शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 80, कुल 699 में से
संदर्भ में पढ़ें६२ शतपथ ब्राह्मण
त्र॑स्य चैव॒ विश॑श्च॒ विधृ॑त्यै॒ तस्मा॑त्ति॒रश्ची निद॑धाति॒ तस्मा॑दि॒व विधृ॑ती॒ नाम॑ ॥१०॥ तत्प्र॑स्तर॒ꣳ स्तृ॒णाति॑ । ऊ॒र्णाम्रद॑सं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॒ इति॑ सा॒धुं दे॒वेभ्य॒ इत्ये॒वैतदा॑ह॒ यदा॒होर्णाम्रद॑सं॒ वेति॑ स्वास॒स्थं दे॒वेभ्य॒ इति॑ स्वास॒दं दे॒वेभ्य॒ इत्ये॒वैत- दा॒ह ॥११॥ तम॒भिनिद॑धाति । आ वा॒ वस॑वो रु॒द्रा आ॑दित्याः सदन्त्वित्ये॒ते वै त्रय॑ दे॒वा यद्वस॑वो रु॒द्रा आ॑दित्या॒ एते वासीदन्वित्ये॒वैतदा॑हाभिनि॒क्षि॑त ए॒व स॒- व्येन॑ पा॒णिना॑ भवति ॥१२॥ अथ दक्षि॑णेन जु॒हूँ प्रति॑गृह्णाति । नेदि॒ह पु॒रा ना- ष्ट्रा रक्षा॒ꣳस्यावि॑शानि॒ति ब्राह्म॑णो हि॒ रक्ष॑सामप॒हन्ता॒ तस्मा॑दभिनि॒क्षित॑ ए॒व स॒- व्येन॑ पा॒णिना॑ भवति ॥१३॥ अथ जु॒हूँ प्रति॑गृह्णाति । घृ॒ताच्या॑सि जु॒हूर्नाम्नेति॑ घृ॒- ताची॒ हि जु॒हूर्हि॑ नाम्ना॒ सेदं प्रिये॑ण॒ धाम्ना॒ प्रियꣳ॒ सद॒ आसी॑देति घृताच्यस्युपभृ॒- द्नाम्नेत्युपभृ॑तं घृताची॒ ह्युपभृ॑द्धि नाम्ना॒ सेदं॒ प्रिये॑ण॒ धाम्ना॒ प्रियꣳ॒ सद॒ आसी॑देति घृताच्य॑सि ध्रु॒वा नाम्नेति॑ ध्रु॒वां घृताची॒ हि ध्रु॒वा हि नाम्ना॒ सेदं॒ प्रिये॑ण॒ धाम्ना॒ प्रियꣳ॒ सद॒ आसी॑देति॒ प्रिये॑ण॒ धाम्ना॒ प्रियꣳ॒ सद॒ आसी॑देति॒ यदन्यद॑विः ॥१४॥ स वाऽउप॑रि जु॒हूम॑ सादयति । अथ इत॑राः स्रुचः॑ क्ष॒त्रं वै जु॒हूर्विश॑ इत॑राः स्रुचः॑ क्ष॒- त्रमे॒वैतद्विश॑ उत्त॑रं करोति॒ तस्मा॑दु॒पर्यासी॑नं क्ष॒त्रियमध॒स्तादि॒माः प्र॒जा उ॒पास॑ते त- स्मा॑दु॒परि॑ जु॒हूम॑ साद॒यत्यथ इत॑राः स्रुचः॑ ॥१५॥ सोऽभि॒मृश॑ति । ध्रुवा॒ अस॑दन्निति ध्रुवा॒ ह्यसद॑न्नृत॒स्य योना॒विति॑ य॒ज्ञो वाऽऋ॒तस्य॒ योनि॑र्य॒ज्ञे ह्यसद॑ꣳस्ता॒ विष्णो॑ पा॒हि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिमिति तद्यज॑मानमाह॒ पाहि॒ मां य॒ज्ञन्य॑मिति॒ तद्यात्मा॑नं य॒ज्ञान्नान्त॑रेति य॒ज्ञो वै वि॒ष्णुस्तद्य॒ज्ञायै॒वैतत्सर्वं॑ परि॒ददा॑ति गु॒प्त्यै॒ तस्मा॑दाह॒ ता वि- ष्णो पाहीति ॥१६॥ ब्राह्मणम् ॥१ [४.]॥ इन्धे॑ ह वा॒ एतद॑ध्व॒र्युः । इन्धे॒नाग्निं॒ तस्मा॒दिध्मो॒ नाम॒ समि॑न्धे सामिधे॒नीभि॒- र्हेता॒ तस्मा॒त्सामिधे॒न्यो नाम॑ ॥१॥ स आह॑ । अ॒ग्नये॒ समि॑ध्यमानायानुब्रूहीत्य॒ग्नये॑ ह्ये॑तत्समिध्यमानायान्वाह॑ ॥२॥ तदु॒ हैक॑ऽआहुः । अ॒ग्नये॒ समिध्य॑मानाय होत॒र्-