शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 90, कुल 699 में से
संदर्भ में पढ़ें७२ शतपथ ब्राह्मण धे॒नं पद॒ꣳ समै॑वेनं॒ तेने॒न्धे वी॒र्य॑मेवास्मिन्दधाति ॥ २५॥ ॥ शतम ३०० ॥ ॥ बृह॒- च्छोचा॒ यवि॑ष्ठ्येति । बृ॒हद्ध्येष शोच॑ति॒ समि॑द्धो॒ यवि॑ष्ठ्येति॒ यवि॑ष्ठो॒ ह्य॒ग्निर॒स्तस्मा- दा॒ह यवि॑ष्ठ्येति॒ सैषैतमे॒व लो॒कम॑भ्यनू॒क्तान्त॑रिक्षलो॒कमे॒व तस्मा॑दाग्ने॒यी स॒त्यनि॑रु- क्तानिरु॒क्तो ह्येष लो॒क ए॒तमे॒वैतया लो॒कं ज॑यति॒ यस्यै॒वं वि॒दुष ए॒तामन्वा॒हुः ॥ २६॥ स नः॑ पृ॒थु श्रवाय्य॒मिति॑ । अ॒दो वै पृ॒थु यस्मि॑न्दे॒वा ए॒तच्छ्रवाय्यं॒ यस्मि॑न्दे॒वा अ॒हा दे॒व वि॑वाससीत्य॒ह दे॒व वि॑वासस्ये॒तन्नो॑ गमये॒त्येवैतदा॑ह ॥ २७॥ बृ॒हद्र॑ये सु॒- वीर्य॒मिति॑ । अ॒दो वै बृ॒हद्यस्मि॑न्दे॒वा ए॒तत्सु॒वीर्यं॒ यस्मि॑न्दे॒वाः सैषैतमे॒व लो॒कम॑- भ्यनू॒क्ता दि॒वमे॒वैतमे॒वैतया लो॒कं जय॑ति॒ यस्यै॒वं वि॒दुष ए॒तामन्वा॒हुः ॥ २८॥ सो ऽन्वा॑ह । ई॒डेन्यो॒ नम॑स्य॒ इतीडे॒न्यो॑ ह्येष नम॑स्यो॒ ह्येष ति॒रस्तमाꣳसि दर्शत इति॒ तिर्-इ॑व॒ ह्येष तम॒ाꣳसि समि॑द्धो ददृशे समि॒धिरि॑ध्यते॒ वृषेति॒ स॒ꣳ ही॑ध्य॑ते॒ वृ- षा वृषो॒ऽग्निः समिध्यत॒ऽइति॒ स॒ꣳ ही॑ध्य॑ते ॥ २९॥ अश्वो॒ न दे॑व॒वाह॑न॒ इति॑ । अश्वो॑ ह वा॒ऽएष भू॒त्वा दे॒वेभ्यो॑ य॒ज्ञं वह॑ति॒ य॑द्वे ने॒त्यृचो॒मिति॒ तत्त॑स्मादाहा॒श्वो न दे॑व॒वाह॑न॒ इति॑ ॥ ३०॥ तꣳ ह॒विष्म॑न्त ईडत॒ऽइति॑ । ह॒विष्म॑न्तो॒ ह्येनं॑ मनु॒ष्या ईड॑ते॒ तस्मा॑दाह॒ तꣳ ह॒विष्म॑न्त ईडत॒ऽइति॑ ॥ ३१॥ वृष॑णं त्वा व॒यं वृष॒न्वृष॑णः स॒मिधी॑महीति॑ । स॒ꣳ ह्ये॑नमिन्द्धे॒ऽग्ने दी॒द्यतं॑ बृह॒दिति दीद्ये॒व ह्येष बृ॒हत्समि॑द्धः ॥ ३२॥ तं वा॒ऽए॒तम् । वृषण्व॑न्तं॒ त्रिच॒मन्वा॑हाग्ने॒य्यो वा॒ऽएताः सर्वाः सा॑मिधे॒न्यो भव॑न्तीन्द्रो॒ वै य॒ज्ञस्य॑ देव॒तेन्द्रो॒ वृषैते॒नो ह्वास्येताः सेन्द्राः सा॑मिधे॒न्यो भव॑न्ति तस्मा॑द्वृषण्व॑न्तं॒ त्रिच॒मन्वा॑ह ॥ ३३॥ सो॒ऽन्वाह॑ । अ॒ग्निं दू॒तं वृ॑णीमह॒ऽइति॑ दे॒- वाश्च॒ वा॒ऽअसु॑राश्चो॒भये॑ प्राजाप॒त्याः पस्पृ॑धिरे॒ तांस्पृ॒र्धमानान्गाय॒त्र्यन्त॒रा त॑स्थौ या वै सा गाय॒त्र्यासी॑दि॒यं वै सा पृ॑थि॒व्ये॑त॒द् धै॑व तदन्त॒रा त॑स्थौ त॒ऽउभय॑ऽए॒व वि- दां च॒क्रुर्यतरा॒न्वै न इयमुपाव॑र्त्स्यति॒ ते भवि॑ष्यन्ति॒ परे॑तरे भवि॒ष्यन्ती॑ति॒ तामु॑भय ऽए॒वोप॑मन्त्रयां चक्रिरे॒ऽग्निरि॑व दे॒वानां॑ दूत आस॒ सह॑रक्षा इत्य॒सुररक्षसमसुराणाꣳ