शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 94, कुल 699 में से
संदर्भ में पढ़ें७६ शतपथ ब्राह्मण हव्य॒वाह॒नो यद॒ग्निस्तस्मा॒दाह॑ वृणी॒ध्व॑ꣳ हव्य॒वाहन॒मिति॑ ॥ ३१॥ ते वाऽए॒तम् । अध्रु॒वन्तं॑ त्रिच॒मन्वा॑हुर् देवा॒न् ह॒ वै य॒ज्ञेन॒ यज॑मानान्त्सप॒त्ना अ॑सु॒रा दुधूर्षां च॒क्रुस्ते दुधूर्षन्त एव॒ न शे॑कुर्धूर्वितुं ते परा॑बभूवुस्तस्मा॒द्य॒ज्ञोऽधु॒रो नाम॑ दुधूर्ष॒न्ह वा ऽएनंꣳ स॒पत्नः परा॑भवति॒ यस्यै॒वं वि॒दुषो॒ऽध्रु॒वन्तं॑ त्रिच॒मन्वा॑हुर्याव॒देव सौम्येना- ध्व॒रेणो॒पा जय॑ति॒ ताव॑ज्जयति ॥ ४० ॥ ब्रा॒ह्म॒णम् ॥ ३ [४. १.] ॥ ए॒तद् वै दे॒वा अ॒ग्निं ग॑रि॒ष्ठेऽयु॑ञ्जन् । य॒दोत॒न्व॒ऽइदं॑ नो ह॒व्यं व॑हेति॒ तमे॒तद्- रि॒ष्ठे यु॒क्त्वोपा॑मदन्वी॒र्य॑वा॒न्वै त्वम॑स्यल॑ वै त्व॒मेत॒स्मा॒ऽअसीति॑ वी॒र्ये समाद॑धतो य- थेद॒मप्ये॑त॒र्हि ज्ञा॒तीनां॒ यं गरि॑ष्ठे यु॒ञ्जन्ति॒ तमुप॒मद॑न्ति वी॒र्य॑वा॒न्वै त्वम॑स्यल॑ वै त्व- मेत॒स्मा॒ऽअसीति॑ वी॒र्ये समाद॑धतः स यद॑त ऊ॒र्ध्वमन्वा॒होप॑स्तौत्ये॒वैनमेतद्वी॒र्य॑मेवा- स्मिन्दधाति ॥ १॥ अ॒ग्ने म॒हाँ२॥ऽअ॑सि ब्रा॒ह्म॒ण भा॑र॒तेति॑ । ब्र॒ह्म॒ ह्यग्निस्तस्मा॒दाह॑ ब्रा॒ह्म॒णेति॒ भार॒तेत्ये॒ष हि दे॒वेभ्यो॑ ह॒व्यं भर॑ति॒ तस्मा॒द्भार॒तोऽग्नि॒रित्या॑हुरे॒ष उ॑ वा ऽइ॒माः प्र॒जाः प्रा॒णो भू॒त्वा बिभ॑र्ति॒ तस्मा॒द्देवा॒ह भा॑र॒तेति॑ ॥ २॥ अ॒थार्षे॒यं प्रवृ॑- णीते । ऋ॒षिभ्य॑श्चै॒वैनमेतद्दे॒वेभ्य॑श्च निवे॒दय॑त्य॒यं म॒हावी॒र्यो यो य॒ज्ञं प्राप॒दिति॒ त- स्मा॒दार्षे॒यं प्रवृ॑णीते ॥ ३॥ परस्ता॒दर्वा॒क्प्रवृ॑णीते । प॒रस्ता॒द्ध्यर्वा॑च्यः प्र॒जाः प्र॒जा- यन्ते॒ ज्याय॑स॒स्तत्पु॒त्रोऽथ॑ चै॒वैतं॒ निष्कृत॒ऽइ॒ह हि पि॒तैवाग्रे॒ऽथ पु॒त्रोऽथ पौत्र॒स्तस्मा॑- त्परस्ता॒दर्वा॒क्प्रवृ॑णीते ॥ ४॥ स आर्षे॒यमु॒क्त्वाह॑ । दे॒वेद्धो म॑न्वि॒द्ध इति॑ दे॒वा ह्ये- तमग्र॒ऽऐन्ध॑त॒ तस्मा॑दाह दे॒वेद्ध॒ इति॑ मन्वि॒द्ध इति॑ मनु॒र्ह्येतमग्र॒ऽऐन्ध॒ तस्मा॑दाह मन्वि॒द्ध इति॑ ॥ ५॥ ऋ॑षि॒ष्टुत इति॑ । ऋषयो॒ ह्येतमग्र॒ऽस्तु॑वंस्तस्मा॒दाह॒र्ऋषि॑ष्टुत॒ इति॑ ॥ ६॥ विप्रा॑नुम॒दित इति॑ । ए॒ते वै विप्रा॒ यदृष॑य ए॒ते ह्येतमन्वम॑दंस्तस्मा॒दाह॒ विप्रा॑नुम॒दित इति॑ ॥ ७॥ क॑वि॒शस्त॒ इति॑ । ए॒ते वै क॒वयो॒ यदृष॑य ए॒ते ह्येतम॑- शꣳसंस्तस्मा॒दाह कवि॑शस्त॒ इति॑ ॥ ८॥ ब्र॒ह्मसं॑शित॒ इति॑ । ब्र॒ह्मसं॑शितो॒ ह्येष॑ घृ॒ताह्व॑न॒ इति॑ घृ॒ताह्व॑नो॒ ह्येषः॑ ॥ ९॥ प्रणी॑र्यज्ञा॒नाꣳ रथी॑रध्व॒राणा॒मिति॑ । ए॒तेन॑