भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 92, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 92

७४ शतपथ ब्राह्मण सा॒ग्निमि॒वानु॑प्रेयाय॒ तस्मा॒दन्वा॒हाग्निं दू॒तं वृ॑णीमह॒ऽइति॑ स हि दे॒वानां॑ दू॒त आ॑- सीद्धो॒तारं॑ वि॒श्ववे॑दसमिति ॥ ३४॥ तडु॒ हैके॑ऽन्वाहुः । होता यो वि॒श्ववे॑दस इति नेद॒रमि॒त्यात्मा॑नं ब्रवा॒णीति॒ नडु॒ तथा॒ न ब्रू॑यान्मानु॒षँ ह॒ ते य॒ज्ञे कुर्वन्ति॒ व्यृद्धं॑ वै तद्य॒ज्ञस्य॒ यन्मानु॑षं नेद्व्यृ॒द्धं य॒ज्ञे करवाणीति॒ तस्मा॒द्यथै॒वार्चा॒नूक्त॑मेवा॒नुब्रूयाद्धो- तारं॑ वि॒श्ववे॑दसमित्ये॒वास्य॑ य॒ज्ञस्य॑ सुक्रतु॒मित्येष हि॒ य॒ज्ञस्य॑ सुक्रतुर्य॑दमू॒दस्तस्मा॒दा- ह्वास्य॑ य॒ज्ञस्य॑ सुक्रतु॒मिति॒ सेयं दे॒वानुपाव॑वर्त॒ ततो॑ दे॒वा अ॑भवन्परा॒ऽसुरा॒ भव॑ति ह॒ वाऽऽत्मना॒ परा॑स्य स॒पत्नौ भवन्ति॒ यस्यै॒वं विदु॑ष ए॒तामन्वा॒हु ॥ ३५॥ तां वाऽऽष्ट॒मीमनु॑ब्रूयात् । गाय॒त्री वाऽए॒षा नि॒दाने॒नाष्टाक्ष॑रा वै गाय॒त्री तस्मा॑दष्ट॒- मीमनु॑ब्रूयात् ॥ ३६॥ तद्वैके । पु॒रस्ता॑द्धा॒य्ये दध॒त्यन्नं॒ धाय्ये॒ मुखत॒ऽइद॒मन्नाद्यं॑ दध्म इति॒ वद॑न्त॒स्तडु॒ तथा॒ न कु॒र्याद॑नवक्लृ॒प्ता तस्यै॒षा भव॑ति॒ यः पु॒रस्ता॑द्धा॒य्ये दधा॑ति दश॒मी वा हि तस्यै॑काद॒शी वा संपद्य॑ते॒ तस्यो॒ द्वैवैषाव॑क्लृप्ता भव॑ति॒ यस्यैताम॒ष्ट- मीमन्वा॒हुस्तस्मा॑दुपरि॒ष्टादे॒व धा॒य्ये द॑ध्यात् ॥ ३७॥ स॒मिध्य॑मानोऽअध्वर॒ऽइति॑ । अ॒- ध्व॒रो वै य॒ज्ञः स॒मिध्य॑मानो य॒ज्ञऽइत्ये॒वैतदा॑हा॒ग्निः पाव॒क ईड्य॒ इति॑ पाव॒को ह्येष ईड्यो॒ ह्येष शो॒चिष्के॑श॒स्तमी॑मह॒ऽइति॑ शो॒चिन्तीव॒ ह्ये॑तस्य॒ केशाः समि॑द्धस्य स॒मि- द्धोऽअ॒ग्नऽआहु॑तेत्यन्तः प्राचीनँ सर्वमिध्ममभ्यादध्याद्यदन्यत्समिधोऽपवृङ्क्तऽइव॒ हि तद्धोता॒ यद्धाऽअन्यत्स॑मिध॒ इध्म॒स्याति॑रिच्येतै॒वाति॑रिक्तं॒ तद्यद्वै य॒ज्ञस्याति॑रिक्तं द्विष- न्तँ ह्वास्य तद्भ्रातृ॑व्यम॒भ्यति॑रिच्यते॒ तस्माद॒न्तः प्राची॒नँ सर्व॑मिध्मम॒भ्याद॑ध्याद्यद॒न्य- त्समिधः ॥ ३८॥ दे॒वान्य॑क्षि स्व॒ध्वरेति॑ । अ॒ध्व॒रो वै य॒ज्ञो दे॒वान्य॑क्षि सुय॒ज्ञियित्ये॒वैत- दाहा॑ वो॒ढ् हि ह॒व्यवा॑ऽउसीत्येष हि ह॒व्यवाडुद॑मू॒दस्तस्मा॑दाहा वो॒ढ् हि ह॒व्यवा॑- सीत्या॒ जुहो॑ता दु॒वस्य॑ता॒ग्निं प्रय॒त्यध्व॒रे । वृणी॒ध्वं ह॒व्यवाह॑न॒मिति॒ संप्रेष्य॒त्येवै- तया॑जुहु॒त च॒ यज॑त च॒ यस्मै॒ कामा॑य समे॒न्धिध्वं तत्कु॑रुतेत्ये॒वैतदा॑हा॒ग्निं प्रय॒त्यध्व॑रे ऽइत्यध्व॒रो वै य॒ज्ञोऽग्निं प्रय॑ति य॒ज्ञऽइत्ये॒वैतदा॑ह॒ वृणी॒ध्वं ह॒व्यवाह॑न॒मित्येष हि