ मध्यममेवाग्रे । परिधिं परिदधाति गन्धर्वस्त्वा विश्वावसुः॒ परि॑दधातु विश्व॒स्यारि॑ष्ट्यै य॒जमानस्य परि॒धिर॒स्य॒ग्निरिड॒ ईडित इति॑ ॥ २॥ अथ॒ दक्षिणं परि॑- दधाति । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो विश्व॒स्यारि॑ष्ट्यै यजमानस्य परि॒धिर॒स्य॒ग्निरिड॒ ईडित इति॑ ॥ ३॥ अयो॒त्तरं परिदधाति । मित्रावरुणौ वोत्तरतः॒ परि॑धत्तां ध्रुवेण॒ ध॒र्मणा विश्व॒स्यारि॑ष्ट्यै यजमानस्य परि॒धिर॒स्य॒ग्निरिड॒ ईडित इत्यग्नयो॒ हि त्स्मा- दाहा॒ग्निरिड॒ ईडित इति॑ ॥ ४॥ अथ स॒मिधमभ्यादधाति । स॒ मध्यममवापि परिधि- मुपस्पृशति तेनैतानग्रे॒ स॒मिन्धेऽथाग्रावभ्यादधाति तेनो॒ऽअग्निं प्रत्य॒क्तं स॒मिन्धे ॥ ५॥ सोऽभ्या॑दधाति । वीतिहोत्रं त्वा कवे द्युमन्तं॒ समिधीमहि । अग्ने बृ॒हन्त- मध्वर॒ऽइत्येतया गायत्र्या गायत्रीमेवैतत्त्समिन्धे सा गायत्री समिद्धान्य॒ानि छन्दां॑- सि स॒मिन्धे छन्दां॑सि समिद्धानि देवेभ्यो यज्ञं वहन्ति ॥ ६॥ अथ यां द्वितीयाᳪ स॒मिध- मभ्यादधाति । वस॒न्तमिव तथा स॒मिन्धे स॒ वस॒न्तः स॒मिद्धोऽन्या॒नृतूंत्स॒मिन्ध्यृतवः स- मिद्धाः प्र॒जाश्च प्र॒जनयन्त्योषधीश्च पचन्ति सोऽभ्यादधाति समिदसीति समिद्धि वस॒न्तः ॥ ७॥ अथाभ्याधाय जपति । सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्याऽइति गुप्तिं वा- ऽअभितः परिधयो भवन्त्येतत्सूर्यमेव॒ पुरस्ताद्गोप्तारं करोति ने॒त्पुरस्तान्नाष्ट्रा॒ रक्षां- स्यभ्यवचरान्निति सूर्यो हि नाष्ट्राणाᳪ रक्षसामपहन्ता ॥ ८॥ अथ यमिवामूं॒ तृती- याᳪ स॒मिधमभ्यादधाति । अनूयाजेषु ब्राह्मणमेव तथा स॒मिन्धे स ब्राह्मणः स॒मि- द्धो दे॒वेभ्यो यज्ञं वहति ॥ ९॥ अथ स्तीर्णां वे॒दिमुपावम॑र्ते । स द्वे तृ॒णेऽआदाय ति॒रश्ची॒ निद॑धाति सवितुर्बा॒हू स्थ इत्ययं वै स्तूपः प्रस्तरोऽथास्यैते भुवाविव ति- र॒श्ची॒ निद॑धाति तस्मादिमे तिर॒ञ्चौ भुवौ क्षत्रं वै प्रस्तरो विशोऽनतरं बर्हि क्ष-